श्रीगोसखपञ्चविंशतिः
मार्कण्डेयकवेरजाखगपतिप्रह्लादसंसेवितं
सेवे गोसखमम्बुजाक्षममलं कारुण्यवारां निधिम् ।
भूमौ चेतनरक्षणार्थमजरो योऽवातरच्छ्रीपतिः
स्वच्छाम्भोभरदर्शपुष्करणिकातीरे सुरम्यो हरिः ॥ १॥
वन्दिषीय जलधेस्सुतापतिं
नन्दगोपसुतमाश्रितेष्टदम् ।
नीलमेघनिभविग्रहं हरिं
दर्शतीर्थतटमास्थितं विभुम् ॥ २॥
श्रीमन्तं वरदममुं भजेऽहमा द्यं
गोपालं व्रजयुवतीविहारलोलम् ।
देदीप्यन्मणिमयहारवक्षसं तं
गोविन्दं निगमशिखासु वेद्यरूपम् ॥ ३॥
श्रीगोसख त्वमधिकोऽपि महेश्वराणां
वेदान्त वेद्यनिजरूपगुणप्रतापः ।
बद्धोऽसि यत्धनदपुत्र विमोक्षहेतु-
रज्ज्वा स्त्रिया कथय किं भवतो हि लीला ॥ ४॥
श्रीदर्शतीर्थतटखेलनतत्परादौ
बाणाहवे जितमपि श्रितकामधेनुः ।
पुत्रार्थमिन्दुशिरसं भगवान् हिमाद्रौ
गत्वा त्वयाचत भवान् किमहो करोति ॥ ५॥
पुरा जरासन्धमहोऽवधी रिपुं
न मानवोऽशक्त भुजाहवे सकृत् ।
अनीनयः पुत्रमुदारशक्तिको
गुरोः समीपं यदुवंशनायकः ॥ ६॥
विचित्रतेजोगुणयुक्तरूपः
सालद्रुमाद्रीनिषुणा बिभेद ।
भवान् ययाचे कपिमल्पवीर्यं
ममानुकूल्यं कुरु सूर्यजेति ॥ ७॥
श्रीगोसख श्रितजनावनबद्धदीक्ष
देवादिनाथमकुटोज्ज्वलरत्नकान्त्या ।
नीराजिताङ्घ्रिजलजद्वय पाहि मां त्वं
कारुण्यदर्शितशिशुक्रम देवदेव ॥ ८॥
भजे मुरारे भवदीयपाद-
मनन्यबुद्ध्या भववार्धिपोतम् ।
उदार मां पालय मन्तुगेहं
न चेद्भवेद्वत्सलता प्रयाता ॥ ९॥
स्वामिन्नभीष्टवरदाखिललोकबन्धो
सूर्येन्दुलोचन रतीश सुरम्यमूर्ते ।
रत्नोज्ज्वलन्मकुटरम्यशिरस्क पाहि
श्रीदर्शपुष्करिणिकातटवासलोल ॥ १०॥
वन्दे तं गुणवारिधिं व्रजसुता लीलापरं गोसखं
वत्साघाश्वदवाग्निधेनुकतृणावर्तेभमल्लान्तकम् ।
लीलामानुषविग्रहं गिरिवरं मुक्त्वा शचीशाज्ञया (गिरिवरं धृत्वा)
वर्षत्यम्बुवहे भृशं निज जनस्त्रीगोपरक्षाकरम् ॥ ११॥
यो ननर्त स्वनन्नूपुराणोजप-
द्विस्तरे कालियस्योत्तमाङ्गे चिरम् ।
चञ्चलद्वर्हनीलालकास्याम्बुजं
दर्शतीर्थत्य कूले हरी राजते ॥ १२॥
पाश्चस्थया श्रियासौ
नन्दतनूजो विराजते शार्ङ्गी ।
ऐन्द्रधनुर्वैद्युतरक्तो
नीलाम्बुधरो द्युरत्रेव इवाकाशे ॥ १३॥
क्षीराब्धेर्मथनं चकारिथ पुरा धृत्वाचलं मन्थरं
कूर्माकारधरो द्विशीर्षमहिराडज्ज्वा कराब्जेन यः ।
आलम्ब्याश्रितवत्सलः सुरगणैः सम्प्रार्थ्यमानः सुधां
प्रादादत्र भवान् जनावनकृते त्वं सनिधत्स्व स्वयम् ॥ १४॥
श्रीपादपद्मौ भज मानसाले
सन्तापहारप्रथितौ मनोज्ञौ ।
उज्जीवनेच्छा यदि ते मुरारे
श्रीगोसखस्याब्धिसुतासखस्य ॥ १५॥
पूर्वं व्रजे सुनवनीतमचूचुरस्त्वं-
गोपीगृहेषु दययादृतशैशवोऽत्र ।
अद्यापि देव गुणमर्मविचित्रवेषै-
र्गृह्णासि सेवकजनस्य मनो रमेश ॥ १६॥
गोविन्द गोपसुत नक्तञ्चरेशसुतनागास्त्रमोषितबलो
निस्सगकोऽपि रणव्रज्या हरघ्न रघुवीर ... लघुबलः ।
आदातुकाम रुधिरा ... शयिनेतुरतिदुर्धर्ष एव भगवन्
सोऽयं दयाम्बुनिधिरस्मान् हि पातुमिह मान्द्योल्बणान् सुवससी(?) ॥ १७॥
ववन्दे बिम्बोष्ठं मणिमयकिरीटोज्ज्वलममुं
सुनासं नीलान्तोद्धानितधनुं सुभ्रुलतिकम् ।
दरस्मेरास्येन्दुं परिससूबाहुं सवसनं
पयोजाक्षं रम्भार्तिकरवरोरुं भुजपदं ? ॥ १८॥
रक्ताब्जलोचनाढ्यदेवं चक्रगदाखड्गधरं शार्ङ्गैड्यम् ।
तं नौमि गोपसूनुं गोसखमम्भोजसम्भवद्ध्येयम् ॥ १९॥
गोसखमम्भोजलोचनं नौमि पीतवाससम् ।
हृदयानिकेतनं प्रभुं पिंञ्छाचूडं सुन्दराङ्गकम् ॥ २०॥
कुचेलेनानीतं पृथुकमतिरिक्तेन भगवन्
सुभुक्त्वातिप्रीत्या फलसुमजलाद्यैरुपचरन् ।
भवान् प्रादात्तस्मै निरवधिकमैश्वर्यमतुलं
रमेशोदारत्वं त्वयि तु किमहोऽगण्यविभवम् ॥ २१॥
शरणमेति महः परमं परं
गुणनिकेतनमब्धिभवासखम् ।
त्रिदशसेव्यमचिन्त्यमजं स्थिरं
लसितदर्शतटे स्थितमादिमम् ॥ २२॥
छेत्ता कंसादिसकलशत्रोः
भर्ता रत्नाम्बुजातदयितायाः ।
कर्ता ब्रह्मादिसकलसृष्टेः
भोक्ता स स्यादधिकमुदे मे ॥ २३॥
दुष्टक्षोणीपतिनिकुरुम्बं
हत्वा तुत्वा तद्रक्तसरसि पूर्वकृष्ण ।
हे राम त्वं पितृकुलत्रस्तरुग्रो
नैवापाम्भोऽप्यपाय उर्वीभारम् ॥ २४॥
शठमथनवरवरमुनिमुखकलित-
नुतिवचनविषयमिह वरये ।
पशुसखमहिपतिशयमुपरिचर-
वसुनरपतिविनुतपदकमलम् ॥ २५॥
रक्ताब्जनायिकां तां करुणारूपामहम्भजेय मुग्धाङ्गीम् ।
अर्थिसखकल्पवल्लीं गोसखदयितां सभूषणां देवीम् ॥ २६॥
निःसमाभ्यधिको लोके जीयादाचन्द्रतारकम् ।
कृष्णो रक्ताब्जनायिकानाथो भक्तेष्टदोऽधिकम् ॥ २७॥
इति सुदर्शनवरददासकृतगोसखपञ्चविंशतिः सम्पूर्णा ।
Proofread by Rajesh Thyagarajan