श्रीगरुडाष्टोत्तरशतनामावलिः
ॐ वैनतेयाय नमः । खगपतये । काश्यपाय । अग्नये ।
महाबलाय । तप्तकाञ्चनवर्णाभाय । सुपर्णाय । हरिवाहनाय ।
छन्दोमयाय । महातेजसे । महोत्साहाय । महाबलाय । ब्रह्मण्याय ।
विष्णुभक्ताय । कुन्देन्दुधवलाननाय । चक्रपाणिधराय । श्रीमते ।
नागारये । नागभूषणाय । विज्ञानदाय नमः ॥ २०
ॐ विशेषज्ञाय नमः । विद्यानिधये । अनामयाय । भूतिदाय ।
भुवनत्रात्रे । भूशयाय । भक्तवत्सलाय । सप्तछन्दोमयाय । पक्षिणे ।
सुरासुरसुपूजिताम । गजभुजे । कच्छपाशिने । दैत्यहन्त्रे ।
अरुणानुजाय । अमृतांशाय । अमृतवपुषे । आनन्दनिधये ।
अव्ययाय निगमात्मने । निराहाराय नमः ॥ ४०
ॐ निस्त्रैगुपयाय । निरप्ययाय । निर्विकल्पाय । परस्मै-
ज्योतिषे । परात्परतराय । परस्मै । शुभाङ्गाय । शुभदाय । शूराय ।
सूक्ष्मरूपिणे । बृहत्तनवे । विषाशिने । विदितात्मने । विदिताय ।
जयवर्धनाय । दार्ढ्याङ्गाय । जगदीशाय । जनार्दनमहाध्वजाय । सतां
सन्तापविच्छेत्रे । जरामरणवर्जिताय नमः ॥ ६०
ॐ कल्याणदाय । कलातीताय । कलाधरसमप्रभाय ।
सोमपाय । सुरसङ्घेशाय । यज्ञाङ्गाय । यज्ञभूषणाय । महाजवाय ।
जितामित्राय । मन्मथप्रियबान्धवाय । शङ्खभृते । चक्रधारिणे ।
बालाय । बहुपराक्रमाय । सुधाकुम्भधराय । धीमते । दुराधर्षाय ।
दुरारिघ्ने । वज्राङ्गाय । वरदाय नमः ॥ ८०
ॐ वन्द्याय नमः । वायुवेगाय । वरप्रदाय । विनतानन्दनाय ।
श्रीदाय । विजितारातिसङ्कुलाय । पतद्वरिष्ठाय । सर्वेशाय । पापघ्ने ।
पापनाशनाय । अग्रिजिते । जयघोषाय । जगदाह्लादकारकाय ।
वज्रनासाय । सुवक्त्राय । मारिघ्नाय । मदभञ्जनाय । कालज्ञाय ।
कमलेष्टाय । कलिदोषनिवारणाय नमः ॥ १००
ॐ विद्युन्निभाय नमः । विशालाङ्गाय । विनतादास्य-
मोचनाय । स्तोमात्मने । त्रयीमूर्ध्ने । भूम्ने । गायत्रलोचनाय ।
सामगानरताय । स्रग्विणे । स्वच्छन्दगतये । अग्रण्ये ।
श्रीपक्षिराजपरब्रह्मणे नमः ॥ १११
इति गरुडाष्टोत्तरशतनामावलिः समाप्ता ।
Proofread by PSA Easwaran