द्वादशाक्षरमन्त्रात्मकविष्णुस्तवः
``ॐ नमो भगवते वासुदेवाय ।''
देव्युवाच ।
ॐकाररूपजगतामाद्य ब्रह्मस्वरूपक ।
अनन्तजगदाधार गदाधर नमोऽस्तु ते ॥ १॥
न क्षीणस्त्वं न क्षरसि नारायण नरोत्तम ।
नवनीरधरश्याम नमस्ते नलिनेक्षण ॥ २॥
मोक्षसेवितपादाब्ज मोहव्यूहविमोहन ।
मोदेनात्मस्वरूपेण मोदिताय नमोऽस्तु ते ॥ ३॥
भजतां भवनाशाय भव्योदधिशयाय च ।
भवाय भवभक्ताय नमस्ते भवलक्षणः ॥ ४॥
गगनालक्षरूपाय गगनव्याप्तिकारिणे ।
गरिष्ठाय गरीशाय गहनाय नमोऽस्तु ते ॥ ५॥
वरिम्ने वरणार्थाय वन्दनीयप्रदाय च ।
वरबीजप्रबीजाय वरहन्त्रे नमोऽस्तु ते ॥ ६॥
तेजःप्रसादरूपाय तेजोरूपाय तेजसे ।
तेजः प्रदीप्तलोकाय नमस्ते तेजसात्मने ॥ ७॥
वाणीनाथाय बालाय वायुरूपाय वाहिने ।
बान्धवाय बलद्बाहुबलयुक्ताय ते नमः ॥ ८॥
सुखाय सुखगम्याय सुदक्षाय सुखात्मने ।
सुन्दरत्वसमुद्रैकदेशलेशाय ते नमः ॥ ९॥
देश्यदेशकरूपाय देश्याय देशकाय च ।
देवत्रिकोटिदेहाय देवदेहाय ते नमः ॥ १०॥
वामदेवस्वरूपाय वामनाय नमो नमः ।
वाराहतनवे बालवपुषे ते नमो नमः ॥ ११॥
यज्ञयज्ञाय यज्ञाय यजमानाय ते नमः ।
यजुरादिविदे यज्ञयष्टव्याय नमो नमः ॥ १२॥
फलश्रुतिः ।
द्वादश स्तव एकोऽसौ जप्तव्यो गेय उच्यते ।
सर्ववेदार्थसारोऽयं ब्रह्मलोकेऽपि गीयते ॥ १३॥
भगवन्तं वासुदेवं स्तवेनानेन चान्वहम् ।
स्तुत्वा नत्वा फाल्गुनस्य द्वादश्यान्तु विशेषतः ।
स मुक्तः सर्वपापेभ्यो वैष्ण्वीमाप्नुते गतिम् ॥ १४॥
॥ इति बृहद्धर्मपुराणन्तर्गतः द्वादशाक्षरमन्त्रात्मकः
विष्णुस्तवः सम्पूर्णः ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः २२। ६६-८० ॥
Notes:
The Stava comprises of twelve (dvAdasha)
shlokas, with each sequential shloka
beginning with the respective
syllable (akShara) of the 12-syllabled
(dvAdashAkSharI) mantra of Sri Vishnu i.e.
॥ ॐ नमो भगवते वासुदेवाय ॥
(१-ॐ, २-न, ३-मो, ४-भ, ५-ग, ६-व,
७-ते, ८-वा, ९-सु, १०-दे, ११-वा, १२–य)
The shlokas have been renumbered for
convenience of readers.
Proofread by Ruma Dewan