दशावतारस्तोत्रम् ११
%३५
धरणीनौकावितमनुरेकाधीश्वरः स त्वं ह्यसि ।
शङ्खासुरहा यो निजमोहाऽघाधिहा स त्वं ह्यसि ॥ १॥
शान्तैकमठो भोऽभूत्कमठो योऽशठः स त्वं ह्यसि ॥ २॥
यो भूदारोऽपि सभूदारोऽभूदुदारस्त्वं ह्यसि ।
स्तब्धरोमा भुवदुद्धारे स्तब्धरोमास्त्वं ह्यसि ॥ ३॥
नरसिंहतनूर्हतभक्तजनुः स्वेष्टदः स त्वं ह्यसि ।
भजकार्तिहरो दैत्यासुहरो भीहरः स त्वं ह्यसि ॥ ४॥
यो व्याजपटुर्बलिमार्षबटुश्चाग्रहीत्स त्वं ह्यसि ॥
द्वारे बलेर्यस्तिष्ठत्यभयः कीर्तिकृत्स त्वं ह्यसि ॥ ५॥
दुर्नृपहन्ता ब्राह्मणगोप्ता स्वाविता स त्वं ह्यसि ।
पूरितकामो भार्गवरामो विभ्रमः स त्वं ह्यसि ॥ ६॥
सीतारामो भजकारामो वैरिहृत् स त्वं ह्यसि ।
एकशरस्त्रीवाग्वरमन्त्री रावणारिस्त्वं ह्यसि ॥ ७॥
षोडशनारीसहस्रभोगी योगीराट् स त्वं ह्यसि ।
भूभारहरो हृतसंसारो योऽष्टमः स त्वं ह्यसि ॥ ८॥
अपापविद्धो युवसंशुद्धो बुद्ध एषस्त्वं ह्यसि ।
विठ्ठलनामा यः शुभधाम्ना तारकः स त्वं ह्यसि ॥ ९॥
कल्किर्भविता दुर्जनहन्ता योऽन्ततः स त्वं ह्यसि ।
गन्धर्वस्थो द्विभुजः स्वस्थो यो गुरुः स त्वं ह्यसि ॥ १०॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं सम्पूर्णम् ।