अष्टमुखगण्डभेरुण्डनृसिंहस्तवः
ॐ नमो भगवन्विष्णो आदिवैकुण्ठनायक ।
परात्पराय देवाय परेशाय नमो नमः ॥ १॥
परब्रह्माय विश्वाय विश्वनाथाय ते नमः ।
परमात्माय गुह्याय जगज्जननहेतवे ।
सृष्टिस्थित्यन्तरूपाय आदिभूताय ते नमः ॥ २॥
नमस्ते नारसिंहाय गण्डभेरुण्डरूपिणे ।
नमस्ते व्याघ्रवक्त्राय सर्वदुःखविनाशिने ॥ ३॥
नमस्ते अश्ववक्त्राय सर्वविद्याप्रदायिने ।
नमो वराहवक्त्राय सर्वसम्पत्प्रदायिने ॥ ४॥
नमो वानरवक्त्राय सर्वशत्रुविनाशिने ।
नमो गरुडवक्त्राय दुष्टपन्नगहारिणे ॥ ५॥
नमो भल्लुकवक्त्राय शत्रुस्तम्भनकारिणे ।
अष्टास्य गण्डभेरुण्डरूपाय शीघ्रगामिने ॥ ६॥
कल्पान्तकालनिर्घोषगर्जितायोग्ररूपिणे ।
अनेककोटि शरभभक्षणाय महात्मने ॥ ७॥
द्वात्रिंशत्कोटिहस्ताय द्वात्रिंशायुधधारिणे ।
महते भीमरूपाय नारसिंहाय ते नमः ॥ ८॥
॥ श्री अष्टमुखगण्डभेरुण्डनृसिंहकल्पे
ब्रह्मसनत्कुमारसंवादे शरभशिवकृतः स्तवस्सुसम्पूर्णः ॥
वन्देऽहं क्रूरघोरप्रबलतरमहागण्डभेरुण्डसिंह-
व्याघ्राश्वक्रोडशाखामृगवरखगराड्भल्लुकाद्यष्टवक्त्रम् ।
द्वात्रिंशत्कोटिबाहुं हलमुसलगदाशङ्खचक्रादिहेतीः
बिभ्राणं भीमदंष्ट्रं शरभखगगजान् भक्षयन्तं नृसिंहम् ॥