द्वादशमूर्तिस्तुतिः २
चतुश्चक्रं नमस्यामि केशवं कनकप्रभम् ।
नारायणं घनश्यामं चतुःशङ्खं नमाम्यहम् ॥ १॥
माधवं मणिभङ्गामं चिन्तयामि चतुर्गदम् ।
चन्द्रभासं चतुः शार्ङ्गं गोविन्दमपि संश्रये ॥ २॥
विष्णुं चतुर्हलं वन्दे पद्मकिञ्जल्कसन्निभम् ।
चतुर्मुसलमब्जाभं संश्रये मधुसूदनम् ॥ ३॥
अग्निवर्णं चतुःखड्गं भावयामि त्रिविक्रमम् ।
वामनं बालसूर्याभं चतुर्वज्रं विभावये ॥ ४॥
श्रीधरं पुण्डरीकाभं चतुःपट्टसमाश्रये ।
चतुर्मुद्गरमभ्येमि हृषीकेशं तटित्प्रभम् ॥ ५॥
पञ्चायुधं पद्मनाभं प्रणमाम्यर्करोचिषम् ।
दामोदरं चतुःपाशं इन्द्रगोपनिभं भजे ॥ ६॥
वासुदेवमुपासेऽहं पूर्णेन्द्वयुतसन्निभम् ।
श्रीदेवी, अमृतोद्भवा, कमला, चन्द्रसोदरी, वरारोहा,
हरिवल्लभा, विष्णुपत्नी, वैष्णवी, शार्ङ्गिणी, देवदेविका,
महालक्ष्मीः, सुरसुन्दरी, सर्वाभिष्टप्रदायिनी इति देव्यः
केशवादीनां सवासुदेवानाम् ।
अच्युताय नमोऽनन्ताय नमो गोविन्दाय नमः इति त्रिनामा ।
इति द्वादशमूर्तिस्तुतिः २ सम्पाप्ता ।
Proofread by PSA Easwaran