शिवकृतं भगवत्स्तोत्रम्
श्रीगणेशाय नमः ।
शिव उवाच ।
जितं त आत्मविद्धुर्य स्वस्तये स्वस्तिरस्तु मे ।
भवता राधसा राद्धे सर्वस्मा आत्मने नमः ॥ १॥
अमः पङ्क्रजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।
वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ २॥
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।
नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३॥
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्भने ।
नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ४॥
स्वर्गापवर्गद्वाराय नित्यं शुचिपदे नमः ।
नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ५॥
नम ऊर्जैषेत्रय्याःपतये यज्ञरेतसे ।
तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ६॥
सर्वसत्वात्मदेहाय विशेषाय स्थवीयसे ।
नभस्त्रैंलोक्यपालाय सहओजोबलाय च ॥ ७॥
अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।
नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ८॥
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।
नमो धर्मविपाकाय मृत्यवे दुःखदाय च ॥ ९॥
नमस्त आशिषामीश मनवे कारणात्मने ।
नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।
पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ १०॥
शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्भने ।
चेताकूतिरूपाय मनोवाचोविभूतये ॥ ११॥
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।
रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ १२॥
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् ।
चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ १३॥
पद्मकाशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ।
सुद्विजं सूकपोलास्यं समकर्णविभूषणम् ॥ १४॥
प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम् ।
लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुडलम् ॥ १५॥
स्फुरत्किरीटवलयहारनूपुरमेखलम् ।
शङ्खचक्रगदापद्ममालामण्युत्तमर्धिमत् ॥ १६॥
सिंहस्कन्धत्विषो बिभ्रत्सौभाग्यग्रीवकौस्तुभम् ।
श्रियानपायिन्याक्षिप्तनिकषाश्मोरसोल्लसत् ॥ १७॥
पूररेचकसंविग्नवलिवल्गुदलोदरम् ।
प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ १८॥
श्यामश्रोण्याधिरोचिष्णु दुकूलस्वर्णमेखलम् ।
समचार्वङ्घ्रिजघोरुनिम्नजानुसुदर्शनम् ॥ १९॥
पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरधं विधुन्वता ।
प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ २०॥
एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।
यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ २१॥
भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् ।
स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ २२॥
तं दुराराध्यमाराध्यं सतामपि दुरापया ।
एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ २३॥
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।
विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ २४॥
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ २५॥
अथानधाङ्घ्रेस्तव कीर्तितीर्थयोरतर्बहिःस्नानविधूपतपाप्मनाम् ।
भूतेष्वनुक्रोशसुसत्त्वशालिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ २६॥
न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् ।
यद्भक्तियोगानुगृहीतमजसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ २७॥
यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।
तत्त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ २८॥
यो माययेदं पुरुरूपयाऽसृजद्बिभर्ति भूयः क्षपयत्यविक्रियः ।
यद्भेदबुद्धिः स दिवात्मदुःस्थया तमात्मतन्त्रं भगवन् प्रतीमहि ॥ २९॥
क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु जयन्ति सिद्धये ।
भूतेन्द्रियातःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥ ३०॥
त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते ।
महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥ ३१॥
सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन ।
अथो विदुस्तं पुरुषं सन्तमन्तर्भुक्ते हृषीकैर्मधु सारघं यः ॥ ३२॥
स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः ।
भूतानि भूतैरनुमेयतत्त्वो घनावलीवायुरिवाविषह्यः ॥ ३३॥
प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ३४॥
कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः ।
विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ॥ ३५॥
अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।
विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥ ३६,॥
इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ ३७॥
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।
पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ३८॥
इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः ।
भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ३९॥
ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः ।
अनेन ध्वस्ततमसः सिसृक्ष्मो विधिधाः प्रजाः ॥ ४०॥
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् ।
अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ४१॥
विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् ।
मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ४२॥
इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धान्वितः ।
शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ४३॥
इति शिवकृतं भगवत्स्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran