चतुरशीतिवैष्णवनामावलीस्तोत्रम्
श्रीविठ्ठलमहं वन्दे स्वकीयजनवल्लभम् ।
चतुरशीतिभक्तानां व्यक्तिं कुर्वे यथार्थतः ॥ १॥
दामोदरः कृष्णदासः पुनर्दामोदरस्तथा ।
पद्मनाभश्च तुलसा पार्वती रघुनायकः ॥ २॥
रजो पुरुषोत्तमो रुक्मिणी गोपालदासकः ।
सारस्वतो रामदासो गदाधरो महांस्तथा ॥ ३॥
वेणीमाधवदासश्च अम्माक्षत्राणी वैष्णवी ।
हरिदासश्च गोविन्दो क्षत्री गजनधावनः ॥ ४॥
नारायणो ब्रह्मचारी क्षत्राणीजीवदासकः ।
देवाकपूर क्षत्री च दिनकरः पुरुषोत्तमः ॥ ५॥
मकुन्दः प्रभुदासश्च प्रभुत्रिपुरादासकौ ।
पूर्णमल्लो यादवेन्द्रः काश्मीरो माधवस्तथा ॥ ६॥
गुसाईदास-गोपालौ पद्मरावलकस्तथा ।
जोशी पुरुषोत्तमो ज्ञेयो जगन्नाथः समान्वयः ॥ ७॥
नरहरी राणाव्यासः क्षत्राणी-रामदासकौ ।
गोपालः कृष्णदासश्च प्रहितो रामदासकः ॥ ८॥
बुलामिश्र-रामानन्दौ विष्णु-जीवनदासकौ ।
सारस्वतो भगवान् भगवान्मुक्षसेवकः ॥ ९॥
गौडो ह्यच्युतदासश्च अच्युतश्चक्रतीर्थकः ।
कन्हैयालालक्षत्री च नरहरिदासकस्तथा ॥ १०॥
लघुपुरुषोत्तमो गोपालदास-जनार्दनौ ।
कविराजो गडुस्वामी उत्तमश्लोकदायकः ॥ ११॥
ईश्वरोत्तमश्लोकाख्यो राजामाधवकौ तथा ।
सिंहनन्दे सासुबहू परमानन्द सूरकः ॥ १२॥
बाबावेणुः कृष्णदासी छकडा वासुदेवकः ।
एका क्षत्राणी आनन्ददासो विश्वम्भरस्तथा ॥ १३॥
ब्रह्माणी रथकाईश्च नारायणीस्त्रीयरस्तथा ।
अन्यमार्गीयकायस्थदासो दामोदरस्तथा ॥ १४॥
सिंहनन्दे च क्षत्राणी जगदानन्दकस्तथा ।
इन्द्रप्रस्थे चैकक्षत्री जटा गोपालदासकः ॥ १५॥
कृष्णदासो रामदासो वाडवो बादरायणः ।
वैष्णवो सन्तदासश्च सुन्दरदास मावजी ॥ १६॥
नरहरिदास सन्न्यासी पाडे सदुभवानिका ।
श्रीमदाचार्यभक्तानां नामानि बहुशस्तथा ॥ १७॥
तथापि स्वात्मपाठार्थे लिखितानीति क्षम्यताम् ।
वार्तायां परिबोद्ध्यानि सर्वदा वैष्णविअर्जनैः ॥ १८॥
इति श्रीमद्गोकुलनाथजीकृता
श्रीमद्वल्लभाचार्यचतुरशीतिभक्तानां नामावली सम्पूर्णा ।
Proofread by PSA Easwaran