दशावतारस्तवः जयदेवकृत
(जयदेवकविकृतः)
प्रलयपयोधिजले धृतवानसि वेदं, विहितवहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर, जय जगदीश हरे ॥ १॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे,
धरणिधरणकिणचक्रगरिष्ठे ।
केशव धृतकच्छपरूप जय जगदीश हरे ॥ २॥
वसति दशनशिखरे धरणी तव लग्ना,
शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतसूकररूप, जय जगदीश हरे ॥ ३॥
तव करकमलवरे नखमद्भुतशृङ्गं,
दलित हिरण्यकशिपुतनुभृङ्गम् ।
केशव धृतनरहरिरूप, जय जगदीश हरे ॥ ४॥
छलयसि विक्रमणे बलिमद्भुतवामन,
पदनखनीरजनितजनपावन ।
केशव धृतवामनरूप, जय जगदीश हरे ॥ ५॥
क्षत्रियरुधिरमये जगदपगतपापं,
स्नपयसि पयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप, जय जगदीश हरे ॥ ६॥
वितरसि दिक्षु रणे दिक्पतिकमनीयं,
दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरामशरीर, जय जगदीश हरे ॥ ७॥
वहसि वपुषि विशदे वसनं जलदाभं,
हलहतिभीतिमिलितयमुनाभम् ।
केशव धृतहलधररूप, जय जगदीश हरे ॥ ८॥
निन्दसि यज्ञविधेरहह श्रुतिजातं,
सदयहृदयदर्शितपशुघातम् ।
केशव धृतबुद्धशरीर, जय जगदीश हरे ॥ ९॥
म्लेच्छनिवहनिधने कलयसि करवालं,
धूमकेतुमिव किमपि करालम् ।
केशव धृतकल्किशरीर, जय जगदीश हरे ॥ १०॥
श्रीजयदेवकवेरिदमुदितमुदारं,
शृणु सुखदं शुभदं भवसारम् ।
केशव धृतदशविधरूप, जय जगदीश हरे ॥ ११॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १२॥
इति जयदेवकविकृतः दशावतारस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran