आर्तत्राणनारायणाष्टादशकम्
प्रह्लाद प्रभुरस्ति चेत्तव दृरिः सर्वत्र मे दर्शय
स्तम्भे चैनमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्यविदारयन्निजनखैर्वात्सल्यमावेदयन्न्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १॥
श्रीरामाव विभीषणोयमधुना त्वार्तो भयादागतः
सुग्रीवानय पालयेहमधुना पौलस्त्वयेवागतम् ।
एवं योऽभयमस्य सर्वविदितं लङ्काधिपत्यन्ददा-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥
नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां
पाहीति प्रचुरार्तरावकरिणं देवेश शक्तीश च ।
मा शोचेति ररक्ष नक्रवदनाञ्चक्रश्रिया तत्क्षणाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥
हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे
क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् ।
इत्युक्तोऽक्षयमस्त्ररक्षिततनुं योऽरक्षदापद्गणाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वसनं
यन्नामामृतपूरणं च पिबतां सन्तापसंहारकम् ।
पाषाणश्च यदङ्घ्रितो निजवधूरूपं मुनेराप्तवान्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥
यन्नाम श्रुतिमात्रतोऽपरिमितं संसारवारान्निधिं
त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् ।
तन्नैवाद्भुतकारणं त्रिजगतां नाथस्य दासोस्म्यहम्-
आर्तत्राणपरायणः त्राणपरायणःस भगवान्नारायणो मे गतिः ॥ ६॥
पित्रा भ्रातरमुत्तमाङ्कगमितं भक्तोत्तमं यो ध्रुवं
दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्राऽवमानं गतम् ।
योदात्तं शरणागतं तु तपसा हेमाद्रिसिंहासनं
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥
नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका
जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः ।
भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्गति-
र्ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ८॥
क्षुत्तृष्णार्तसहस्रशिष्यसहितं दुर्वाससं क्षोभितं
द्रौपद्याभय भक्तियुक्तमनसा शाकं स्वहस्तार्पितम् ।
भुक्त्वाऽतर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ९॥
येनाराक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुज-
स्त्वायातं शरणं रघूत्तम विभो रक्षातुर मामिति ।
पौलस्त्येन विराकृतोऽथ सदसि भ्रात्रा च लङ्कापुरे
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १०॥
येनावाहि महाहवे वसुमती संवर्तकाले महा-
लीलाक्रोडवपुर्धरेण हरिणा नारायणेन स्वयम् ।
यःपापिद्रुमसम्प्रवर्तमचिराद्धत्त्वा च योगात् प्रियाम्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ११॥
योद्धासौ भुवनत्रये मधुपतिर्भर्ता नराणां बले
राधाया अकरोद्रते रतिमनःपूर्तिः सुरेन्द्रानुजः ।
यो वा रक्षति दीनपाण्डुतनयान्नाथेति भीतिं गतान्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १२॥
यःसान्दीपिनिदेशतश्च तनयं लोकान्तरात्सन्नतं
चानीय प्रतिपाद्य पुत्रमरणादुज्जृम्भमाणार्तये ।
सन्तोषं जनयन्नमेयमहिमा पुत्रार्थसम्पादनाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १३॥
यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः
प्राणान्मुक्तिमशेषितामनु च यः पापौधदावातियुक् ।
सद्यो भागवतोत्तमात्मनिमतिं प्रापाम्बरीषाभिध-
श्चार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १४॥
योरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं
दीनासनचकोरपालनपरः श्रीशङ्खचक्रोज्ज्वलः ।
तज्जीर्णाम्बरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १५॥
यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते
यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः ।
यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसविद्भानुमान्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १६॥
कालिन्दीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले
चन्द्राम्भोजवटे पुटे परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमान्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १७॥
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणाद्-
औदार्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यःश्रीपतिरेवसर्वजगतामेते हि तत्साक्षिण-
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १८॥
इति श्रीमच्छङ्कराचार्यविरचितमार्तत्राणपरायण-
नारायणाष्टादशकं सम्पूर्णम् ॥
Proofread by Nat Natarajan, NA