धर्मपुरी वर्णनम् २
मङ्गळश्लोकाः
अयिकरिकर्णिक । मूषिकवाहन । पर्वतजासुत । साम्बप्रिय ।
नुतजनपोषक । षण्मुखसेवित ।शङ्करचुम्बितफालतट ।
वरचतुराननदेवगणार्चित । दानवभञ्जक । दासरत ।
जय गणनायक । विघ्नविनाशक । धर्मपुरीजनपाल विभो ।॥ १॥
अयि । निजमूर्धजपाशजटोद्भवगौतमजासिकतोद्भव । भोः
वररघुवंशकळानिधिकीर्तितराघवसेवितलिङ्गतनो ।
निजवरभक्तकृताघविनाशक । दासजनार्थितदानरते ।
जय रजनीकरभूषितशेखर । धर्मपुरीविलसन्निलय ॥ २॥
त्वद्दर्शनं यदि लभे न तु नीलकण्ठ
हे सोम नामभजनं न करोमि यत्ते ।
रूपं स्मरामि तव चेन्न मनोहरं यत्
तज्जीवनं मम निरर्थकमेव शम्भो ॥ ३॥
प्रातः कालीन गोदावरीवर्णनम्
या लक्ष्मीनृहरेः पदाब्जलसिता ब्रह्मादिदेवैर्युता
या रामार्चितरामलिङ्गनिलया भक्ताघविध्वंसिनी ।
यस्याः प्राग्दिशि गौतमी रविकरान् प्रक्षालयन्ती सदा
सेयं धर्मपुरी सनातनपुरं क्षेत्रं सतीर्थं महत् ॥ ४॥
गोदावरीगतसुरार्पणकौतुकेन्दुः
पीयूषभाण्डपरिपूर्णसुधाकरोऽयम् ।
वीचीनिबद्धप्रतिबिम्बतनुर् नितान्तं
सूर्योदये लसति गच्छति खान्निशेशः ॥ ५॥
गोदावरीवरजलेषु विनोदमिच्छुः
तारायुतो वरतरङ्गहृतात्मरूपः ।
आवृत्य वार्वसितकैरवमात्मबन्धुं
सूर्योदये लसति गच्छति खाद्धिमांशुः ॥ ६॥
निष्कास्य द्विजराट् तमोऽन्धपटलं यात्येकतो ह्यम्बरात्
निद्रामुद्रितमानवान् द्विजवराः जाग्रन्ति रावैर्मुहुः ।
छित्त्वाऽन्धं द्विजकान्तिभिर् द्विजवराः श्राव्यन्ति वेदश्रुतीः
प्रातर् धर्मपुरीपुरस्य हि जनान् कुर्वन्ति चैतन्यकान् ॥ ७॥
गौतम्यास्तु तरङ्गपङ्क्तिनिनदैर् माधुर्यमापूर्यते
आब्राह्मी हरितश्च छात्रवटवः पूर्यन्ति वेदश्रुतीः ।
गावोऽम्भेति नदन्ति वत्सकगणं स्वोधास्यदानाय ताः
प्रातर् धर्मपुरं हि मङ्गळकरैर् ध्वानैः पवित्रीकृतम् ॥ ८॥
यस्यां ब्राह्मणपुङ्गवैरनुदिनं सुस्नातलिप्ताङ्गकैः
गायत्री श्रुतिराव सुस्वरगळैर् दत्ताञ्जलिर् भास्करः ।
स्नात्वा क्षालितरश्मिभिर् नरहरिं सन्द्रष्टुकामो मुदा
निद्रामुद्रितपद्ममुन्नयति यः संसेवनाय प्रभुम् ॥ ९॥
गोदावरीविमलवारितरङ्गहॄद्यैर्
यत्कैरवैर् रतिमुपेत्य मुदा निशान्ते ।
इन्दौ गते तु कमलानि निमीलितानि
उन्मील्य भास्करकरैर् विकसन्ति प्रातः ॥ १०॥
ये चैव बद्धतनवः कमलोदरेषु
भृङ्गा हि भानुहृतचित्तमुमुक्षवस्ते ।
सन्तुष्टभास्करकरैः सुविमुक्तसङ्गाः
गीतोपदेशकवरा ननु यान्ति चोर्ध्वम् ॥ ११॥
श्री वैष्णवा नृहरिसेवनतत्पराश्च
दिक्पूर्यमाणशुभमङ्गळवाद्यघोषैः ।
गोदोदपूर्णवरहेमघटा निवृत्य
निर्यान्ति वेदपठनैर् भृतदेवचित्ताः ॥ १२॥
गोपालबालकगणैर् धृतहस्तदण्डैः
गावो मुदा प्रतिगृहात् किल मुक्तबन्धाः ।
वात्सल्यदत्तपयसोऽन्वयगोगणाश्च
गोदावरीतटवनं ह्युपयान्ति धीरम् ॥ १३॥
कोक्कोरकोध्वनियुतैर् ननु कुक्कुटैश्च
दिक्पूर्यमाणनिनदैः प्रविमुक्तकण्ठैः ।
जाग्रन्ति येन हि विबुध्य विमुक्तमञ्चाः
यद्गौतमीनिवहनाय जनास्तु यान्ति ॥ १४॥
यद्गायतो बुध सदाशिव विश्वनाथौ
राजन्नशास्त्रिकृतवाङ्मयसेवनं तु ।
प्राभातिकं ननु सकीर्तनचित्तजिह्वाः
गोदावगाढतनवः स्वगृहाणि यान्ति ॥ १५॥
गोदां हि गोपतरुणीमणयस्तरण्यां
गोक्षीरपूरितघटाः बहवो तरन्त्यः ।
ग्रामं प्रविश्य मधुरस्वरकण्ठरावैः
उद्घोषयन्ति ननु विक्रयणाय दुग्धम् ॥ १६॥
गङ्गे । त्रिविक्रमपदोद्भवि । हे सुरार्च्ये ।
पापघ्नि । हे शिवजटाहृतवारिरूपे ।
विध्वस्त गौतममहर्षिकृताघराशे ।
त्वं जागृहीत्युषसि भक्तवराः स्तुवन्ति ॥ १७॥
अभ्यागता विविधदेशसमागताश्च
अबालवृद्धपुरवासगणाश्च वीथ्याम् ।
स्नाताऽऽगतान् द्विजवरानभिवन्द्य नम्राः
गोदानिमज्जनपरास्त्वरितं प्रयान्ति ॥ १८॥
पित्राज्ञया गतवनो रघुरामचन्द्रः
स्नात्वा च यत्र पितरं त्वकरोद्धि तृप्तम् ।
भक्त्याऽर्चयत् स्वकृतसैकतलिङ्गमूर्तिं
तद्गौतमीस्थसिकता हि पुनन्ति भक्तान् ॥ १९॥
यद्रामचन्द्रकृतपैतृककर्म यत्र
मोक्षं प्रदात् दशरथाय गताघभाजे
अभ्यागताः स्वपितृमोक्षमवाप्तिहेतोः ।
गोदातटे ह्यनुचरन्ति सुपिष्टपिण्डैः ॥ २०॥
सङ्कल्पमन्त्रपठना वटवा स्तु केचित्
केचिन्निमज्जनपरा हरशब्दपूर्वम् ।
सन्ध्यान्त्वुपासनपराः सुनिमीलिताक्षाः
गोदाजलेषु विधिकर्मरता द्विजा हि ॥ २१॥
विप्रोत्तमाः
गोदास्नानपुनीतकान्तितनवः स्वभ्यस्तवेदाननाः
धर्माधर्मविचारशास्त्रपटवः वाणीलसज्जिह्वकाः ।
नित्यं त्वर्चितदेवतातिथिगणाः भस्मानुलिप्ताङ्गकाः
तेऽमी धर्मपुरीनिवासरसिकाः विप्रोत्तमा धार्मिकाः ॥ २२॥
त्रिपुण्ड्रभस्माञ्चितफालभागाः
रुद्राक्षमालाधृतकण्ठभागाः ।
यज्ञोपवीतैर्भृतवत्सभागाः
विप्रोत्तमाः कर्मसु निष्ठचित्ताः ॥ २३॥
नित्यं त्वनुष्ठानक्रियाकलापाः
वेदप्रपूताननचन्द्रबिम्बाः ।
धर्मैकनिष्ठाश्च सदा क्रियेषु
स्वस्तिः प्रजाभ्योऽस्त्विति चित्तकामाः ॥ २४॥
वृत्त्यां स्वकीयेन खलु धर्मनिष्ठाः
परोपकारायनिहितैकचित्ताः ।
सत्सङ्गगोष्ठीहृतरात्रिकालाः
ते धर्मपूः पौरवराश्चधन्याः ॥ २५॥
श्रौत स्मार्तसुनित्यकर्मविधये यत् श्रावणी कर्मणि
सर्वे विप्रकुलोत्तमाः सुघटिताः यज्ञोपवीतं मुदा ।
सामूहेन हि धारयन्ति विनताः कृत्वाऽर्षहोमार्चनं
ब्राह्मं यज्ञविधिं तथार्षपठनं सम्पूरयतः सदा ॥ २६॥
पुरस्त्रीमणयः
श्रीशेषयोक्तनिगमान्तभृतात्मतत्त्वं
यन्नारसिंहशतकं हरिभक्तिसारं
भ्राजन्नृसिंहचरणाब्जकहृष्टचित्ताः
गायन्ति प्रोद्गलितगानयुता स्तु नार्यः ॥ २७॥
नगरवीथि
मालां क्वचिद्धि धनुराकृतिभङ्क्वचिच्च
खड्गं क्वचिन्ननु सुदर्शनरूपमन्यत् ।
भिन्नैः सदाकृतिविशेषगणैर् बलाकाः
बध्नन्ति धर्मपुरमम्बरवीथिमार्गम् ॥ २८॥
श्रीनारसिंह वचसा त्वनिलात्मजः किं
आज्ञापयेत् कपिकुलं पुररक्षणार्थम् ।
यत् त्रासयन्ति शठबुद्धिनरांस्तु वीथ्यां
सौधाग्रभागविहरद् वरवानरा हि ॥ २९॥
गोदातरङ्गनिचयद्विगुणीकृतैर्हि
उद्यत्प्रभाकरकरैर् धृतहेमसौधाः ।
वज्रायुधेन विनिपातितमेरुशृङ्गाः
किं क्षेत्रवासनिलयाः परिवर्तिता वा? ॥ ३०॥
कन्या गृहाङ्गणतलं परिशुध्य चाद्भिः
कृत्वा मुदा रजितभासितरङ्गवल्लीः ।
सन्दीप्तगोमयगिरिप्रतिमा विधाय
रञ्जन्ति चापहृतचित्तजनं हि मार्गम् ॥ ३१॥
राजगोपुरम् -
यद्राजगोपुरगवाक्षकवाटमार्गात्
आवृत्य पक्षिनिवहान् खलु मेघमालाः ।
गच्छन्ति मन्दिरमहो शुभकृष्णवर्णाः
द्रष्टुं रमानरहरिं विनता निनादैः ॥ ३२॥
ब्रह्मादि देवगमनाय शुभाङ्कितं हि
भक्ताग्र्यदैत्यगमनाय महोन्नतं च ।
यत्स्वागतादरणपूर्वक भृत्यवर्गं
तद्राजगोपुरमहो किमु वर्णशक्यम् ॥ ३३॥
दीव्यत् सुवर्णकलशैर् ननु भ्राजमानं
आकाशचुम्बनपरं शिखराग्रभागम् ।
आदित्यदैत्यप्रतिमाहृतचित्तहृद्यं
यद्राजगोपुरमहो किमु वर्णशक्यम् ॥ ३४॥
दैनन्दिकेन विधिना गगनान्तराळे
सप्ताश्ववाहनरथं त्वधिरूढभानुम् ।
आयान्तमाह्वयति हि श्रममोचनाय
यद् गोपुरं धृतकपोत सुपुष्पमालम् ॥ ३५॥
उद्यद्दिनेशकिरणैर् ज्वलदग्नितेजः
स्नातानुलिप्तवरभक्तसमाह्वनाय ।
यद् राजगोपुरमहो हरिमन्दिरस्य
धीरं विलोकयति पूर्वमुखाभिरामम् ॥ ३६॥
यमनिलयम् -
द्वारस्य दक्षिणमुपाश्रितधर्मराजः
यद्दक्षिणादिगधिनायकमन्दिरेऽत्र
सङ्गण्य सन्दर्शकभक्तगणाघराशीन्
दूरीकरोति नरसिंहसुभक्तकानाम् ॥ ३७॥
मन्दिरम् -
रेखैस्त्रिपुण्ड्रकविभूतिसुफालभागाः
केचिच्च वैष्णवरा ननु चोर्ध्वपुण्ड्राः ।
हेनारसिंह वरदेति च भक्तिरावैः
लक्ष्मीनृसिंहनिलयं खलु रञ्जयन्ति ॥ ३८॥
गायन्ति केचिद्धि नुदन्तिकेचित्
स्तुवन्ति केचिच्च भजन्ति केचित्
नृत्यन्ति केचित् प्रणमन्ति केचित्
लक्ष्मीनृसिंहस्य च मन्दिरे हि ॥ ३९॥
वराहतीर्थम् -
लोकैकरक्षणविधौ हतहेमनेत्रः
श्रीशो धृतक्षितिमृदङ्कितदंष्ट्रभागान् ।
प्रक्षाल्य पूतमकरोत्स वराहरूपः
यत्तद्विराजति पवित्र वराहतीर्थम् ॥ ४०॥
यस्मिन् मुदा निवहनाद्धि सभार्यकश्च
चिन्तामणिः परमवाप हि मुक्तिमार्गम् ।
चिन्तामणीतियदगाद्धि सरः प्रसिद्धं
वाराहतीर्थमिह राजति धर्मपुर्याम् ॥ ४१॥
लक्ष्मीनृसिंहविभुदर्शनसाभिलाषं
ग्रामं प्रविष्टमतिथिं ननु सादरेण ।
भृङ्गानुरञ्जितसुमङ्गळवाद्यघोषैः
सुस्वागतं वदति चेह वराहतीर्थम् ॥ ४२॥
उत्थाय चैकचरणं च निमील्य नेत्रे
ध्यानैकचित्तविलसत्सरसिप्रसुप्ताः ।
निष्कम्पमानलसदङ्गविभासपक्षाः
किं तापसाननुसरन्ति बका हि तीरे ॥ ४३॥
अभ्यागताय मधुपाय विनम्रभावैः
सन्तुष्टकं विकसिताननपद्मवृन्दम् ।
दत्त्वा हि मधुपर्कमनन्यचित्तं
वाराहतीर्थमिह शिक्षति चातिथेयम् ॥ ४४॥
यद्दीव्यदुन्नतकवाटयुतानि यानि
बद्धाणि मङ्गलसुतोरणचूतपत्रैः ।
वातायनैर् ह्युपरि भागमलङ्कृतानि
द्वाराणि तानि विलसन्ति पुरीगृहाणाम् ॥ ४५॥
सत्यवतीकुण्डम् -
गोदावगाहनतनुर् गतसर्परूपः
मानूष्यरूपमगमन्ननु यत्र तीर्थे ।
ख्यातिङ्गतं हि वरसत्यवती तटं तत्
मग्नान् करोति हि जनाननघान् च नित्यम् ॥ ४६॥
शिवमन्दिरम् -
नित्यं प्राप्य शिवालये द्विजवराः त्वैशान्य कोणे स्थितं
विघ्नेशं प्रथमं सुपूज्य शिवजं मन्त्रैरधर्वैर् नुताः ।
सव्यासव्यविधौ प्रदक्षिणक्रमं कृत्वा हि शैवं ततः
काशीविश्वपतेश्च लिङ्गमपरं स्तुत्वा कपीशाहृतम् ॥ ४७॥
गत्वा सन्निधिमीश्वरस्य जगतः ह्युक्त्वा महन्न्यासकं
रुद्रैकादशवारघोषणपराः कृत्वाऽभिशेकादिकं
भस्मालिप्य च बिल्वपत्रसुदलानिक्षेपयन्तो मदा
नैवेद्यं वरधूपदीपसहितं दत्त्व च नीराजनम् ॥ ४८॥
नैकैर्वैदिकमन्त्रपुष्पनिचयैः भक्त्या नमन्तः स्तवैः
साष्टाङ्गं नमिता द्विजा सुमधुरं गायन् स्तुतिं शूलिनः ।
इत्येवं हि सदाऽर्चने सुनिरताः तृप्तिं गता स्ते पुनः
मासे श्रावणिकेऽर्चयन्ति वरदं लिङ्गं हि रामार्चितम् ॥ ४९॥
गरुडस्तम्भम् -
द्वारन्द्वितीयमधिगम्य नरा हि भक्त्या
स्तम्भं महोच्छ्रितपताकयुतं च दृष्ट्वा ।
यद् गारुडप्रतिमया सुसमाश्रितं तत्
भक्त्या नमन्ति नरकेसरिदर्शनाशाः ॥ ५०॥
इति संस्कृतसाहित्यरत्नपदलाञ्छनस्य,
बुधकोटिनुतस्य, प्रथितकविपण्डितगणाग्रणीवरस्य,
अखिलशिष्यकोटिवृन्दार्चितपादपद्मयुगलस्य,
आचार्यकोरिडेराजन्नशास्त्रिणः द्वितीयपुत्रेण कोरिडे विश्वनाथ शर्मणा
विरचितं धर्मपुरीवर्णनं समाप्तम् ।
Dharmapuri is famous for Sri Lakshmi Narasimha Swamy Temple.
It is situated on the southern banks of Godavari which flows
through the town. Only at Dharmapuri the Godavari river
flows from north to south direction, while in normal course
flowing west to east. For this reason,
the river at Dharmapuri is called Dakshina Vahini. The town
is one of the nine Narasimha Kshetrams and Teertharajamu.
Composed by Koride Vishwanatha Sharma, Dharmapuri, Telangana
Proofread by Koride Vishwanatha Sharma.