धर्मपुरीनरहरीस्तुतिः
ॐ गँ गणपतये नमः ।
नरहरिं भजे धर्मपूर्विभुम् भरणभूषितं भूषित प्रभम् ।
जलधिपुत्रिका सेविताङ्घ्रिकं हरिनराकृतिं सैंहिकाननम् ॥ १॥
नरहरिं भजे धर्मपूर्विभुम् ।
हरिवराननं घातुकान्तकं श्रितजयप्रदं चक्रधारिणम् ।
भुजगशायिनं भूरिदायिनं नरहरिं भजे धर्मपूर्विभुम् ॥ २॥
ऋषिवराश्रितं ऋग्भिरर्चितं विदितवेद्यकं वेदगम्यकम् ।
श्रितवरार्थिने कल्पवृक्षकं नरहरिं भजे धर्मपूर्विभुम् ॥ ३॥
द्विजबुधैः सदा पूजितं स्तवैः दितिजबालकप्राणरक्षणे ।
दितिजमन्दिरे स्तम्भसम्भवं नरहरिं भजे धर्मपूर्विभुम् ॥ ४॥
सुजनभक्तकान् सक्तरक्षकं कुजनशिक्षणे सक्तचित्तकम् ।
मकरमौखिकात् नागरक्षकं नरहरिं भजे धर्मपूर्विभुम् ॥ ५॥
सुरपतेः सुखात् सञ्चयाघगां मुनिसतीं वरां पादुकोद्धृतम् ।
निरतभाविनां पापनाशकं नरहरिं भजे धर्मपूर्विभुम् ॥ ६॥
विहितपापधिं कालकालगं हरिरितीरितं निर्मलङ्करम् ।
यदियमुच्यतेऽजामिलादिना नरहरिं भजे धर्मपूर्विभुम् ॥ ७॥
निगमरक्षणे मत्स्यकायिनं अमृतसाधने कूर्मवेषिनम् ।
अवनिपालने श्रीवराहकं नरहरिं भजे धर्मपूर्विभुम् ॥ ८॥
दनुजमारणे सैंहिकाननं बलिविमर्दने वामनाकृतिम् ।
कुपतिभञ्जने भार्गवद्विजं नरहरिं भजे धर्मपूर्विभुम् ॥ ९॥
रघुकुलोद्भवं रावणान्तकं द्रुपदात्मजावने कृष्णरूपिणम् ।
शमनसाधने बुद्धरूपिणं नरहरिं भजे धर्मपूर्विभुम् ॥ १०॥
कलिविमर्दने कल्किदेहिनं अभयरूपिणं आश्रिताश्रयम् ।
नतमुखोऽस्म्यहं नैकधाकृतिं नरहरिं भजे धर्मपूर्विभुम् ॥ ११॥
इति कोरिडे विश्वनाथशर्मणाविरचिता धर्मपुरीनरहरीस्तुतिः समाप्ता ।
Composed by Koride Vishwanatha Sharma, Dharmapuri, Telangana
Proofread by Koride Vishwanatha Sharma.