श्रीगोकुलेशस्तवः
स्वयं योऽवतीर्य क्षितौ विठ्ठलेशा-
दशेषं जगत्पालको गोकुलेशः ।
सुवेशोऽनिशं शोभते तत्समानो
न भूतो न भावी न वा वर्तमानः ॥ १॥
समस्तं यतिग्रस्तधर्मं च गोप्तुं
निजोक्त्याऽवमत्या जगत्या अधीशम् ।
निरस्येह यः स्तूयते तस्य तुल्यो
न भूतो न भावी न वा वर्तमानः ॥ २॥
सुकेशो यशोभूषितो गोकुलेशः
स्वयोषिन्मनोभोगिवेषी य एषः ।
अशेषज्ञलोकोऽपि तस्माद्विशेषो
न भूतो न भावी न वा वर्तमानः ॥ ३॥
समेतार्थविश्वानीतानन्तवित्तः
सुपुण्यैर्गुणैः सर्वदा शोभमानः ।
धरण्यामिहैतत्समोदारचित्तो
न भूतो न भावी न वा वर्तमानः ॥ ४॥
स्वरूपात्मकानन्ददानैकदक्षो
वधूवक्त्रचन्द्रानुरज्यत्कटाक्षः ।
तदीयाधरस्थामृतास्वादकोऽन्यो
न भूतो न भावी न वा वर्तमानः ॥ ५॥
व्रजानन्दकन्दो निजानन्दपूर्णः
सदानन्दरूपः सदा राजते यः ।
सदा भक्तकानन्ददाता ततोऽन्यो
न भूतो न भावी न वा वर्तमानः ॥ ६॥
समस्तै रसैरुल्लसन् गोकुले यो
जयत्येष पूर्णः पुमानेव नित्यम् ।
स्वकीयाङ्गनाकामनापूरकोऽन्यो
न भूतो न भावी न वा वर्तमानः ॥ ७॥
सदाऽऽनन्दयन् सेविनः सद्रसौघैः
श्रियो वल्लभो दुर्लभो गोकुलेशः ।
य एवंविधो राजते तं विनाऽन्यो
न भूतो न भावी न वा वर्तमानः ॥ ८॥
नवं गोकुलेशस्तवं सुश्रवं यः
शिवं सर्वदा कृष्णरायोक्तमेतम् ।
पठेदष्टपद्यं स सद्योऽनवद्यं
स्वरूपं तदीयं प्रपद्येत हृद्यम् ॥ ९॥
इति कृष्णरायोक्तः श्चीगोकुलेशस्तवः समाप्तः ।
Proofread by PSA Easwaran