सुदर्शनोपनिषत्
यज्ञोपवीती धृतचक्रधारी यो ब्राह्मणो ब्रह्मविद्ब्रह्मविदां मनीषी
हिरण्यमादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्रीशूद्रैर्बाहुभ्यां
धारयेत् । तस्माद्गर्भेण जायते । ब्राह्मणस्य शरीरं जायते ।
श्रीविष्णुं सर्वेश्वरं भजन्ति ॥
नासादिकेशपर्यन्तमूर्ध्वपुड्रं तु धाग्येत् ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
भूमिर्धेनुर्धरणी लोकधारिणी ॥
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥
तस्माद्द्विरेखं भवति । तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा
चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् ।
आचार्यस्य सम्मुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं
सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति । य एवं वेद । इत्युपनिषत् (९)
``यज्ञोपवीतोपनिषत्'' इत्याख्यया या पूर्वं प्रकाशिता
सैवेयमेतदवधीति विभाव्यताम् ।
Footnote
यजुर्वेदे तृतीयकाण्डे तृतीयप्रश्ने -
``कक्षमुपौषेद्यदि दहति पुण्यसमं भवति
यदि न दहति पापसममेतेन''। उष दाहे । उपकक्षं भुजः ।
``चरणं पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूताः । अतिपाप्मानमरातिं तरेम । लोकस्य
द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमान महस्वत् । अमृतस्य
धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु'' ।
``पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत ।''
यो ह वै सुश्लोकमौले धर्माननुतिष्ठमानोऽग्निना चक्रं योऽग्निर्वै
सहस्रारस्सहस्रारो नेमिर्नेमिना तप्ततनूस्सायुज्यं सलोकतामाप्नोतीति ॥
चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममृतस्य विष्णोः ।
स एति नाकं दुरिता विधूय विशन्ति यद्यतयो वीतरागाः ॥
चमूषच्छ्येनश्शकुनो बिभृत्वा गोविन्दद्रप्स आयुधानि बिभ्रत् (?) ।
अपामूर्मिं सचमानस्समुद्रं तुरीयं घाम महिषो विवक्ति (?) ॥
शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः ।
तदीयाराधनं चैव भक्तिर्बहुविधा स्मृता ॥
पशुपुत्रादिकं सर्वं गृहोपकरणानि च ।
अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् ॥
पशुर्मनुप्यः पक्षी वा ये च वैष्णवसंश्रयाः ।
तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ॥
ये कण्ठलयतुलसीनलिनाक्षमाला
ये बाहुमूलपरिचिह्नितशङ्खचक्रा ।
ये वा ललाटफलके लसदूर्ध्वपुण्ड्राः
श्रीवैष्णवा भुवनमाशु पवित्रयन्ति ॥
पञ्चार्द्रतत्त्वविदुषां पञ्चसंस्कारसंस्कृतम् ।
पञ्चावस्थास्वरूपं ते विज्ञेयं सततं विभो ॥
पञ्चसंस्कारयुक्तानां वैष्णवानां विशेषतः ।
गृहार्चनविधाने न शङ्खं घण्टारवं त्यजेत् । इति ।
एतदथर्वशिरो योऽधीते य ऊर्ध्वपुण्ड्रं विधिवद्विदित्वा धारयति
स वैदिको भवति । स कर्मार्हो भवति । अनेन तेजस्वी यशस्वी
ब्रह्मवर्चस्वी भवति । अनेक कायिकवाचिकमानसपातकेभ्यः पूतो भवति ।
श्रीविष्णुसायुज्यमवाप्नोति । श्रीविष्णुसायुज्यमवाप्नोति । य एवं वेद ।
इत्युपनिषत् ॥
(वैष्णव-उपनिषदः)
इति सुदर्शनोपनिषत् समाप्त ।
Proofread by Kasturi navya sahiti