चतुर्विंशतिमूर्तिस्तोत्रम्
श्रीभगवानुवाच -
ॐरूपः केशवः पद्मशङ्खचक्रगदाधरः ।
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम् ॥ १॥
ततो गदी माधवोऽरिशङ्खपद्मी नमामि तम् ।
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥ २॥
मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् ।
शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥ ३॥
भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि ।
शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥ ४॥
गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि ।
हृषीकेशो गदा चक्री पद्मी शङ्खी च पातु नः ॥ ५॥
वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।
दामोदरः पद्मशङ्खगदाचक्री नमामि तम् ॥ ६॥
तेने गदी शङ्खचक्री वासुदेवोऽब्जभृज्जगत् ।
सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥ ७॥
गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत्प्रभुः ।
अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः ॥ ८॥
सुरेशोऽर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः ।
अधोऽक्षजः पद्मगदी शङ्खी चक्री च पातु वः ॥ ९॥
देवो नृसिंहश्चक्राब्जगदी शङ्खी नमामि तम् ।
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥ १०॥
बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि ।
जनार्दनः पद्मचक्री शङ्खधारी गदाधरः ॥ ११॥
शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः ।
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥ १२॥
आदिमूर्तिर्वासुदेवस्तस्मात्सङ्कर्षणोऽभवत् ।
सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥ १३॥
केशवादिप्रभेदेन ऐकैकः स्यात्त्रिधा क्रमात् ।
द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् ।
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥ १४॥
इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्तिस्तोत्रं
नाम अष्टाचत्वारिंशोऽध्यायः ॥ ४८॥
Proofread by Sunder Hattangadi