अष्टपदी
(राग भैरव)
जयति निजघोषभुवि गोपमणिभूषणम् ।
युवतिकलधौतरतिजटितमविदूषणम् ॥ ध्रुवपदम् ॥
विकचशरदम्बुरुहरुचिरमुखतोऽनिशम् ।
जिघ्रतादमलमधुमदशालिनी भृशम् ॥ १॥
तरलदलसापाङ्गविभ्रमभ्रामितम् ।
निःस्थिरीभवितुमिच्छतु हृदितकामितम् ॥ २॥
मधुरमृदुहासकलिताधरच्युतरसम् ।
पिबतु रसनाऽपि मुहुरुदितरतिलालसम् ॥ ३॥
अमृतमयशिशिरवचनेषु नवसूत्सुकम् ।
श्रवणपुटयुगलमनुभवतु चिरसूत्सुकम् ॥ ४॥
विपुलवक्षस्थले स्पर्शरसपूरितम् ।
तुङ्गकुचकलशयुगमस्तु मदनेरितम् ॥ ५॥
मृदिततमकायदेवद्रुमालम्बिता ।
हर्षमतिशयितमुपयातु तनुलता ६॥
पुष्परसपुष्टपरपुष्टभृङ्गीमये ।
वसतिरपि भवतु मम निभृतकुञ्जालये ॥ ७॥
गीतमिदमेवमुरुभावगर्भितपदम् ।
रोचयतु कृष्णमिह सरससम्पदम् ॥ ८॥
इति श्रीदेवकीनन्दनजीकृताऽष्टपदी समाप्ता ।
Proofread by PSA Easwaran