डोलानवरत्नमालिका
श्रीधरवेङ्कटेशार्यकृता
श्रीमद्भिरक्षिवलनैः परितस्सरोज-
श्रेणीं किरन्नधिहिरण्मयदिव्यडोलम् ।
यः श्रीधराकलितमाकलयन् मुदा त-
दान्दोळनं स्फुरति नन्दशिशुं तमीडे ॥ १॥
आन्दोळनेन मणिसुन्दरडोळिकायां
स श्रीधरोपकलितानि समश्नुवानः ।
मन्दस्मितेन मधुरेण निजान् विधिन्वन्
नन्दार्भको भवतु मे नयनाध्वनीनः ॥ २॥
माणिक्यकुण्डलमनोहरतारहारा-
द्युद्दामभूषमुपबर्हनिविष्टबाहुम् ।
तं श्रीधराश्रितपदं श्रितदिव्यडोलं
बालं नुमः कमपि वासवरत्ननीलम् ॥ ३॥
यः श्रीधरस्मरहरादिविलोचनाञ्ज-
ल्यादीयमानपवनो रमतेऽधिडोलम् ।
आन्दोळनेन जननीकलितेन नन्दन्
मन्दं हसन्मनसि मेऽस्तु स नन्दसूनुः ॥ ४॥
अत्रामृतं प्रविचकास्त्यमृतार्थिनां त-
दासेव्यमेतदिति बोधयितुं पदं स्वम् ।
आस्ये निधाय रसयन्नधिरत्नडोलं
अग्रेऽस्तु मेऽभ्ररुचिरार्भकसार्वभौमः ॥ ५॥
डोलाधिरूढमुपबर्हधृतापराङ्गं
फालान्तराकलितहीरललन्तिकाढ्यम् ।
वैयाघ्रचारुनखराञ्चितमभ्रनीलं
बालं कदा ननु पिबानि दृशा विशङ्कम् ॥ ६॥
डोलां गतस्तदनुषञ्जितरत्नगुच्छे
दृष्ट्वा स्वबिम्बमपरार्भकविभ्रमेण ।
अव्यक्तजल्पदरहासमुखैर्विलासैः
दीव्यन्ममास्तु हृदि दिव्यशिशुः सलीलम् ॥ ७॥
आकल्पितैणमदचित्रकभूतिरेख-
फालं कपोलतलबिम्बितकर्णभूषम् ।
डोलां गतं व्रजवधूपरि चुम्ब्यमान-
श्रीमन्मुखं कमपि दिव्यशिशुं स्मरामः ॥ ८॥
आभीरपुण्यविभवावतरोऽधिडोलं
यः श्रीधराकलिततच्चलनैः प्रहृष्यन् ।
अत्येधितैः कलशसिन्धुतरङ्गडोला-
न्दोलैरिवास्तु हृदि मे स किशोरमौलिः ॥ ९॥
श्रीबालकृष्णविनुतिं नवरत्नमाला-
ख्यानामिमां परिपठत्युदितादरो यः ।
सत्पुत्रसम्पदमियादचलाञ्च लक्ष्मीं
श्रीकृष्णभक्ततिलकश्च भवेत्स धन्यः ॥ १०॥
इति श्रीधरवेङ्कटेशार्यकृता डोलानवरत्नमालिका समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com