बलये प्रह्लादप्रोक्तं वामनप्रादुर्भाववर्णनम्
प्रह्लादः प्राह दैत्येन्द्रं बलिं वैरोचनिं तदा
वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम् ।
तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः ॥ १७॥
देवदेवो जगद्योनिरयोनिर्जगदादिकृत् ।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ १८॥
परापराणां परमः परः परवतामपि ।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ॥ १९॥
स्थितिं कर्तुं जगन्नाथः सोऽदित्या गर्भतां गतः
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः ।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः ॥ २०॥
न यस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः ।
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥ २१॥
योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः ।
यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः ॥ २२॥
यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः ।
यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥ २३॥
भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम् ।
लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥ २४॥
न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः ।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥ २५॥
रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहीत्री रसना रसस्य ।
श्रोत्रं च शब्दग्रहणे नराणां घ्राणं च गन्धग्रहणे नियुक्तम् ॥ २६॥
न घ्राणचक्षुःश्रवणादिभिर्यः सर्वेश्वरो वेदितुमव्ययात्मा ।
शक्यस्तमीड्यं मनसैव देवं ग्राह्यं नतोऽहं हरिमीशितारम् ॥ २७॥
येनैकदंष्ट्राग्रसमुद्धृतेयं धराचला धारयतीह सर्वम् ।
ग्रस्त्वा स शेते सकलं जगद्यस्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥ २८॥
शां!वतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम् ।
नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥ २९॥
देवो जगद्योनिरयं महात्मा स षोडशांशेन महासुरेन्द्र ।
सुरेन्द्रमातुर्जठरं प्रविष्टो हृतानि वस्तेन बले वपूंषि ॥ ३०॥
इति विष्णुधर्मेषु षट्सप्ततितमोऽध्यायान्तर्गतं बलये प्रह्लादप्रोक्तं
वामनप्रादुर्भाववर्णनं सम्पूर्णम् ।
Proofread by PSA Easwaran