श्री आर्तिषोडशी
जन्मानन्त्यसमुत्थकिल्बिषपरीपाकोत्थदुश्शेमुषी-
सञ्जातानभिजातकृत्यकलनाशीलं सदा श्रीपते ।
पाहि श्रीकरिशैलनाथ करुणाकूपार पापाकरं
दासं मामरुणाब्जनेत्र यतिरामुख्यार्यसेव्य प्रभो ॥ १॥
संसारे दुर्वचाधिक्षुदहितबहुलव्यध्यकाण्डातपाद्यैः
दुःखैःप्रोते मया तु क्षणमपि भगवन् वर्तनं सह्यते न ।
श्रीमन्तं त्वां प्रपन्नः शरणमहमतिव्याकुलं मां करीश
स्वामिन् मुक्तैश्च साकं कृतविविधभवद्यास्यमेनं कुरुष्व ॥ २॥
शरीराशक्तेः प्राङ् मम मनसि च त्वत्पदयुग-
स्मृतिस्थे चैव श्रीसहचर करिक्ष्माधरपते ।
अनायासेनैतत् कलुषदशरीरात् करुणया
क्षणादुन्मोच्य त्वच्चरणयुगलं मां नय हरे ॥ ३॥
महापापकोटिं गते मय्यनाथे
दयाक्षान्तिपूर्णो भवान् हस्तिनाथ ।
कटाक्षं प्रकुर्वन् विशेषेण दीनं
त्वनायासतो मां नयत्वङ्ग्घ्रियुग्मम् ॥ ४॥
सदा मच्चित्ते त्वत्पदसरसिजध्यानमधिकं
मुदा मद्वाचि त्वन्मधुरतरनामालिकथनम् ।
त्वदीयैः सत्त्वाढयैः सततसहवासं च कृपया
समुत्पाद्य श्रीमन् वरद नय मां त्वत्पदयुगम् ॥ ५॥
कृतान्ताज्ञप्तातिप्रकटकटुवाग्भीषणनिज-
स्वरूपप्रेष्यौघप्रचितबहुबाधा मम हरे ।
यथा न स्याल्लक्ष्मीपरिबृढतया कामपि भवान्
कृपां कुर्वन् दिव्यं पदमपि च भो प्रापयतु माम् ॥ ६॥
मयि त्वत्स्वे जाते स्वकविषयचिन्ता तव हि तत्
स्वकं भूतं स्वस्मै कुरु वरद भोगाय तरसा ।
त्वदेकोपायत्वध्यभिधवृतिमातत्य किमिदं
फलप्राक्कालीनं किमपि करणीयं न कुरुषे ॥ ७॥
सत्कर्माणि सरोरुहाक्ष वरद ज्ञानं लसद्भक्तिर-
प्यत्याश्चर्यकरत्वदीयचरितव्यूहे श्रुतेऽप्यादरः ।
सत्यं त्वत्पदपङ्कजैकनिरतस्वान्तेषु संसेवनं
चैतेष्वन्यतमं च नाथ न कृतं पापात्मना हा मया ॥ ८॥
मुधा चिन्ता भीतिर्व्यसनमधिकं चाधिरमिता
प्रकृष्टस्वस्तौत्यं महदधिकनिन्दा च मम भो ।
न मुञ्चन्ति स्वान्तं नयननलिनेमानि सततं
महाप्रारब्धस्यानुगुणफलमेतन्न विशयः ॥ ९॥
पिता माता भ्राता सुहृदपि सुतः सद्गुरुरपि
त्वमेव श्रीमन् मे जय जय करिक्ष्माधरपते ।
हरे ब्रह्येन्द्रादित्रिदिवपटलीसेवितपदा-
म्बुजद्वन्द्व स्वामिन् सकलभुवनाधीश्वर विभो ॥ १०॥
रागद्वेषविलोभमानमदसम्मोहादिजन्मावनिः
मज्जन्मप्रभवाम्बुधावहमयं त्वां सर्वलोकेश्वरम् ।
स्वामिन् भो कथमाप्नुयां वरद ते क्षान्त्याः पराया भृशं
दासं मां विषयीकरोतु दयया श्रीमन् भवान् वत्सलः ॥ ११॥
महापापव्यूहो व्यपनयति सत्कर्मधिषणा-
मकृत्यव्यूहोऽतिप्रयतनमनीषां वितनुते ।
स्वरूपं च प्राप्तन्द् यदिह महतां सम्मततमं
सुवृत्तं तन्नित्यं सुगुणनिलयोत्पादय हरे ॥ १२॥
धन्यास्त्वत्करुणोत्थवित्तविभवस्वाराधितत्वत्पद
त्वद्दासा विलसन्ति केचिदसमा लीलाविभूत्यामहो ।
तद्भाग्यं वरद प्रभो मम कथं जायेत जातैनसो
नित्यं त्वत्पदपद्मसंस्मृतिरियं स्यान्चेन्ममालं हरे ॥ १३॥
मत्स्यात्मन् कूर्मरूपिन् महितकिटितनो नारसिंहरवरूपिन्
भूयाञ्चोद्युक्तवर्णिन नृपकुलबहुरुड्भार्गवाकारशोभिन् ।
धात्रीपुत्रीशरूप स्वकरतललसत्सीर तालाङ्कमूर्तें
लीलागोपाल कल्के वरद मुरहरे त्वां शरण्यं भजामि ॥ १४॥
दृष्टार्थं प्रार्थितेऽपीप्सितफलद मया वासनातः प्रकृत्याः
तं मे त्वं मा कृथास्त्वत्पदकमलयुगीदास्यवृत्त्येकलिप्सोः ।
सम्भूताद्देहबन्धाज्ज्ञटिति करुणया मां विमोच्य त्वदीयैः
नित्यैर्मुक्तैश्च साकं कृतविविधभवद्दास्यमेनं कुरुष्व ॥ १५॥
कटाक्षविषयं कृत्वा दासं कमललोचन ।
अनायासेन नय मां त्वत्पादाम्भोरुहद्वयम् ॥ १६॥
अष्टगोत्रनृसिंहार्यकलितामार्तिषोडशीम् ।
यः पठेत्तस्य तु भवेत् करीशकरुणामिता ॥ १७॥
इति श्री आर्तिषोडशी सम्पूर्णा ।
Proofread by Saritha Sangameswaran