बिन्दुमाधवविष्णुस्तुतिः
ॐ नमः पुण्डरीकाक्ष बाह्यान्त शोचदायिने ।
सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात् ॥ १॥
नमामि ते पदद्वन्द्वं सर्वद्वन्द्वनिवारकम् ।
निर्द्वन्द्वयाधियाविष्णो जिष्ण्वादिसुरवन्दित ॥ २॥
यं स्तोतुं नाधिगच्छन्ति वाचो वाचस्पतेरपि ।
तमीष्टेकैहस्तोतुं भक्तिस्रवलीयसी ॥ ३॥
अपियो भगवानीशो मनः प्राचामगोचरः ।
समादृर्शरल्पधीभिः कथं स्तुत्यो वचः परः ॥ ४॥
यं वाचो न विशन्तीशं मनतीहमनोनयम् ।
मनोगिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत् ॥ ५॥
यस्य निःश्वसितं वेदाः सषडङ्गपदक्रमाः ।
तस्य देवस्य महिमामहान् कैरवगम्यते ॥ ६॥
अतन्द्रितमनोबुद्धीन्द्रियायं सनकादयः ।
ध्यायन्तोपिहृदाकाशे न विन्दन्ति यथार्थतः ॥ ७॥
नारदाद्यैर्मुनिवरैराबालब्रह्मचारिभिः ।
गीयमानचरित्रोऽपि नसम्यग्योऽधिगम्यते ॥ ८॥
तं सूक्ष्मरूपमजमव्ययमेकमाद्यं
ब्रह्माद्यगोचरमजेय मनन्तशक्तिम् ।
नित्यं चिरामयममूर्तमचिन्त्यमूर्तिं
कस्त्वां चराचर चरावरभिन्न वेत्ति ॥ ९॥
एकैकमेव तव नाम हरेन्मुरारे
जन्मार्जिताघमधिनां च महापदाढ्यम् ।
दद्यात्फलं च महितं महतोमखस्य
जप्तं मुकुन्द मधुसूदनमाधवेति ॥ १०॥
नारायणेति नरकार्णवतारणेति
दामोदरेति मधुहेति चतुर्भुजेति ।
विश्वम्भरेति विरजेति जनार्दनेति
क्वास्तीह जन्मजपतांक्व कृतान्तभीतिः ॥ ११॥
ये त्वां त्रिविक्रम सदाहृदि शीलयन्ति
कादम्बिनीरूचिररोचिषमम्बुजाक्षम् ।
सौदामनीविलसितां शुकवी तमूर्ते
तेऽपि स्पृशन्ति तव कान्तिमचिन्त्यरूपाम् ॥ १२॥
श्रीवत्सलाञ्छन हरेऽच्युतकैटभारे
गोविन्द तार्क्ष्य केशव चक्रपाणे ।
लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे
त्वद्भक्तिभाजि नभयं क्वचिनस्ति पुंसि ॥ १३॥
यैरर्चितोऽसि भगवंस्तुलसी प्रसूनै-
र्दूरीकृतैणमदसौरभ दिव्यगन्धैः ।
तानर्चयन्ति दिवि देवगणाः समस्ता
मन्दारदामभिरलं विमलस्वमावान् ॥ १४॥
यद्वाचिनाम तवकामदमब्जनेत्र
यच्छ्रोत्रयोस्तवकथा मधुराक्षराणि ।
यच्चित्तभित्तिलिखितं भवतोऽस्ति रूपं
नीरूपभूप पदवी नहितैर्दुरापा ॥ १५॥
ये त्वां भजन्ति सततं भुविशेषशायिं-
स्ताञ्छ्रीपतेपितृ पतीन्द्रकुबेर मुख्याः ।
वृन्दारका दिवि सदैव समाजयन्ति
स्वर्गापवर्ग सुखसन्ततिदानदक्ष ॥ १६॥
ये त्वां स्तुतवन्ति सततं दिवि तांस्तुवन्ति
सिद्धाप्सरो मरगणालसदब्जपाणे ।
विश्राणयत्यखिलसिद्धिद को विना त्वां
निर्वाणचारु कमलां कमलायताक्ष ॥ १७॥
त्वं हंसि पासि सृजसि क्षणतः स्वलीला
लीलावपुर्धर विरिश्चिनताङ्घ्रियूग्म ।
विश्वं त्वमेव परविश्वयतिस्त्वमेव
विश्वस्यबीजमसि तत्प्रणतोऽस्मिनित्यम् ॥ १८॥
स्तोतात्वमेव दनुजेन्द्ररिपोस्तुतिस्त्वं
स्तुव्यस्त्वमेव सकलं हि भवानिहैकः ।
त्वत्तो न किञ्चिदपि भिन्नमवैमि विष्णो
तृष्णां सदा कृणुहि मे भवजाम्भवारे ॥ १९॥
इति स्तुत्वा हृषीकेशमग्निबिन्दुर्महातपाः ।
तस्थौ तूष्णीं ततो विष्णुरुवाच वरदो मुनिम् ॥
इति बिन्दुमाधवविष्णुस्तुतिः समाप्ता ।
Encoded and proofread by Divya K Suresh