श्रीगोपालस्तवः २
धिक्कुलं धिक्कुटुम्बं च धिग्गृहं धिसुतं च धिक् ।
आत्मानं धिक् शरीरं च श्रीगोपालपराङ्मुखम् ॥ १॥
धिक्सम्पदं च पाण्डित्यं महत्त्वं धिग्यशश्च धिक् ।
धिक्कर्म धिक् फलं चैव श्रीगोपालपराङ्मुखम् ॥ २॥
धिग्भोगं भोगिवर्गं धिक् धिक्कामं कामिनं च धिक् ।
धिग्यज्ञं धिक्कलत्रं च श्रीगोपालपराङ्मुखम् ॥ ३॥
धिग्धर्मं धिक्सुखं चैव धिक्स्वान्तं धिक्च जीवनम् ।
धिग्वचो धिक् श्रमं चैव श्रीगोपालपराङ्मुखम् ॥ ४॥
धिङ्मातरं च पितरं धिक् शिष्यं धिग्बलं च धिक्-।
भोक्तारं भरणं धिक् च श्रीगोपालपराङ्मुखम् ॥ ५॥
धिक् पालकं च राजानं धिग्दातारं धिगिन्द्रियम् ।
धिक् प्रेम धिग्विलासं च श्रीगोपालपराङ्मुखम् ॥ ६॥
धिङ्नाट्यं धिक्तपः पुण्यं धिग्लाभं धिग्व्ययं च धिक् ।
धिक् स्थलं धिक् प्रियं चैव श्रीगोपालपराङ्मुखम् ॥ ७॥
धिक्कालं धिक्प्रियं चैव धिग्व्रतं भ्रातरं च धिक् ।
धिक् सत्यं धिङ्मनुष्यत्वं श्रीगोपालपराङ्मुखम् ॥ ८॥
यः पठेच्छुद्धधीर्भूत्वा गोपालस्तवमद्भुतम् ।
भक्त्या विचार्यापापो यः स याति ब्रह्मसन्निधिम् ॥
इति श्रीरघुनाथजीकृतो गोपालस्तवः समाप्तः ।
Proofread by PSA Easwaran