गीतावली
प्रथमं नन्दोत्सवादि
श्रीराधाकृष्णौ जयतः
१
भैरवरागेण गीयते ।
पुत्रमुदारमसूत यशोदा ।
समजनि वल्लवततिरतिमोदा ॥ ध्रुवम् ॥
कोऽप्यपनयति विविधमुपहारम् ।
नृत्यति कोऽपि जनो बहुबारम् ॥
कोऽपि मधुरमुपगायति गीतम् ।
विकिरति कोऽपि सदधि नवनीतम् ॥
कोऽपि तनोति मनोरथपूर्तिम् ।
पश्यति कोऽपि सनातनमूर्तिम् ॥ १॥
२
आसावरी ।
विप्रवृन्दमभूदलङ्कृतिगोधनैरपि पूर्णम् ।
गायनान् अपि मद्विधान् व्रजनाथ तोषय तूर्णम् ॥
सूनुरद्भुतसुन्दरोऽजनि नन्दराज तवायम् ।
देहि गोष्ठजनाय वाञ्छितमुत्सवोचितदायम् ॥ ध्रुवम् ॥
तावकात्मजवीक्षणक्षणनन्दि मद्विधचित्तम् ।
यन्न कैरपि लब्धमर्थिभिरेतदिच्छति वित्तम् ॥
श्रीसनातनचित्तमानसकेलिनीलमराले ।
मादृशां रतिरत्र तिष्ठतु सर्वदा तव बाले ॥ २॥
३
वसन्तपञ्चमी
वसन्तरागः
अभिनवकुट्मलगुच्छसमुज्ज्वलकुञ्चितकुन्तलभार ।
प्रणयिजनेरितवन्दनसहकृतचूर्णितवनघनसार ॥
जय जय सुन्दर नन्दकुमार ।
सौरभसङ्कटवृन्दावनविहितवसन्तविहार ॥ ध्रुव ॥
अधरविराजितमन्दतरस्मितलोभितनिजपरिवार ।
चटुलदृगञ्चलरचितरसोच्चलराधामदनविकार ॥
भुवनविमोहनमञ्जुलनर्तनगतिवल्गितमणिहार ।
निजवल्लभजनसुहृत्सनातनचित्तविहरदवतार ॥ ३॥
४
दोलोत्सवः
वसन्तरागः
केलिरसमाधुरी ततिभिरतिमेदुरी
कृतनिखिलबन्धुपशुपालम् ।
हृदि विधृतचन्दनं स्फुरदरुणवन्दनं
देहरुचिनिर्जिततमालम् ॥
सुन्दरि माधवमवकलयालम् ।
मित्रकरलोलया रत्नमयदोलया
चलितवपुरतिचपलमालम् ॥ ध्रुव ॥
व्रजहरिणलोचना रचितगोरोचना
तिलकरुचिरुचिरतरभालम् ।
स्मितजनितलोभया वदनशशिशोभया
विभ्रमितनवयुवतिजालम् ॥
नर्ममयपण्डितं पुष्पकुलमण्डितं
रमणमिह वक्षसि विशालम् ।
प्रणतभयशातनं प्रियमधि सनातनं
गोष्ठजनमानसमरालम् ॥ ४॥
५
आसावरी
निपतति परितो वन्दनपाली ।
तं दोलयति मुदा सुहृदाली ॥
विलसति दोलोपरि वनमाली ।
तरलसरोरुहशिरसि यथाली ॥ ध्रुव ॥
जनयति गोपीजनकरताली ।
कापि पुरो नृत्यति पशुपाली ॥
अयमारण्यकमण्डनशाली ।
जयति सनातनरसपरिपाली ॥ ५॥
६
धनाश्रीः
न कुरु कदर्थनमत्र सरण्याम् ।
मामवलोक्य सतीमशरण्याम् ॥
चञ्चल मुञ्च पटाञ्चलभागम् ।
करवाण्यधुना भास्करयागम् ॥ ध्रुव ॥
न रचय गोकुलवीर विलम्बम् ।
विदधे विधुमुख विनतिकदम्बम् ॥
रहसि बिभेमि विलोलदृगन्तम् ।
वीक्ष्य सनातन देव भवन्तम् ॥ ६॥
७
सौरष्ट्री
राधे निगद निजं गदमूलम् ।
उदयति तनुमनु किमिति तापकुलमनुकृतविकटकुकूलम् ॥ ध्रुव ॥
प्रचुरपुरन्दरगोपविनिन्दककान्तिपटलमनुकूलम् ।
क्षिपसि विदूरे मृदुलं मुहुरपि सम्भृतमुरसि दुकूलम् ॥
अभिनन्दसि न हि चन्द्ररजोभरवासितमपि ताम्बूलम् ।
इदमपि विकिरसि वरचम्पककृतमनुपमदाम सचूलम् ॥
भजदनवस्थितिमखिलपदे सखि सपदि विडम्बिततूलम् ।
कलितसनातनकौतुकमपि तव हृदयं स्फुरति सशूलम् ॥ ७॥
८
सौरष्ट्री
कुटिलं मामवलोक्य नवाम्बुजमुपरि चुचुम्ब स रङ्गी ।
तेन हठादहमभवं वेपथुमण्डलसञ्चलदङ्गी ॥
भामिनि पृच्छ न वारं वारम् ।
हन्त विमुह्यति वीक्ष्य मनो मम वल्लवराजकुमारम् ॥ ध्रुव ॥
दाडिमलतिकामनु निस्तलफलनमितां स दधे हस्तम् ।
तदनुभवान् मम धर्मोज्ज्वलमपि धैर्यधनं गतमस्तम् ॥
अदशदशोकलतापल्लवमयमतनुसनातननर्मा ।
तदहमवेक्ष्य बभूव चिरं बत विस्मृतकायिककर्मा ॥ ८॥
९
धनाश्रीः
अनधिगताकस्मिकगदकारणमर्पितमन्त्रौषधिनिकुरम्बम् ।
अविरतरुदितविलोहितलोचनमनुशोचति तामखिलकुटुम्बम् ॥
देव हरे भव कारुण्यशाली ।
सा तव निशितकटाक्षशराहतहृदया जीवति कृशतनूराली ॥ ध्रुव ॥
हृदि वलदविरलसञ्ज्वरपटलीस्फुटदुज्ज्वलमौक्तिकसमुदाया ।
शीतलभूतलनिश्चलतनुरियमवसीदति संप्रति निरुपाया ॥
गोष्ठजनाभयसत्रमहाव्रतदीक्षित भवतो माधव बाला ।
कथमर्हति तां हन्त सनातन विषमदशां गुणवृन्दविशाला ॥ ९॥
१०
आसावरी
हन्त न किमु मन्थरयसि सन्ततमभिजल्पम् ।
दन्तरोचिरन्तरयति सन्तमसमनल्पम् ॥
राधे पथि मुञ्च भुरि सम्भ्रममभिसारे ।
चारय चरणाम्बुरुहे धीरं सुकुमारे ॥ ध्रुव ॥
सन्तनु घनवर्णमतुलकुन्तलनिचयान्तम् ।
ध्वान्तं तव जीवतु नखकान्तिभिरभिशान्तम् ॥
ससनातनमानसाद्य यान्ती गतशङ्कम् ।
अङ्गीकुरु मञ्जुकुञ्जवसतेरलमङ्कम् ॥ १०॥
११
गौडी
सिचयमुदञ्चय हृदयादल्पम् ।
विलिखाम्यद्भुतमकराकल्पम् ॥
इह न हि सङ्कुच पङ्कजनयने ।
वेशं तव करवै रतिशयने ॥ ध्रुव ॥
राधे दोलय न किल कपोलम् ।
चित्रं रचयाम्यहमविलोलम् ॥
तव वपुरद्य सनातनशोभम् ।
जनयति हृदि मम कञ्चन लोभम् ॥ ११॥
१२
आसावरी
तव चञ्चलमतिरयमघहन्ता ।
अहमुत्तमधृतिदिग्धदिगन्ता ॥
दूति विदूरय कोमलकथनम् ।
पुनरभिधास्ये न हि मधुमथनम् ॥ ध्रुव ॥
शठचरितोऽयं तव वनमाली ।
मृदुहृदयाहं निजकुलपाली ॥
तव हरिरेष निरङ्कुशनर्मा ।
अहमनुबद्धसनातनधर्मा ॥ १२॥
१३
भैरवः
मण्डितहल्लीसकमण्डलां
नटयन् राधां चलकुण्डलाम् ॥
निखिलकलासम्पदि परिचयी ।
प्रियसखि पश्य नटति मुरजयी ॥ ध्रुव ॥
मुहुरान्दोलित रत्नवलयम् ।
सलयं चलयन् करकिशलयम् ॥
गतिभङ्गिभिरवशीकृतशशी ।
स्थगितसनातनशङ्करवशी ॥ १३॥
१४
भैरवः
दामोदररतिवर्धनवेशे
हरिनिष्कुटवृन्दाविपिनेशे ।
राधे जय जय माधवदयिते
गोकुलतरुणीमण्डलमहिते ॥ ध्रुव ॥
वृषभानुदधिनवशशिलेखे
ललितासखि गुणरमितविशाखे ।
करुणां कुरु मयि करुणाभरिते ।
सनकसनातनवर्णितचरिते ॥ १४॥
१५
धनाश्रीः ।
राजपुराद् गोकुलमुपयातम् ।
प्रमदोन्मादितजननीतातम् ॥
स्वप्ने सखि पुनरद्य मुकुन्दम् ।
आलोकयमवतंसितकुन्दम् ॥ ध्रुव ॥
परममहोत्सवघुर्णितघोषम् ।
नयनेङ्गितकृतमत्परितोषम् ॥
नवगुञ्जावलिकृतपरभागम् ।
प्रबलसनातनसुहृदनुरागम् ॥ १५॥
१६
सौराष्ट्री
पुलकमुपैति भयान् मम गात्रम् ।
हससि तथापि मदादतिमात्रम् ॥
वारय तूर्णमिमं सखि कृष्णम् ।
अनुचितकर्मणि निर्मिततृष्णम् ॥ ध्रुव ॥
जाने भवतीमेव विपक्षाम् ।
मामुपनीता यद् वनकक्षाम् ॥
अद्य सनातनमतिसुखहेतुम् ।
न परिहरिष्ये विधिकृतसेतुम् ॥ १६॥
अथ रासः
१७
धनाश्रीः
कोमलशशिकररम्यवनान्तरनिर्मितगीतविलास ।
तूर्णसमागतवल्लवयौवतवीक्षणकृतपरिहास ॥
जय जय भानुसुतातटरङ्गमहानट सुन्दर नन्दकुमार ।
शरदङ्गीकृतदिव्यरसावृत मङ्गलरासविहार ॥ ध्रुव ॥
गोपीचुम्बित रागकरम्बित मानविलोकनलीन ।
गुणवर्गोन्नतराधासङ्गतसौहृदसम्पदधीन ॥
तद्वचनामृतपानमदाहृत वलयीकृतपरिवार ।
सुरतरुणीगणमतिविक्षोभण खेलनवल्गितहार ॥
अम्बुविगाहननन्दितनिजजन मण्डितयमुनातीर ।
सुखसंविद्घन पूर्णसनातन निर्मलनीलशरीर ॥ १७॥
१८
धनाश्रीः
शुद्धसतीव्रतवित्ता अहमतिनिर्मलचित्ता ।
प्रथयसि सुजनविमुक्तं नर्मेदं किमयुक्तम् ॥
माधव परिहर मे पटमेतम् ।
यामि जवेन निकेतम् ॥ ध्रुव ॥
यदि जानाम्यधितीरं त्वामतिगूढशरीरम् ।
दूरे सूरसुतायां सायं कथमुपयायाम् ॥
विदधे भवदवनामं चरितं परिहर वामम् ।
वर्त्म सनातनमुचितं पालय धार्मिकरुचितम् ॥ १८॥
१९
कर्णाटः
किं वितनोषि मुधाङ्गविभूषणकपटेनात्र विघातम् ।
सोढुमहं समयस्य न संप्रति शक्ता लवमपि पातम् ॥
गोकुलमङ्गलवंशी
ध्वनिरुद्गर्जति वनगतये स्मरभूपतिशासनशंसी ॥ ध्रुव ॥
माधवचरणाङ्गुष्ठनखद्युतिरयमुदयति हिमधामा ।
मा गुरुजनभयमुद्गिर मुहुरियमभवं धावितकामा ॥
तं सेवितुमिह पश्य सनातनपरमारण्यजवेशम् ।
गोपवधूततिरियमुपसर्पति भानुसुतातटदेशम् ॥ १९॥
२०
कर्णाटः
स्फुरदिन्दीवरनिन्दिकलेवर
राधाकुचकुङ्कुमभर पिञ्जर ।
सुन्दरचन्द्रकचूड मनोहर
चन्द्रावलिमानसशुकपञ्जर ॥
जय जय जय गुञ्जावलिमण्डित ।
प्रणयविशृङ्खलगोपीमण्डलवर
बिम्बाधरखण्डनपण्डित ॥ ध्रुव ॥
मृगवनिताननतृणविस्रंसन
कर्मधुरन्धरमुरलीकूजित ।
स्वारसिकस्मितसुषमोन्मादित
सिद्धसतीनयनाञ्चलपूजित ॥
ताम्बूलोल्लसदाननसारस
जाम्बूनदरुचिविस्फुरदम्बर ।
हरकमलासनसनकसनातन
धृतिविध्वंसनलीलाडम्बर ॥ २०॥
२१
केदारः
सौरभसेवितपुष्पविनिर्मित
निर्मलवनमालापरिमण्डित ।
मद्नतरस्मितकान्तिकरम्बित
वदनाम्बुजनवविभ्रमपण्डित ॥
जय जय मरकतकन्दलसुन्दर ।
वरचामीकरपीताम्बरधर
वृन्दावनजनवृन्दपुरन्दर ॥ ध्रुव ॥
नवगुञ्जाफलराजिभिरुज्ज्वल
केकिशिखण्डकशेखरमञ्जुल ।
गुणवर्गातुलगोपवधूकुल
चित्तशिलीमुखपुष्पितवञ्जुल ॥
कलमुरलीक्वणपूरविचक्षण
पशुपालाधिपहृदयानन्दन ।
गिरिशसनातनसनकसनन्दन
नारदकमलासनकृतवन्दन ॥ २१॥
२२
गौडी
यामुनजलकणिकाभिरुपेते ।
सङ्गतमुज्ज्वलकुञ्जनिकेते ॥
त्वयि विनिहितवरसौहृदभारम् ।
विहितापरतरुणीपरिहारम् ॥
भज सखि वल्लवराजकुमारम् ।
कामिततावकसङ्गविहारम् ॥ ध्रुव ॥
नवगुञ्जाफलमञ्जुलहारम् ।
माल्यविहारिमधुपपरिवारम् ॥
निर्मलनर्मविभावनशीलम् ।
वल्लवमत्र सनातनलीलम् ॥
२३
मल्लारः
तरुणीलोचनतापविमोचन
हाससुधाङ्कुरधारी ।
मन्दमरुच्चलपिञ्छकृतोज्ज्वल
मौलिरुदारविहारी ॥
सुन्दरि पश्य मिलति वनमाली ।
दिवसे परिणतिमुपगच्छति सति
नवनवविभ्रमशाली ॥ ध्रुव ॥
धेनुखुरोद्धुतरेणुपरिप्लुत
फुल्लसरोरुहदामा ।
अचिरविकस्वरलसदिन्दीवर
मण्डलसुन्दरधामा ॥
कलमुरलीरुतिकृततावकरति-
रत्र दृगन्ततरङ्गी ।
चारुसनातनतनुरनुरञ्जन
कारिसुहृद्गणसङ्गी ॥ २३॥
२४
धनाश्रीः
यद्यपि समाधिषु विधिरपि पश्यति
न तव नखाग्रमरीचिम् ।
इदमिच्छामि निशम्य तवाच्युत
तदपि कृपाद्भुतवीचिम् ॥
देव भवन्तं वन्दे ।
मन्मानसमधुकरमर्पय निज
पदपङ्कजमकरन्दे ॥ ध्रुव ॥
भक्तिरुदञ्चति यद्यपि माधव
न त्वयि मम तिलमात्री ।
परमेश्वरता तदपि तवाधिक
दुर्घटघटनविधात्री ॥
अयमविलोलतयाद्य सनातन
कलिताद्भुतरसभारम् ।
निवसतु नित्यमिहामृतनिन्दिनि
विन्दन्मधुरिमसारम् ॥ २४॥
अथ नायिकाभेदाः
अथाभिसारिका वाससज्जाप्युत्कण्ठिता तथा ।
विप्रलब्धा खण्डिता च कलहान्तरिता परा ॥
प्रोषितप्रेयसी प्रोक्ता तथा स्वाधीनभर्तृका ।
इत्यष्टौ नायिकाभेदा रसतन्त्रे प्रकीर्तिताः ॥
तत्राभिसारिका
या पर्युत्सुकचित्तातिमदेन मदनेन च ।
आत्मनाभिसरेत् कान्तं सा भवेदभिसारिका ॥
२५
धनाश्रीः
त्वं कुचवल्गितमौक्तिकमाला ।
स्मितसान्द्रीकृतशशिकरजाला ॥
हरिमभिसर सुन्दरि सितवेशा ।
राकारजनिरजनि गुरुरेषा ॥ ध्रुव ॥
परिहितमाहिषदधिरुचिसिचया ।
वपुरर्पितघनचन्दननिचया ॥
कर्णकरम्बितकैरवहासा ।
कलितसनातनसङ्गविलासा ॥ २५॥
अथ वासकसज्जा
भवेद् वासकसज्जासौ सज्जिताङ्गरतालया ।
निश्चित्यागमनं भर्तुर्द्वारेक्षणपरायणा ॥
२६
कल्याणः
कुसुमावलिभिरुपस्कुरु तल्पम् ।
माल्यं चामलमणिसरकल्पम् ॥
प्रियसखि केलिपरिच्छदपुञ्जम् ।
उपकल्पय सत्वरमधिकुञ्जम् ॥ ध्रुव ॥
मणिसम्पुटमुपनय ताम्बूलम् ।
शयनाञ्चलमपि पीतदुकूलम् ॥
विद्धि समागतमप्रतिबन्धम् ।
माधवमाशु सनातनसन्धम् ॥ २५॥
अथोत्कण्ठिता
सा स्यादुत्कण्ठिता यस्या वासं नैति द्रुतं प्रियः ।
तस्यानगमने हेतुं चिन्तयन्त्या शुचा भृशम् ॥
२७
आसावरी
किमु चन्द्रावलिरनयगभीरा ।
न्यरुणदमुं रतिवीरमधीरा ॥
अतिचिरमजनि रजनिरतिकाली ।
सङ्गमविन्दत न हि वनमाली ॥ ध्रुव ॥
किमिह जने धृतपङ्कविपाके ।
विस्मृतिरस्य बभूव वराके ॥
किमुत सनातनतनुरलघिष्ठम् ।
रणमारभत सुरारिभिरिष्टम् ॥ २७॥
अथ विप्रलब्धा
यस्या दूतीं स्वयं प्रेष्य समये नागतः प्रियः ।
शोचन्ती तं विना दुःस्था विप्रलब्धा तु सा स्मृता ॥
२८
गौडी
कोमलकुसुमावलीकृतचयनम् ।
अपसारय रतिलीलाशयनम् ॥
श्रीहरिणाद्य न लेभे शमये ।
हन्त जनं सखि शरणं कमये ॥ ध्रुव ॥
निधृतमनोहरगन्धविलासम् ।
क्षिप यामुनतटभुवि पटवासम् ॥
लब्धमवेहि निशान्तिमयामम् ।
मुञ्च सनातनसङ्गतिकामम् ॥ २८॥
अथ खण्डिता
अन्यया सह कान्तस्य दृष्टे सम्भोगलक्षणे ।
ईर्ष्याकषायितात्मासौ खण्डिता खलु कथ्यते ॥
२९
रामकेलिः
हृदयान्तरमधिशायितम् । रमय जनं निजदयितम् ॥
किं फलमपराधिकया । संप्रति तव राधिकया ॥
माधव परिहर पटिमतरङ्गम् ।
वेत्ति न का तव रङ्गम् ॥ ध्रुव ॥
आघूर्णति तव नयनम् । याहि घटीं भज शयनम् ॥
अनुलेपं रचयालम् । नश्यतु नखपदजालम् ॥
त्वामिह विलसति बाला । मुखरसखीनां माला ॥
देव सनातन वन्दे । न कुरु विलम्बमालिन्दे ॥ २९॥
३०
यां सेवितवान् असि जागरी ।
त्वामजयत् सा निशि नागरी ॥
कपटमिदं तव विन्दति हरे ।
नावसरं पुनरालिनिकरे ॥ ध्रुव ॥
मा कुरु शपथं गोकुलपते ।
वेत्ति चिरं का चरितं न ते ॥
मुक्तसनातनसौहृदभरे ।
न पुनरहं त्वयि रसमाहरे ॥ ३०॥
अथ कलहान्तरिता
निरस्तो मन्युना कान्तो नमन्नपि यया पुरः ।
सानुतापयुता दीना कलहान्तरिता भवेत् ॥
३१
ललितः
नाकर्णयमतिसुहृदुपदेशम् ।
माधवचाटुपटलमपि लेशम् ॥
सीदति सखि मम हृदयमधीरम् ।
यदभजमिह न हि गोकुलवीरम् ॥ ध्रुव ॥
नालोकयमर्पितमुरुहारम् ।
प्रणमन्तं च दयितमनुवारम् ॥
हन्त सनातनगुणमभियान्तम् ।
किमधारयमहमुरसि न कान्तम् ॥ ३१॥
अथ विरहिणी प्रोषितप्रेयसी
कुतश्चित् कारणाद् यस्या विदूरस्थो भवेत् पतिः ।
तदनागमदुःखार्ता सा स्यात् प्रोषितभर्तृका ॥
३२
गौडी
कुर्वति किल कोकिलकुले उज्ज्वलकलनादम् ।
जैमिनिरिति जैमिन्रिति जल्पति सविषादम् ॥
माधव घोरे वियोगतमसि निपपात राधा ।
विधुरमलिनमूर्तिरधिकमधिरूढबाधा ॥ ध्रुव ॥
नीलनलिनमाल्यमहह वीक्ष्य पुलकवीता ।
गरुड गरुड गरुडेत्यभिरौति परमभीता ॥
लम्भितमृगनाभिमगुरुकर्दममनु दीना ।
ध्यायति शितिकण्ठमपि सनातनमनुलीना ॥ ३२॥
अथ स्वाधीनभर्तृका
यस्याः प्रेमगुणाकृष्टः प्रियः पार्श्वं न मुञ्चति ।
विचित्रसम्भ्रमासक्ता सा स्यात् स्वाधीनभर्तृका ॥
३३
मल्लारः
पत्रावलिमिह मम हृदि गौरे ।
मृगमदबिन्दुभिरर्पय शौरे ॥
श्यामल सुन्दर विविधविशेषम् ।
विरचय वपुषि ममोज्ज्वलवेशम् ॥ ध्रुव ॥
पिञ्छमुकुट मम पिञ्छनिकाशम् ।
वरमवतंसय कुन्तलपाशम् ॥
अत्र सनातन शिल्पलवङ्गम् ।
श्रुतियुगले मम लम्भय सङ्गम् ॥ ३३॥
३४
वसन्तरागः
किमयं रचयति नयनतरङ्गम् ।
कैरविनी न हि भजति पतङ्गम् ॥
वारय माधवमुद्यदनङ्गम् ।
स्पृशति यथायं न सखि मदङ्गम् ॥ ध्रुव ॥
कम्पिकरान् मम पतति लवङ्गम् ।
त्वमपि तथापि न मुञ्चसि रङ्गम् ॥
कमपि सनातनधर्ममभङ्गम् ।
न परिहरिष्ये हृदि कृतसङ्गम् ॥ ३४॥
३५
भैरवरागः
अपघनघटितघुसृणघनसार ।
पिञ्छखचितकुञ्चितकचभार ॥
जय जय वल्लवराजकुमार ।
राधावक्षसि हरिमणिहार ॥ ध्रुव ॥
राधाधृतिहरमुरलीतार ।
नयनाञ्चलकृतमदनविकार ॥
रसरञ्जितराधापरिवार ।
कलितसनातनचित्तविहार ॥ ३५॥
३६
कर्णाटरागः, एकताली तालः
सुन्दरि साध्वी त्वमिह किशोरी ।
तत् कथमसि वद गोष्ठपुरन्दरनन्दन हृन्मणिचौरी ॥
न हि सङ्गोपय परधनमधुना त्वं विदिता कुलपाली ।
ललितासखि कुरु करुणां सीदति कन्दरभुवि वनमाली ॥
अयि रमणीमणि रमणीयं मणिमर्पय पुनरावलम्बम् ।
बह्वतु निराकुलमतिकृपया तव हरिपरिजननिकुरम्बम् ॥
दूतीयुगमिदमवनमति स्वयमवनिलुठितकचजुटम् ।
तन्वि सनातनसौहृदमनुसर विस्तारय न हि कूटम् ॥ ३६॥
३७
मल्लाररागः, एकताली तालः
राधे कलय हृदयमनुकूलम् ।
दलति दृगञ्चलशरहतहृत् तव गोकुलजीवितमूलम् ॥ ध्रुव ॥
शीलितपञ्चमगीतिरदक्षिणपाणिसरोरुहहंसी ।
तनुते साम्प्रतमस्य मुनिव्रतमरतिभरादिव वंशी ॥
भ्रमदिन्दिन्दिरवृन्दविकर्षणपरिमलपटलविशाला ।
पतिता कण्ठतटादभिशुष्यति तस्य वने वनमाला ॥
अदये दधती तनुरपि तनुतां तस्य समुज्झितलीला ।
शीर्यति कन्दरधाम्नि सनातनहृदयानन्दनशीला ॥ ३७॥
३८
वसन्तरागः
मधुरिपुरद्य वसन्ते ।
खेलति गोकुलयुवतिभिरुज्ज्वलपुष्पसुगन्धदिगन्ते ॥ ध्रुव ॥
प्रेमकरम्बितराधाचुम्बितमुखविधुरुत्सवशाली ।
धृतचन्द्रावलिचारुकराङ्गुलिरिह नवचम्पकमाली ॥
नवशशिरेखालिखितावशाखातनुरथ ललितासङ्गी ।
श्यामलयाश्रितबाहुरुदञ्चितपद्माविभ्रमरङ्गी ॥
भद्रालम्बितशैव्योदीरितरक्तरजोभरधारी ।
पश्य सनातनमूर्तिरयं घनवृन्दावनरुचिकारी ॥ ३८॥
(३९]
@१
वसन्तरागः
ऋतुराजार्पिततोषरङ्गम् ।
राधे भज वृन्दावनंरङ्गम् ॥ ध्रुव ॥
मलयानिलगुरुशिक्षितलास्या ।
नटति लताततिरुज्ज्वलहास्या ॥
पिकततिरिह वादयति मृदङ्गम् ।
पश्यति तरुकुलमङ्कुरदङ्गम् ॥
गायति भृङ्गघटाद्भुतशीला ।
मम वंशीव सनातनलीला ॥ ३९॥
४०
वसन्तरागः
विहरति सह राधिकया रङ्गी ।
मधुमधुरे वृन्दावनरोधसि हरिरिह हर्षतरङ्गी ॥ ध्रुव ॥
विकिरति यन्त्रेरितमघवैरिणि राधा कुङ्कुमपङ्कम् ।
दयितामयमपि सिञ्चति मृगमदरसराशिभिरविशङ्कम् ॥
क्षिपति मिथो युवमिथुनमिदं नवमरुणतरं पटवासम् ।
जितमिति जितमिति मुहुरपि जल्पति कल्पयदतनुविलासम् ॥
सुबलो रणयति घनकरताली जितवान् इति वनमाली ।
ललिता वदति सनातनवल्लभमजयत् पश्य ममाली ॥ ४०॥
४१
धनाश्रीः
राधा सखि जलकेलिषु निपुणा ।
खेलति निजकुण्डे मधुरिपुणा ॥ ध्रुव ॥
कुचपटलुण्ठननिर्मितकलिना ।
आयुधपदवीयोजितनलिना ॥
दृढपरिरम्भणचुम्बनहठिना ।
हिमजलसेचनकर्मणि कठिना ॥
सुखभरशिथिलसनातनमहसा ।
दयितपराजयलक्षणसहसा ॥
४२
धनाश्रीः
राधे निजकुण्डपयसि तुङ्गीकुरु रङ्गम् ।
किं च सिञ्च पिञ्छमुकुटमङ्गीकृतभङ्गम् ॥ ध्रुव ॥
अस्य पश्य फुल्लकुसुमरचितोज्ज्वलचूडा ।
भीतिभिरतिनीलनिविडकुन्तलमनु गूढा ॥
धातुरचितचित्रवीथिरम्भसि परिलीना ।
मालाप्यतिशिथिलवृत्तिरजनि भृङ्गहीना ॥
श्रीसनातनसुमणिरत्नमंशुभिरपि चण्डम् ।
भेजे प्रतिबिम्बभावदम्भी तव गण्डम् ॥ ४२॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां गीतावली समाप्ता ।