भावविज्ञप्तिस्तवः
श्रियः पतिं तत्पदपङ्कजस्पृहा-
तृणीकृतान्यं यतिशेखरं तथा ।
श्रीरङ्गसूरिं मम देशिकेन्द्रं
श्रीमच्छठारिं च नितान्तमाश्रये ॥ १॥
यद्वक्षःस्थलमन्दिरं प्रविलसन्माणिक्यमुक्तावली-
दोलान्दोलनरागलोलहृदया निःसीमभाग्योदया ।
श्रीदेवी समलङ्करोति करुणापीयूषपाथोनिधि-
श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ २॥
भागं यस्य च दक्षिणं भगवती सौभाग्यसौशील्यभू-
र्भूदेवी सततं विभूषयति यद्वामं च लीलाभिधा ।
देवीनीलसरोजसुन्दररुचिःसौन्दर्यलीलागृहं
चेतासद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ३॥
निर्लोभैरपि निःस्पृहैरपि दरानन्दैकमग्नैरपि
प्रेम्णा सस्पृहमात्तलोभमसकृद्यद्रूपमालोक्यते ।
नैतावन्न भवन्त्यनुक्षणमभिप्रेक्ष्यापि तृप्तास्तत-
श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ४॥
श्रीदेवीपरिशोभिताच्छहृदया भूभूषितादक्षिणे
लीलास्वीकृतवामभागरुचिरा मूर्तिः परा राजते ।
यस्यैवोत्सवमूर्तिरित्यभिधया चेतश्चमत्कारिणी
चेतासद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ५॥
यस्याङ्घ्रिस्मरणं समस्तविपदामुन्मूलनं सम्पदा
सर्वासामभिवृद्धिदं स्वजनतोद्धारप्रवृद्धाग्रहम् ।
सद्विद्योदयदं जवादभयदं श्रेयःसमूहप्रदं
चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ६॥
भ्रारन्त्वाभूवलयं दिशोऽपि निखिला लोकानधस्थांस्तथै-
वोर्ध्वस्थानभिवीक्ष्य नात्मसदृशं लावण्यलक्ष्मीः स्वयम् ।
प्रेम्णामुं समुपाश्रितेति जनधीर्यद्दर्शने जायते
चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ७॥
इन्दौ शारदरात्रिकैरवसभासौभाग्यशोभाकरे
पद्मे पद्मनिवासिनीमुखनिभेप्यत्यन्तमन्दादरा ।
यस्मिन्नीक्षणगोचरे सति नृणां दृष्टिः सदाजायते
चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ८॥
रेवत्यां स्वजनाभिलाषचयधुक्पादाब्जयुग्मानतेः
श्रीदेवीविलसत्सुवक्षस इलालीलाश्रितस्य प्रभोः ।
यात्रा यस्य विमानगस्य नगरे सञ्जायते सर्वत-
श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ९॥
कति कति न विलोकितानि लोके हरिसदनानि मनोमनोहराणि ।
तदपि मम रतिः सुरासुरार्च्ये प्रतिदिनमेधत एव रङ्गराजे ॥ १०॥
पुर्य्यः सप्त नमोऽस्तु वः प्रतिदिनं मोक्षाख्यभिक्षाप्रदा
यूयं वः शुभकीर्तयः प्रतिमहाशास्त्रं प्रसिद्धाश्चिरात् ।
क्षन्तव्यं मम मानसं तु चपलं संसेव्य युष्मानपि
प्रेम्णा शान्तिमुपैति नैवहि विना श्रीरङ्गराजप्रभुम् ॥ ११॥
दृष्टेव काशी मथुरा च काञ्चीयुगं प्रभो द्वारवती तथैव ।
पुर्यप्ययोध्या न मयानुभूतं कुत्रापि युष्मात्पुरवाससौख्यम् ॥ १२॥
तर्कव्याकरणामृताब्धिविरता साहित्यमन्दादरा-
वेदान्तेष्वपि निःस्पृहापि च महाकोशेषु मुक्तादरा ।
चेतोवृत्तिरियं प्रभो विरहिणी कान्तेव सद्वंशजा
त्यक्त्वा ये चरणाम्बुजं न रमते श्रीरङ्गभर्तुः प्रभो ॥ १३॥
प्रभो गङ्गायां वा सरिति यमुनायामपि मुदा
प्रयागे वा तिष्ठन् शयनमशनं वाऽप्यनुभवन् ।
कदा श्रीरङ्गेशप्रभुचरणसेवासुखमहं
पुनः प्राप्स्यामीति प्रतिलवमनुध्याननिरतः ॥ १४॥
भक्ताभीप्सितपूर्तिपण्डितपदाम्भोजैकवारस्मृते-
र्विश्वापत्प्रशमप्रवीणहृदय श्रीरङ्गराजप्रभो ।
आयासः कतमस्तवाऽस्ति भगवन् भावत्कपादाम्बुज-
द्वन्द्वाऽदूरनिवासवाञ्छितफलं दातुं दयाब्धेऽद्यमे ॥ १५॥
इन्द्रायेन्द्रपदं निधीश्वरपदं यक्षाधिराजाय वा
दारिद्र्यापरमूर्तये निरुपमैश्वर्यंसुदाम्नेमुदा ।
दातुं गाढनिबद्धसत्परिकरस्यासीन्नलो भाङ्कुरो
मद्वाञ्छापरिपूरणे कथमहो क्षोभोऽस्ति लोभस्तव ॥ १६॥
नैन्द्रे पदे न निधिनाथपदे पदे न
क्ष्मापालकस्य न परत्रच मेऽस्ति वाञ्छा ।
श्रीरङ्गराज भवदेकसमीपवास-
वाञ्छास्तिसाऽपि भवता न हि पूर्यते किम् ॥ १७॥
जिह्वे निरर्गलतरासि विचारय त्वं
किं जल्पसि प्रणतवत्सल एष ईशः ।
यद्यत्करोति स विभुस्तदसंशयांशं
विद्धि स्वकीयजनतोभयलोकपथ्यम् ॥ १८॥
युष्मत्पादाम्बुरुहविरहव्याधितप्ताशयोऽयं
दासो जल्पेत्किमपि यदिह श्रापते तन्न चिन्त्यम् ।
जाने यद्यप्यखिलजगतां श्रेयसे ते प्रवृत्ति
बद्धोत्साहां त्यजति न मनोऽथाऽपि वाचालतां मे ॥ १९॥
श्रीरङ्गराज हृदयं भवदङ्घ्रियुग्मे
देहस्तु सञ्चरित सम्प्रति यत्र कुत्र ।
इच्छा भवेत्तव यदा भगवंस्तदाऽयं
कार्यस्त्वदीयपदपङ्कजसन्निधिस्थः ॥ २०॥
श्रीरङ्गराज तदलं बहुजल्पनेन
यत्र क्व वा भवतु भाग्यवशात्स्थितिर्मे ।
चेतस्थितिस्तु भवदीयददाब्जयुग्मे
भूयादहर्निशमियं चरमाऽर्थना मे ॥ २१॥
श्रीवेणुगोपालशठारिनाथ-
श्रीभाष्यकारा अपि चारुरूपाः ।
श्रीसौम्यजामातृमुनिश्च नित्यं
यद्दक्षिणे भान्ति कृतप्रतिष्ठाः ॥ २२॥
श्रीमद्रमारमणवेङ्कटशैलनाथा-
ऽनाथं जनं विविधतापभियाऽभियातम् ।
यद्वामभागपरिशोभितदिव्यरूपः
शं पश्य मां निजकटाक्षविचित्रपातैः ॥ २३॥
सतस्तलोकस्म मनोहरन्ती
निःसीमसौन्दर्यभरेण नित्यम् ।
मूर्तिर्मनो मोहमतो स्म सा मे
श्रीरङ्गनाथस्य दयासुधाब्धेः ॥ २४॥
हे वेणुगोपाल मदीयगोगणः
समर्पितोऽस्त्येव भवत्पदान्तिके ।
स चेद्विमार्गं श्रयिता तदा तु
तद्गोपालतालाञ्छनकृत्तव प्रभोः ॥ २५॥
ततः प्रणामान् शतशः सहस्रशः
समर्प्य विज्ञापयतीह किङ्करः ।
एष त्वदीयः स मदीयगोगणो
विमार्गगो नैव भवेतथा कुरु ॥ २६॥
शठारे स्वामिन् हे मम तव पदाम्भोरुहयुगं
श्रितस्यापीहैते दृढतरहठादिन्द्रियशठाः ।
तुदन्ति स्वान्तं तत्किमिति शठशत्रोस्तव
जगत्पवित्रां कीर्ति नो हरति तदिमान् दण्डय विभो ॥ २७॥
वेदान्ताम्बुधिमन्थते न हि सुरा नैवाऽसुरानाऽचलो
नाहिर्नात्मनि कूर्पता विषभिया शम्भुश्च नापेक्षितः ।
यस्याऽशेषमनुष्यपेयमकरोद्वेदार्थसारामृतं
यस्तं त्वद्भुतविष्णुमानसमना रामानुजार्यं मुहुः ॥ २८॥
येऽपारसंसारसमुद्रमग्रा-
नज्ञान् विलोक्यातिदयार्द्रचित्ताः ।
सन्दर्शयामासुरमुं सुमार्गे
श्रीलक्ष्मणार्यान्नम मे मनस्तान् ॥ २९॥
श्रीभाष्यनिर्माणयशःशरीर-
मद्याऽपि येषामतिचित्रमस्ति ।
अमृत्युमार्यं चरसाऽप्यजीयं
श्रीलक्ष्मणार्यान् नम तान् मनो मे ॥ ३०॥
आत्मप्रवर्तितमनुत्तमसम्प्रदायं
द्रष्टुं पुनर्धृतजनीनिव लक्ष्मणार्यान् ।
मन्यन्त उत्तम जनानिह यान्मनस्तान्
जान्मातृसंज्ञकमुनीन्नम सौम्य पूर्वान् ॥ ३१॥
अञ्जनाचल शृङ्गारे श्रीनिवासे रतिर्मम ।
कालत्रये निरावाधा भूयादित्यर्थ्यतेऽनिशम् ॥ ३२॥
वैश्या धार्मिककर्ममग्नमनसो यत्पादपद्मद्वयी-
भक्तिं प्रेमरसप्रभिन्नमनसः कुर्वन्ति निर्हेतुकीम् ।
यस्तेषां परिपूर्णतां नयति हृद्वाञ्छाः क्षणेनाऽखिला-
श्चेतःसद्मनि सर्वदा विजयतां श्रीरङ्गराजप्रभुः ॥ ३३॥
काले नेत्रधराङ्कभूमितशुभे वर्षेऽथ मासे शुभे
विद्वद्वन्दितकृष्णमिश्रतनयैः श्रीरङ्गपादाश्रयैः ।
रामाचार्यपुरःसरैर्विरचिता यस्य प्रतिष्ठामुदा
चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः प्रभुः ॥ ३४॥
श्रीमदीयपदपङ्कजसम्पत्कृष्णमिश्रकुलेजेष्वखिलेषु ।
अस्ति ते निरुपमा करुणादृक् तत्कृतेऽत्र पुनरुक्तिरियं मे ॥ ३५॥
आर्या रामाचार्याः स्वाचरणारामशरणाश्च ।
विश्वख्यातसुयशसः सोऽयंश्रीरङ्गनाथ ते महिमा ॥ ३६॥
पराङ्कुशा वादिविद्वद्गजराजपराङ्कुशाः ।
आसन् यत् पितृपादा मे महिमा सोऽपि तावकः ॥ ३७॥
भक्तिसारा भक्तिसारा भक्तिसारोपमानकाः ।
भवन्ति भ्रातरो मे यन्महिमा सोऽपि तावकः ॥ ३८॥
मत्कनिष्ठान् श्रीनिवासमधुसूदनसंज्ञकान् ।
घनश्यामं च गोपालं पाहि श्रीरङ्ग सर्वदा ॥ ३९॥
श्रीरङ्गराज करुणावरुणालय त्व-
त्पादाब्जयुग्मशरणः किल वासुदेवः ।
स्वप्नेऽपि नाऽन्यशरणोऽस्ति ततोऽत्र कार्या
नित्यं दयादृगिह दासजने दयाब्धे ॥ ४०॥
नारायणात्मजनुषो मम वासुदेवे-
त्याख्यस्य राम गुरुवर्य्यकृपाप्तनीतेः ।
एषा कृतिर्विजयतामुपपुण्डरीकं
श्रीमत्फतेपुरजनेर्हितरङ्गधाम्नः ॥ ४१॥
बिहांणीपत्तनीय श्रीरङ्गधामैकजीविना ।
श्रीमता वासुदेवेन कृत श्रीरङ्गराट्स्तुतिः ॥ ४२॥
इति भावविज्ञप्ति नामा स्तवः सम्पूर्णः ॥
Encoded and proofread by Mohan Chettoor