गोवर्धनाश्रयदशकम्
सप्ताहं मुरजित्कराम्बुजपरिभ्राजत्कनिष्ठाङ्गुलि
प्रोद्यद्वल्गुवरातकोपरिमिलन्मुग्धद्विरेफोऽपि यः ।
पाथःक्षेपकशक्रनक्रमुखतः क्रोडे व्रजं द्राग् अपा-
त्कस्तं गोकुलबन्धवं गिरिवरं गोवर्धनं नाश्रयेत् ॥ १॥
इन्द्रत्वे निभृतं गवां सुरनदीतोयेन दीनात्मना
शक्रेणानुगता चकार सुरभिर्येनाभिषेकं हरेः ।
यत्कच्छेऽजनि तेन नन्दितजनं गोविन्दकुण्डं कृती
कस्तं गोनिकरेन्द्रपट्टशिखरं गोवर्धनं नाश्रयेत् ॥ २॥
स्वर्धुन्यादिवरेण्यतीर्थगणतो हृद्यान्यजस्रं हरेः
सीरिब्रह्महराप्सरःप्रियकतत्श्रीदानकुण्डान्यपि ।
प्रेमक्षेमरुचिप्रदानि परितो भ्राजन्ति यस्य व्रती
कस्तं मन्यमुनीन्द्रवर्णितगुणं गोवर्धनं नाश्रयेत् ॥ ३॥
ज्योत्स्नामोक्षणमाल्यहारसुमनोगौरीबलारिध्वजा
गान्धर्वादिसरांसि निर्झरगिरिः शृङ्गारसिंहासनम् ।
गोपालोऽपि हरिस्थलं हरिरपि स्फूर्जन्ति यत्सर्वतः
कस्तं गोमृगपक्षिवृक्षललितं गोवर्धनं नाश्रयेत् ॥ ४॥
गङ्गाकोट्यधिकं बकारिपदजारिष्टारिकुण्डं वह-
न्भक्त्या यः शिरसा नतेन सततं प्रेयान्शिवादप्यभूत् ।
राधाकुण्डमणिं तथैव मुरजित्प्रौढप्रसादं दधा-
त्प्रेयःस्तव्यमनोऽभवत्क इह तं गोवर्धनं नाश्रयेत् ॥ ५॥
यस्यां माधवनाविको रसवतीमाधाय राधां तरौ
मध्ये चञ्चलकेलिपातवलनात्त्रासैः स्तुवत्यास्ततः ।
स्वाभिष्ठं पणमादधे वहति सा यस्मिन्मनोजाह्नवी
कस्तं तन्नवदम्पतिप्रतिभुवं गोवर्धनं नाश्रयेत् ॥ ६॥
रासे श्रीशतवन्द्यसुन्दरसखी वृन्दाञ्चिता सौरभ
भ्राजत्कृष्णरसालबाहुविलसत्कण्ठी मधौ माधवी ।
राधा नृत्यति यत्र चारु वलते रासस्थली सा परा
यस्मिन्स सुकृती तमुन्नतमये गोवर्धनं नाश्रयेत् ॥ ७॥
यत्र स्वीयगणस्य विक्रमभृता वाचा मुहुः फुल्लतोः
स्मेरक्रूरदृगन्तविभ्रमशरैः शश्वन्मिथो विद्धयोः ।
तद्यूनोर्नवदानसृष्टिजकलिर्भङ्ग्या हसन्जृम्भते
कस्तं तत्पृथुकेलिसूचनशिलं गोवर्धनं नाश्रयेत् ॥ ८॥
श्रीदामादिवयस्यसञ्चयवृतः सङ्कर्षणेनोल्लस-
न्यस्मिन्गोचयचारुचारणपरो रीरीति गायत्यसौ ।
रङ्गे गूढगुहासु च प्रथयति स्मारक्रियां राधया
कस्तं सौभगभूषिताञ्चिततनुं गोवर्धनं नाश्रयेत् ॥ ९॥
कालिन्दीं तपनोद्भवं गिरिगणानत्युन्नमाचेखरा-
न्श्रीवृन्दाविपिनं जनेप्सितधरं नन्दीश्वरं चाश्रयम् ।
हित्वा यं प्रतिपूजयन्व्रजकृते मानं मुकुन्दो ददौ
कस्तं शृङ्गिकिरीटिनं गिरिनृपं गोवर्धनं नाश्रयेत् ॥ १०॥
तस्मिन्वासदमस्य रम्यदशकं गोवर्धनस्येह य-
त्प्रादुर्भूतमिदं यदीयकृपया जीर्णान्धवक्त्रादपि ।
तस्योद्यद्गुणवृन्दबन्धुरखणेर्जीवातुरूपस्य तत्-
तोषायाप्यलं भवत्टिह फलं पक्वं मया मृग्यते ॥ ११॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीगोवर्धनवासप्रार्थनादशकं सम्पूर्णम् ।