अभीतिस्तवः
श्रीगणेशाय नमः ।
अभीतिरिह यज्जुषां यदवधीरितानां भयं
भयाभयविधायिनो जगति यन्निदेशे स्थिताः ।
तदेतदतिलङ्घितद्रुहिणशम्भुशक्रादिकं
रमासखमधीमहे किमपि रङ्गधुर्यं महः ॥ १॥
दयाशिशिरिताशया मनसि मे सदा जागृयुः
श्रियाध्युषितवक्षसः श्रितमरुद्वृधा सैकताः ।
जगद्दुरितघस्मरा जलधिडिम्भडम्भस्पृहः
सकृत्प्रणतरक्षणप्रथितसंविदः संविदः ॥ २॥
यदद्य मितबुद्धिना बहुलमोहभाजा मया
गुणग्रथितकायवाङ्मनसि वृत्तिवैचित्र्यतः ।
अतर्कितहिताहितक्रमविशेषमारभ्यते
तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर ॥ ३॥
मरुत्तरणिपावकत्रिदशनाथकालादयः
स्वकृत्यमधिकुर्वते त्वदपराधतो बिभ्यतः ।
महत्किमपि वज्रमुद्यतमिवेति यच्छ्रूयते
तरत्यनघ यद्भयं य इह तावकस्तावकः ॥ ४॥
भवन्तमिह यः सुधीर्नियतचेतनाचेतनं (स्वधीनियत)
पनायति नमस्यति स्मरति वक्ति पर्येति वा ।
गुणं कमपि वेत्ति वा तव गुणेश गोपायितुः
कदाचन कुतश्चन क्वचन तस्य न स्याद्भयम् ॥ ५॥
स्थिते मनसि विग्रहे गुणिनि धातुसाम्ये सति
स्मरेदखिलदेहिनं य इह जातुचित्त्वामजम् ।
तयैव खलु सन्धया तमथ दीर्घनिद्रावशं
स्वयं विहितसंस्मृतिर्नयसि धाम नैःश्रेयसम् ॥ ६॥
रमादयित रङ्गभूरमण कृष्ण विष्णो हरे
त्रिविक्रम जनार्दन त्रियुगनाथ नारायण ।
इतीव शुभदानि यः पठति नामधेयानि ते
न तस्य यमवश्यता नरकपातभीतिः कुतः ॥ ७॥
कदाचिदपि रङ्गभूरसिक यत्र देशे वशी
त्वदेकनियताशयस्त्रिदशवन्दितो वर्तते ।
तदक्षततपोवनं तव च राजधानी स्थिरा
सुखस्य सुखमास्पदं सुचरितस्य दुर्गं महत् ॥ ८॥
त्रिवर्गपथवर्तिनां त्रिगुणलङ्घनोद्योगिनां
द्विषत्प्रमथनार्थिनामपि च रङ्गदृश्योदयाः ।
स्खलत्समयकातरीहरणजागरूकाः प्रभो
करग्रहणदीक्षिताः क इह तेन दिव्या गुणाः ॥ ९॥ (क इव)
बिभेति भवभृत्प्रभो त्वदुपदेशतीव्रौषधात्-
कदध्वरसदुर्विषे बडिशभक्ष्यवत्प्रीयते । (बलिश)
अपथ्यपरिहारधीविमुखमित्थमाकस्मिकी
तमप्यवसरे क्रमादवति वत्सला त्वद्दया ॥ १०॥
अपार्थ इति निश्चितः प्रहरणादियोगस्तव
स्वयं वदसि निर्भयस्तदपि रङ्ग पृथ्वीपते । (वहसि)
स्वरक्षणमिवाभवत्प्रणतरक्षणं तावकं
यदात्थ परमार्थविन्नियतमन्तरात्मेति ते ॥ ११॥
लघिष्ठसुखसङ्गतैः स्वकृतकर्मनिर्वर्तितैः (सङ्गदैः)
कलत्रसुतसोदरानुचरबन्धुसम्बन्धिभिः ।
धनप्रभृतिकैरपि प्रचुरभीतिभेदोत्तरै-
र्न बिभ्रति धृतिं बिभो त्वदनुभूतिभोगार्थिनः ॥ १२॥ (प्रभो)
न वक्तुमपि शक्यते नरकगर्भवासादिकं
वपुश्च बहुधातुकं निपुणचिन्तने तादृशम् ।
त्रिविष्टपमुखं तथा तव पदस्य देदीप्यतः (तथा दिवि)
किमत्र न भयास्पदं भवति रङ्गपृथ्वीपते ॥ १३॥
भवन्ति मुखभेदतो भयनिदानमेव प्रभो
शुभाशुभविकल्पिता जगति देशकालादयः ।
इति प्रचुरसाध्वसे मयि दयिष्यसे त्वं न चे-
त्क इत्थमनुकम्पिता त्वदनुकम्पनीयश्च कः ॥ १४॥
सकृत्प्रपदनस्पृशामभयदाननित्यव्रती
न च द्विरभिभाषसे त्वमिति विश्रुतः स्वोक्तितः ।
यथोक्तकरणं विदुस्तव तु यातुधानादयः
कथं वितथमस्तु तत्कृपणसार्वभौमे मयि ॥ १५॥
अनुक्षणसमुत्थिते दुरितवारिधौ दुस्तरे
यदि क्वचन निष्कृतिर्भवति सापि दोषाविला ।
तदित्थमगतौ मयि प्रतिविधानमाधीयतां
स्वबुद्धिपरिकल्पितं किमपि रङ्गधुर्य त्वया ॥ १६॥
विषादबहुलादहं विषयवर्गतो दुर्जया-
द्बिभेमि वृजिनोत्तरस्त्वदनुभूतिविच्छेदतः ।
मया नियतनाथवानयमिति त्वमर्थापयन्
दयाधन जगत्पते दयित रङ्ग संरक्ष माम् ॥ १७॥
निसर्गनिरनिष्टता तव निरंहसः श्रूयते
ततस्त्रियुगसृष्टिवद्भवति संहृतिः क्रीडितम् ।
तथापि शरणागतप्रणयभङ्गभीतो भवान्
मदिष्टमिह यद्भवेत्किमपि मा स्म तज्जीहपत् ॥ १८॥
कयाधुसुतवायसद्विरदपुङ्गवद्रौपदी-
विभीषणभुजङ्गमव्रजगणाम्बरीषादयः ।
भवत्पदसमाश्रिता भयविमुक्तिमापुर्यथा
लभेमहि तथा वयं सपदि रङ्गधुर्य त्वया ॥ १९॥ (रङ्गनाथ त्वया)
भयं शमय रङ्गधाम्न्यनितराभिलाषस्पृशां
श्रियं बहुलय प्रभो श्रितविपक्षमुन्मूलय ।
स्वयं समुदितं वपुस्तव निशामयन्तः सदा
वयं त्रिदशनिर्वृतिं भुवि मुकुन्द विन्देमहि ॥ २०॥
श्रियः परिवृढे त्वयि श्रितजनस्य संरक्षके
सदद्भुतगुणोदधाविति समर्पितोऽयं भरः ।
प्रतिक्षणमतः परं प्रथय रङ्गधामादिषु
प्रभुत्वमनुपाधिकं प्रथितहेतिभिर्हेतिभिः ॥ २१॥
कलिप्रणिधिलक्षणैः कलितशाक्यलोकायतै-
स्तुरुष्कयवनादिभिर्जगति जृम्भमाणं भयम् ।
प्रकृष्टनिजशक्तिभिः प्रसभमायुधैः पञ्चभिः
क्षितित्रिदशरक्षकैः क्षपय रङ्गनाथ क्षणात् ॥ २२॥
दितिप्रभवदेहभिद्दहनसोमसूर्यात्मकं
तमःप्रमथनं प्रभो समुदितास्त्रवृन्दं स्वतः ।
स्ववृत्तिवशवर्ति तत्त्रिदशवृत्ति चक्रं पुनः-
प्रवर्तयतु धाम्नि ते महति धर्मचक्रस्थितिम् ॥ २३॥
मनुप्रभृतिमानिते महति रङ्गधामादिके
दनुप्रभवदारुणैर्दरमुदीर्यमाणं परैः ।
प्रकृष्टगुणकः श्रिया वसुधया च सन्धुक्षितः
प्रयुक्तकरुणोदधिः प्रशमय स्वशक्त्या स्वयम् ॥ २४॥
भुजङ्गमविहङ्गमप्रवरसैन्यनाथाः प्रभो
तथैव कुमुदादयो नगरगोपुरद्वारपाः ।
अचिन्त्यबलविक्रमास्त्वमिव रङ्ग संरक्षका
जितं त इति वादिनो जगदनुग्रहे जाग्रतु ॥ २५॥
विधिस्त्रिपुरमर्दनस्त्रिदशपुङ्गवः पावको
यमप्रभृतयोऽपि यद्विमतरक्षणे न क्षमाः ।
रिरक्षिषति यत्र च प्रतिभयं न किञ्चित्क्वचित्-
स नः प्रतिभटान्प्रभो शमय रङ्गधामादिषु ॥ २६॥
स कैटभतमोरविर्मधुपरागझञ्झामरु-
द्धिरण्यगिरिदारणत्रुटितकालनेमिद्रुमः ।
किमत्र बहुना भजद्भवपयोधिमुष्टिन्धय-
स्त्रिविक्रम भवत्क्रमः क्षिपतु मङ्क्षु रङ्गद्विषः ॥ २७॥
यतिप्रवरभारतीरसभरेण नीतं वयः
प्रफुल्लपलितं शिरः परमिह क्षमं प्रार्थये ।
निरस्तरिपुसम्भवे क्वचन रङ्गमुख्ये विभो
परस्परहितैषिणां परिसरेषु मां वर्तय ॥ २८।
प्रबुद्धगुरुवीक्षणप्रथितवेङ्कटेशोद्भवा-
मिमामभयसिद्धये पठत रङ्गभर्तुः स्तुतिम् ।
भयं त्यजत भद्रमित्यभिदधत्स वः केशवः
स्वयं घनघृणानिधिर्गुणगणेन गोपायति ॥ २९॥
इति श्रीवेदान्तदेशिकप्रणीतः
श्रीमद्वेङ्कटनाथप्रणीतोऽभीतिस्तवः सम्पूर्णः ।
(श्रीरङ्गक्षेत्रे)
Proofread by PSA Easwaran psaeaswaran at gmail.com