अष्टप्रासपुष्पाञ्जलिः
त्राता यो जगतां सकृत्प्रपदनप्रीतान्तरात्मा मुहु-
र्दाताभूदभयस्य चेति जगति ख्यातापदानावलिः ।
नैतादृक् करुणाकरोऽन्य इति निर्धूतान्यदेवः सदा
सीतानायकमेव तं मम मनो जातादरं सेवते ॥ १॥
जेता नूतननीलनीरदरुचां भ्राता च नीलोत्पल-
व्राताभाविततेः सखा हरिमणीजाताञ्जनौषत्विषाम् ।
सीतापाङ्गमरीचिवीचिनिचयस्फीतात्मरूपः श्रिता-
नेतान् नः परिपात्वसौ रघुपतेः पूताकृतेनलिमा ॥ २॥
ये तावद् बहुदुःखसागरगता भीता जनाः संसृतौ
यातायातनितान्ततान्तहृदया नीताश्च नीचां दशाम् ।
एतादृक्ष्वपि दुर्दशासु मनसा सीतापतिं यान्ति चेद्
यातायातपरिश्रमं जहति ते का तावता स्यात् क्षतिः ॥ ३॥
मातारो न हि यन्महिम्न इह विख्याता महान्तोऽप्यसा-
वेतावानिति योगिनोऽपि सततं ध्यातात्मरूपा अपि ।
सीतानाथमहिम्नि तत्र किमनाघ्रातात्मदृष्टिक्रमो
ज्ञाताभूवमिहेदृशोऽहमधुना स्तोता भवेयं कथम् ॥ ४॥
नेतादित्यकुलस्य सन्नपि जनान् क्रीतान् स्वकीयैर्गुणैः
शीतालोकमृदॄक्तिभिश्च सुखयन् मातापितृभ्योऽधिकम् ।
धौतान् कार्तयुगांश्च धर्मनिवहांस्त्रेतायुगेऽप्याचरन्
व्यातानीद्रतिसाधु राज्यमिह यः सीतापतिः पातु सः ॥ ५॥
लोका यूयमुपाश्रयध्वमधुना लोकाभिरामं कृपा-
लोकासारकृतावनं रघुपतिं लोकातिशायिप्रभुम् ।
लोकालोकधरावधीह गमने लोकान्तरोद्धावने-
ऽप्येकापीतरदेवता न शरणं काकासुरस्याप्यभूत् ॥ ६॥
मूकात्माप्यहमाश्रये रघुपतिं नाकाधिपाद्यैर्नृतं
राकाचन्द्रनिभाननं स्तुतिकृते लोकान् विधातुं मुदा ।
काकारावसमास्तदन्यविषयश्लोका इति ज्ञानवा-
ञ्शोकानामपनोदनाय जगतामेकाधिपं सन्ततम् ॥ ७॥
शैलानामपि यस्य पादरजसा चेलादिभूषामणी-
जालानि स्फुटमम्बुजादिसुमनोमालाश्च सम्पादिताः ।
सा लावण्यमयी तनुस्तनुमतां हेलादियोग्या च तं
फालाक्षादिनुतं श्रये रघुवरं शीलान्वितं सर्वदा ॥ ८॥
आदायाशु करेण शैलनिवहान् व्यादाय वक्त्रं च या
खादाय द्रुतमापतन्त्यभिमुखं खेदावहा प्राणिनाम् ।
सीदामीति हतापतद् यदिषुणा सा दारुणा ताटका
मोदाढ्या मुनयोऽस्तुवन् तमनघं वेदान्तवेद्यं भजे ॥ ९॥
मारीचो हि यदीयबाणविभवे वैरीभवन्नादिमो
दूरीकृत्य निपातने निपुणतामूरीचकाराद्भुताम् ।
दारीयस्तनदारणः सुदुरहङ्कारी किलामोघतां
वारीणां निधिरर्चिषां च विभवं भूरीडितं तं भजे ॥ १०॥
सिद्धा यत्र जना भवन्ति तपसा सिद्धाश्रमं तं भज-
ञ्शुद्धात्मा रघुनन्दनो गुरुवचस्तद्धारयंश्चेतसा ।
रुद्धाकाशमपास्य राक्षसकुलं युद्धाय पातास्त्रतः
श्रद्धातो गुरुयज्ञरक्षणपरो हृद्धाम्नि भूयाच्चिरम् ॥ ११॥
शूराग्रेसरमानिनोऽत्र भुवि ये धीरास्तथा भूमिपा
भाराद् यच्चलनाधिरोपणकथादूरा निराशा गताः ।
पौराणां पुरतस्तदीश्वरधनुर्यो रागतो लीलया
साराढ्योऽथ बिभेद तं रघुपतिं वीराग्रगण्यं भजे ॥ १२॥
तारानाथनिभाननं जनकजा माराभिरामाकृतिं
स्फाराक्ष्युत्पलमालिकाभिरभितो नीराजयन्ती मुहुः ।
सारासारविवेकलम्पटमतिर्धीराथ वव्रे पतिं
श्रीरामं सुकुमारमूर्तिरनिशं स्मेराननं तं भजे ॥ १३॥
कारागारमवापिताः क्रनुभुजो ये रावणेनार्दिता
नैराश्यान्निजजीवनेऽप्यशरणाः क्षीराम्बुराशेस्तटे ।
दूरादच्युतमस्तुवन् जनकजाश्रीरामचन्द्रावुभा-
वारात् ते कलयन्त एव मनसा क्रूराशरेशं हतम् ॥ १४॥
क्षीराब्धेरवतीर्य चैत्य विमलाकारां प्रसन्नां सदा-
चाराढ्यां तनुमुज्ज्वलां कुवलयं दूरादसौ हर्षयन् ।
आराध्य द्विजराजभावममृतासाराभिवर्षी नृणां
घोराणीह तमांस्यपोह्य जयति श्रीरामचन्द्रो भुवि ॥ १५॥
ये धावन्त्यपि तानहो भुवि महीनाथान् समस्तानपि
क्रोधाग्नौ हि जुहाव यो निजपितुर्बाधाप्रवृद्धार्चिषि ।
आघात् तं जमदग्निजं मुनिमसौ साधारणं चेति यद्
गाधाः साधु पठन्ति तं रघुपतिं मेधाविनं संश्रये ॥ १६॥
त्यक्त्वा राज्यमकण्टकं पितृकृते कृत्वा निवासं वने
हत्वा क्रूरतरं विराधमसुरं धृत्वा जटावल्कले ।
नत्वागस्त्यमुखानृपीञ्शुचितमान् सत्त्वालयान् राघवः
स्थित्वा पञ्चवटीतटे सदयितः सत्त्वाश्रयो नः प्रभुः ॥ १७॥
भीमा शूर्पणखाभिधा निशिचरी कामाभिरामाकृतौ
रामाख्ये पुरुषोत्तमे पतिमतिं कामातुरा व्यातनोत् ।
मा मा त्वन्मतिरीदृशी मदनुजं प्रेमास्पदीकुर्विति
क्षामा येन निषेधिता त्रिजगतीक्षेमावहं तं भजे ॥ १८॥
धामागत्य निशाचरी तदनु सा रामानुजं प्राप्य तद्-
भीमासिप्रतिकृत्तकर्णसुनसा गामाश्रिताक्रन्दती ।
या मायाखरदूषणत्रिशिरसोऽलीकानि सङ्कीर्त्य सा
गामाकाशमपि स्वनान्मुखरयामासाथ घोरस्वरैः ॥ १९॥
बाणानस्यत एकदैव बहुलान् बाणासनादद्भुतं
प्राणानप्यथ रक्षसां खरशिरःस्थूणासदृक्षान् भुजान् ।
पाणावामलकं व यस्य ददृशुर्वीणामुनीन्द्रादयः
शोणाभं परिषस्वजे जनकजा प्राणाधिपं तं नुमः ॥ २०॥
पायान्मामिह कोसलेश्वरसुतादायाद एष ज्वलन्
मायारूपमृगस्य तूर्णमिषुणा कायादसून् मोचयन् ।
जायाहर्तृदशाननस्य पदवीमायासतो जल्पतः
प्रेयानाशु ददौ जटायुष उरुश्रेयांसि यः सानुजः ॥ २१॥
त्वं पाहीति वदत्कबन्धमवटे तं पातयित्वा ततः
शम्पातुल्यतनुं गतेन दनुजासम्पादितोपायतः ।
पम्पामेत्य रघूद्वहो हनुमता सम्पाद्य सख्यं हरे-
स्तं पापं हनमैक्षत त्रिजगतीकम्पावहं रावणम् ॥ २२॥
सालान् सप्त गिरीन् रसातलमसौ कालानलाकारिणा
हेलाकृष्टशरेण केनचिदहो नालानिवाम्भोरुहाम् ।
योऽलावीद् द्रढयन् मनश्च सुहृदो डोलायितं हर्षयन्
नीलाधीनभुजं भजे रघुपतिं नीलाम्बुदश्यामलम् ॥ २३॥
को योद्धा भुवने मयेति च धिया भूयोमदं वालिनं
न्यायोपेतनिजानुजत्यजनतज्जायोपभोगाद्यघैः ।
हेयोऽसाविति योऽवधीत् तमिषुणा मायोद्धतं धार्मिकं
भूयो भूय उपास्महे तमनघं श्रेयोनिधिं राघवम् ॥ २४॥
राजा सर्वधनुष्मतां हनुमता श्रीजानकीवृत्तम-
प्याजानन्नखिलैर्वृतो वसुमतीभाजां कपीनां गणैः ।
व्याजाद् दारहृदुत्थरोषशिखिनो भाजालदुष्प्रेक्षणो
यो जातो विजयप्रयाणसमये श्रीजानिमेनं भजे ॥ २५॥
इन्धानोऽथ वनौकसां बहुबलैर्मन्थानभूभृत्समैः
पन्थानं द्युसदां नृणां च रघुराडिन्धानरूपः श्रिया ।
संवायाथ विभीषणेन जलधौ बन्धाय सेतोर्दृढं
सन्धामेष विधाय च त्रिदिवसं सिन्धावशेन स्थले ॥ २६॥
बुद्ध्वा वारिनिधिं प्रमत्तमधिकं क्रुद्ध्वा शितैः सायकै-
र्दग्ध्वा तं रघुराड् विशोष्य जलजं वध्वा सहाक्रन्दयन् ।
बद्ध्वा सेतुमसौ वलीमुखबलैरध्वानमावृत्य त-
न्निध्वानैरपि रोदसी रिपुपुरं रुद्ध्वा सुवेले व्यभात् ॥ २७॥
कोटीभिश्च वनौकसां सह जवादाटीकमानः प्रभुः
कोटीरं च सुवेलनामकगिरेः पाटीरगन्धान्वितम् ।
घोटीदन्तिघटाच्छटारथभटैश्चेटीजनैः संवृतां
वाटीभिश्च महीरुहामरिपुरीं पेटीमवैत् सम्पदाम् ॥ २८॥
वेगादागतमीक्ष्य राक्षसबलं रागाद् रणे राघवो
नागाश्वादिसमाकुलं हरिबलेष्वागांसि कुर्वन् भृशम् ।
यो गाढं निजघान सायकवरैश्छागान् यथा केसरी
रोगाणां प्रशमाय तं हरिमणीमागाहमानं भजे ॥ २९॥
योगासक्तहृदो मुनीन् समवधीद् यागानुपङ्गानपि
प्रागाक्रम्य हठादसावसुपरित्यागावधीति प्रभुः ।
भोगाशा न भवेद् यथास्य भुजगीभोगाभचापच्युतै-
र्द्रागागत्य तथा शरैरगमयद् वेगात् पुरीं रावणम् ॥ ३०॥
भीत्या यस्य न तेपिरे रविकरा वात्यास्तथा चन्द्रमाः
शैत्यायास्य च सौधगस्य पुरतो भीत्यास्तृणीते करान् ।
प्रीत्याकृत्य शिरो ममार्ज दयया कात्यायनीवल्लभो
नीत्यावर्जित एष राघवभयाद् दैत्याधिप प्राद्रवत् ॥ ३१॥
नीचानां प्रथमं नितान्तपरुषं स्त्रीचापलेन क्षणात्
प्राचामप्ययशोऽभिवध्यमलिनं वाचाममेयांहसा ।
आचारै रहितं दशाननमसौ वाचालयन् खेचरान्
आचार्यात्तशरैर्जघान रघुराड् ये चानुगास्तैः सह ॥ ३२॥
लङ्काराज्यपदे विभीषणममुं शङ्कालवेनोत्थितं
स्वं कारुण्यममोघयन् रघुपतिः पङ्कातिगः स्थापयन् ।
टङ्कग्रैरिव पर्वतं बहुमदाहङ्कारपूर्णं रिपुं
तं कालातिथिमाकलस्य च शरैर्हुङ्कारधूतारम् ॥ ३३॥
दुष्टानां प्रथमेन येन रिपुणा कष्टां दशां प्रापिता
भ्रष्टास्ते पदतो निजात् सुरगणा अष्टासु दिक्षु द्रुताः ।
घृष्टाग्र्येण रघूद्वहेन निहतं हृष्टाशया वीक्ष्य तं
हृष्टा राममवाकिरन् सुमगणैर्नष्टापदः स्वःपुरात् ॥ ३४॥
वृद्धानां समुपासिता रघुवरो बद्धादरः सद्व्रते
क्रुद्धात्मेव शुचौ प्रवेश्य दयितां शुद्धां गृहीत्वा ततः ।
यद्धात्रा कृतमेष पुष्पकमदो निर्धार्य यातुं पुरं
युद्धादागतवानरैः सह जवान्दद्धा प्रतस्थे मुदा ॥ ३५॥
प्रासादैर्बहुभिर्वृतां हृतरिपुर्योऽसावयोध्यापुरी
प्रासाद्याखिलवानरैः सह नृपैर्व्यासादितुल्यैर्द्विजैः ।
श्रीसाम्राज्यपदेऽभ्यपिच्यत भृशं भासार्ककोट्युज्ज्वलो
दासान् पातु रघूद्वहः सदयितो हंसावलोकान्वितः ॥ ३६॥
नानादेशसमागतान् नरपतीन् मानातिगप्राभवा-
ंज्ञानाब्धीनृषिसत्तमान् कपिवरान् यानासनालिङ्गनैः ।
दीनानाथजनांस्तथा धनमणीदानादिभिर्मानय-
न्नेनान् नः परिपात्वसौ रघुपतिः स्थानाश्रितः सानुगः ॥ ३७॥
श्रीमानेष रघूद्वह स्त्रिजगतां क्षेमाय पूषान्वये
भूमावत्र सतां कृतावतरणः सीमातिगप्राभवः ।
वामाक्षीमणिजानकीनिरवधिप्रेमार्द्रवीक्षावशः
सोमादित्यमुखामरैरभिनुतो मामादरात् त्रायताम् ॥ ३८॥
इति श्रीसुन्दरदासविरचिता अष्टप्रासपुष्पाञ्जलिः समाप्ता ।
स्तोत्रसमुच्चयः २ (५१)
Proofread by Rajesh Thyagarajan