देवनायकपञ्चाशत्स्तवः
श्रीवेदान्तदेशिककृतः ।
(तिरुवहीन्द्रपुरे)
प्रणतसुरकिरीटप्रान्तमन्दारमाला
विगलितमकरन्दस्निग्धपादारविन्दः ।
पशुपतिविधिपूज्यः पद्मपत्रायताक्षः
फणिपतिपुरनाथः पातु मां देवनाथः ॥ १॥
देवाधिनाथ कमलापृतनेशपूर्वां
दीप्तान्तरां वकुलभूषणनाथमुख्यैः ।
रामानुजप्रभृतिभिः परिभूषिताग्रां
गोप्त्रीं जगन्ति गुरुपङ्क्तिमहं प्रपद्ये ॥ २॥
दिव्ये दयाजलनिधौ दिविषन्नियन्तुः
तीर्थं निदर्शितवतस्त्रिजगन्निषेव्यम् ।
प्राचः कवीन् निगमसम्मितसूनृतोक्तीन्
प्राचेतसप्रभृतिकान् प्रणमाम्यभीक्ष्णम् ॥ ३॥
मातस्त्वमम्बुरुहवासिनि किञ्चिदेतत्
विज्ञाप्यते मयि कुरुष्व तथा प्रसादम् ।
आकर्णयिष्यति यथा विबुधेश्वरस्ते
प्रेयानसौ पृथुकजल्पितवन्मदुक्तिम् ॥ ४॥
निर्विश्यमानविभवं निगमोत्तमाङ्गैः
स्तोतुं क्षमं मम च देवपते भवन्तम् ।
गावः पिबन्तु गणशः कलशाम्बुराशिं
किं तेन तर्णकगणास्तृणमाददानाः ॥ ५॥
अज्ञातसीमकमनन्तगरुत्मदाद्यैः
तं त्वां समाधिनियतैरपि सामि दृष्टम् ।
तुष्टूषतो मम मनोरथसिद्धिदायी
दासेषु सत्य इति धारय नामधेयम् ॥ ६॥
विश्राणयन्मम विशेषविदामनिन्द्यां
अन्तर्वतीं गिरमहीन्द्रपुराधिराज ।
स्तव्यस्तवप्रिय इतीव तपोधनोक्तं
स्तोतेति च त्वदभिधानमवन्ध्यय त्वम् ॥ ७॥
संरक्षणीयममराधिपते त्वयैव
दूरं प्रयातमपि दुस्त्यजगाढबन्धम् ।
आकृष्टवानसि भवाननुकम्पमानः
सूत्रानुबद्धशकुनिक्रमतः स्वयं माम् ॥ ८॥
व्यामोहिता विविधभोगमरीचिकाभिः
विश्रान्तमद्य लभते विबुधैकनाथ ।
गम्भीरपूर्णमधुरं मम धीर्भवन्तं
ग्रीष्मे तटाकमिव शीतमनुप्रविष्टा ॥ ९॥
दिव्ये पदे जलनिधौ निगमोत्तमाङ्गे
स्वान्ते सतां सवितृमण्डलमध्यभागे ।
ब्रह्माचले च बहुमानपदे मुनीनां
व्यक्तिं तव त्रिदशनाथ वदन्ति नित्याम् ॥ १०॥
तीर्थैर्वृतं वृजिनदुर्गतिनाशनार्हैः
शेषक्षमाविहगराजविरिञ्चजुष्टैः ।
नाथ त्वया नतजनस्य भवौषधेन
प्रख्यातमौषधगिरिं प्रणमन्ति देवाः ॥ ११॥
स्वाधीनविश्वविभवं भगवन् विशेषात्
त्वां देवनायकमुशन्ति परावरज्ञाः ।
प्रायः प्रदर्शयितुमेतदिति प्रतीमः
त्वद्भक्तिभूषितधियामिह देवभावम् ॥ १२॥
तत्त्वानि यानि चिदचित्प्रविभागवन्ति
त्रय्यन्तवृद्धगणितानि सितासितानि ।
दीव्यन्ति तान्यहिपुरन्दरधामनाथ
दिव्यास्त्रभूषणतया तव विग्रहेऽस्मिन् ॥ १३॥
भूषायुधैरधिगतं निजकान्तहेतोः
भुक्तं प्रियाभिरनिमेषविलोचनाभिः ।
प्रत्यङ्गपूर्णसुषमासुभगं वपुस्ते
दृष्ट्वा दृशौ विबुधनाथ न तृप्यतो मे ॥ १४॥
वेदेषु निर्जरपते निखिलेष्वधीतं
व्यासादिभिर्बहुमतं तव सूक्तमग्र्यम् ।
अङ्गान्यमूनि भवतः सुभगान्यधीते
विश्वं विभो जनितवन्ति विरिञ्चपूर्वम् ॥ १५॥
देवेश्वरत्वमिह दर्शयितुं क्षमस्ते
नाथ त्वयापि शिरसा विधृतः किरीटः ।
एकीकृतद्युमणिबिम्बसहस्रदीप्तिः
निर्मूलयन् मनसि मे निबिडं तमिस्रम् ॥ १६॥
मुग्धस्मितामृतशुभेन मुखेन्दुना ते
सङ्गम्य संसरणसञ्ज्वरशान्तये नः ।
सम्पद्यते विबुधनाथ समाधियोग्या
शर्वर्यसौ कुटिलकुन्तलकान्तरूपा ॥ १७॥
बिम्बाधरं विकचपङ्कजलोचनं ते
लम्बालकं ललितकुण्डलदर्शनीयम् ।
कान्तं मुखं कनककैतककर्णपूरं
स्वान्तं विभूषयति देवपते मयीयम् ॥ १८॥
लब्धा तिथौ क्वचिदियं रजनीकरेण
लक्ष्मीः स्थिरा सुरपते भवतो ललाटे ।
यत्स्वेदबिन्दुकणिकोद्गतबुद्बुदान्तः
त्र्यक्षः पुरा स पुरुषोऽजनि शूलपाणिः ॥ १९॥
लावण्यवर्षिणि ललाटतटे घनाभे
बिभ्रत्तटिद्गुणविशेषमिवोर्ध्वपुण्ड्रम् ।
विश्वस्य निर्जरपते तमसाऽऽवृतस्य
मन्ये विभावयसि माङ्गलिकप्रदीपम् ॥ २०॥
आहुः श्रुतिं विबुधनायक तावकीनां
आशागणप्रसवहेतुमधीतवेदाः ।
आकर्णिते तदियमार्तरवे प्रजानां
आशाः प्रसाधयितुमादिशति स्वयं त्वाम् ॥ २१॥
कन्दर्पलाञ्छनतनुस्त्रिदशैकनाथ
कान्त प्रवाहरुचिरे तव कर्णपाशे ।
पुष्यत्यसौ प्रतिमुखस्थितिदर्शनीया
पूषामयी मकरिका विविधान् विहारान् ॥ २२॥
नेतुं सरोजवसतिर्निजमाधिराज्यं
नित्यं निशामयति देवपते भ्रुवौ ते ।
एवं न चेदखिलजन्तु विमोहनार्हा
किं मातृका भवति कामशरासनस्य ॥ २३॥
आलक्ष्य सत्त्वमतिवेलदयोत्तरङ्गं
अभ्यर्थिनामभिमतप्रतिपादनार्हम् ।
स्निग्धायतं प्रथिमशालि सुपर्वनाथ
दुग्धाम्बुधेरनुकरोति विलोचनं ते ॥ २४॥
विश्वाभिरक्षणविहारकृतक्षणैस्ते
वैमानिकाधिपविडम्बितमुग्धपद्मैः ।
आमोदवाहिभिरनामयवाक्यगर्भैः
आर्द्रीभवाम्यमृतवर्षनिभैरपाङ्गैः ॥ २५॥
नित्योदितैर्निगमनिःश्वसितैस्तवैषा
नासा नभश्चरपते नयनाब्धिसेतुः ।
आम्रेडितप्रियतमा मुखपद्मगन्धैः
आश्वासिनी भवति सम्प्रति मुह्यतो मे ॥ २६॥
आरुण्यपल्लवितयौवनपारिजातं
आभीरयोषिदनुभूतममर्त्यनाथ ।
वंशेन शङ्खपतिना च निषेवितं ते
बिम्बाधरं स्पृशति रागवती मतिर्मे ॥ २७॥
पद्मालया वलयदत्तसुजातरेखे
त्वत्कान्तिमेचकितशङ्खनिभे मतिर्मे ।
विस्मेरभावरुचिरा वनमालिकेव
कण्ठे गुणीभवति देवपते त्वदीये ॥ २८॥
आजानुलम्बिभिरलङ्कृतहेतिजालैः
ज्याघातराजिरुचिरैर्जितपारिजातैः ।
चित्राङ्गदैस्त्रिदशपुङ्गव जातसङ्गा
त्वद्बाहुभिर्मम दृढं परिररभ्यते धीः ॥ २९॥
नीलाचलोदितनिशाकरभास्कराभे
शान्ताहिते सुरपते तव शङ्खचक्रे ।
पाणेरमुष्य भजतामभयप्रदस्य
प्रत्यायनं जगति भावयतः स्वभूम्ना ॥ ३०॥
अक्षोभणीयकरुणाम्बुधिविद्रुमाभं
भक्तानुरञ्जनममर्त्यपते त्वदीयम् ।
नित्यापराधचकिते हृदये मदीये
दत्ताभयं स्फुरति दक्षिणपाणिपद्मम् ॥ ३१॥
दुर्दान्तदैत्यविशिखक्षतपत्रभङ्गं
वीरस्य ते विबुधनायक बाहुमध्यम् ।
श्रीवत्सकौस्तुभरमावनमालिकाङ्कं
चिन्ताऽनुभूय लभते चरितार्थतां नः ॥ ३२॥
वर्णक्रमेण विबुधेश विचित्रिताङ्गी
स्मेरप्रसूनसुभगा वनमालिकेयम् ।
हृद्या सुगन्धिरजहत्कमलामणीन्द्रा
नित्या तव स्फुरति मूर्तिरिव द्वितीया ॥ ३३॥
आर्द्रं तमोमथनमाश्रिततारकं ते
शुद्धं मनः सुमनसाममृतं दुहानम् ।
तत्तादृशं विबुधनाथ समृद्धकामं
सर्गेष्विदं भवति चन्द्रमसां प्रसूतिः ॥ ३४॥
विश्वं निगीर्य विबुधेश्वर जातकार्यं
मध्यं वलित्रयविभाव्यजगद्विभागम् ।
आमोदिनाभिनलिनस्थविरिञ्चभृङ्गं
आकल्पयत्युदरबन्ध इवाशयो मे ॥ ३५॥
नाकौकसां प्रथमतामधिकुर्वते ते
नाभीसरोजरजसां परिणामभेदाः ।
आराधयद्भिरिह तैर्भवतः समीची
वीरोचिता विबुधनायक इत्यभिख्या ॥ ३६॥
पीताम्बरेण परिवारवती सुजाता
दास्ये निवेशयति देवपते दृशौ मे ।
विन्यस्तसव्यकरसङ्गमजायमान-
रोमाञ्चरम्यकिरणा रशना त्वदीया ॥ ३७॥
स्त्रीरत्नकारणमुपात्ततृतीयवर्णं
दैत्येन्द्रवीरशयनं दयितोपधानम् ।
देवेश यौवनगजेन्द्रकराभिरामं
ऊरीकरोति भवदूरुयुगं मनो मे ॥ ३८॥
लावण्यपूरललितोर्ध्वपरिभ्रमाभं
लक्ष्मीविहारमणिदर्पणबद्धसख्यम् ।
गोपाङ्गणेषु कृतचङ्क्रमणं तवैतत्
जानुद्वयं सुरपते न जहाति चित्तम् ॥ ३९॥
दूत्ये दुकूलहरणे व्रजसुन्दरीणां
दैत्यानुधावनविधावपि लब्धसाह्यम् ।
कन्दर्पकाहलनिषङ्गकलाचिकाभं
जङ्घायुगं जयति देवपते त्वदीयम् ॥ ४०॥
पाषाणनिर्मिततपोधनधर्मदारं
भस्मन्युपाहितनरेन्द्रकुमारभावम् ।
संवाहितं त्रिदशनाथ रमामहीभ्यां
सामान्यदैवतमुशन्ति पदं त्वदीयम् ॥ ४१॥
आवर्जिताभिरनुषज्य निजांशुजालैः
देवेश दिव्यपदपद्मदलायिताभिः ।
अन्याभिलाषपरिलोलमिदं मदीयं
अङ्गीकृतं हृदयमङ्गुलिभिः स्वयं ते ॥ ४२॥
पङ्कान्यसौ मम निहन्ति महस्तरङ्गैः
गङ्गाधिकां विदधती गरुडस्रवन्तीम् ।
नाकौकसां मणिकिरीटगणैरुपास्या
मान्यं पदं भवतु मौलिविभूषणं नः ॥ ४४॥
चित्रं त्वदीयपदपद्मपरागयोगाद्-
योगं विनापि युगपद्विलयं प्रयान्ति ।
विष्वञ्चि निर्जरपते शिरसि प्रजानां
वेधः स्वहस्तलिखितानि दुरक्षराणि ॥ ४५॥
ये जन्मकोटिभिरुपार्जितशुद्धधर्माः
तेषां भवच्चरणभक्तिरतीव भोग्या ।
त्वज्जीवितैस्त्रिदशनायक दुर्लभैस्तैः
आत्मानमप्यकथयः स्वयमात्मवन्तम् ॥ ४६॥
निष्कञ्चनत्व धनिना विबुधेश येन
न्यस्तः स्वरक्षणभरस्तव पादपद्मे ।
नानाविधप्रथितयोगविशेषधन्याः
नार्हन्ति तस्य शतकोटितमांशकक्ष्याम् ॥ ४७॥
आत्मापहाररसिकेन मयैव दत्तं
अन्यैरधार्यमधुना विबुधैकनाथ ।
स्वीकृत्य धारयितुमर्हसि मां त्वदीयं
चोरोपनीतनिजनूपुरवत् स्वपादे ॥ ४८॥
अज्ञानवारिधिमपायधुरन्धरं मां
आज्ञाविभञ्जनमकिञ्चनसार्वभौमम् ।
विन्दन् भवान् विबुधनाथ समस्तवेदी
किं नाम पात्रमपरं मनुते कृपायाः ॥ ४९॥
प्रह्लादगोकुलगजेन्द्रपरीक्षिदाद्याः
त्रातास्त्वया ननु विपत्तिषु तादृशीषु ।
सर्वं तदेकमपरं मम रक्षणं ते
सन्तोल्यतां त्रिदशनायक किं गरीयः ॥ ५०॥
वात्याशतैर्विषयरागतया विवृत्तैः
व्याघूर्णमानमनसं विबुधाधिराज ।
नित्योपतप्त इति मां निजकर्मघर्मैः
निर्वेशय स्वपदपद्ममधुप्रवाहम् ॥ ५१॥
जय विबुधपते त्वं दर्शिताभीष्टदानः
सह सरसिजवासामेदिनीभ्यां वशाभ्याम् ।
नलवनमिव मृद्गन् पापराशिं नतानां
गरुडसरिदनूपे गन्धहस्तीव दीव्यन् ॥ ५२॥
निरवधिगुणजातं नित्यनिर्दोषमाद्यं
नरकमथन दक्षं नाकिनामेकनाथम् ।
विनतविषयसत्यं वेङ्कटेशः कविस्त्वां
स्तुतिपदमधिगच्छन् शोभते सत्यवादी ॥ ५३॥
इति श्रीवेदान्तदेशिककृतः देवनायकपञ्चाशत्स्तवः सम्पूर्णः ।
Proofread by PSA Easwaran