श्रीविद्यार्यास्तोत्रम्
ॐ श्रीगणेशाय नमः ।
कामितकल्पतरुभ्यः कुर्मः प्रणतिं कुमारनामभ्यः ।
कुलगिरिजाकुतुकेभ्यः केभ्यश्चित्केकिराजकेतुभ्यः ॥ १॥
अस्तु मनस्तुष्टयै मे वस्तु मुनिस्तुत्यमस्तमिततूस्तम् ।
ध्वस्तसमस्तसपत्नं हस्तलसच्छक्ति निस्तुलैश्वर्यम् ॥ २॥
एकं प्रशमितशोकं श्रीकण्ठस्याश्रये त्रियं तोकम् ।
आकम्पितरिपुलोकं मा कञ्चन लेखमन्यमविवेकम् ॥ ३॥
ईक्षामहे कदाग्रे साक्षाल्लाक्षाझरीसदृक्षाभम् ।
रूक्षासुरकुलशिक्षादीक्षाधरमक्षयोक्षरथभाग्यम् । ४॥
लम्बोदरसहजेभ्यो बिम्बोकेभ्यो ब्रुवे नमोवाकम् ।
बिम्बोपमाधरेभ्यः कम्बोरातङ्कदायिकण्ठेभ्यः ॥ ५॥
अर्भकमद्भुतमेकं निर्भरमन्तर्भजामि भव्यार्थम् ।
यो हि गिरीशात्मभवो भजति गिरीशात्मजात्मभवभावम् ॥ ६॥
हन्त निरन्तरमन्तः सन्तनु देवं तमापदन्तकरम् ।
किं तपसान्येन फलं चिन्तयतामन्तकान्तकतनूजम् ॥ ७॥
राकाशशधरसुषमानीकाशमृदुस्मितार्द्रमुखकमलम् ।
श्रीकान्तभागिनेयं शोकान्तकरं भजेऽहमेकान्तम् ॥ ८॥
ईडे हृतभवपाशं सुरपृतनेशं कृतासुरविनाशम् ।
उद्धतराजसदेशं वेशं वेशं वृथैवमानेशम् ॥ ९॥
मनसा वचसा शिरसा चिन्तय सङ्कीर्तयानम कुमारम् ।
झटिति स विमतान्हत्वा भगवान्कुर्यादभीष्टघटनां ते ॥ १०॥
हरिहयमुख्यसुराणामरिभयशान्तिप्रदाननिष्णातः ।
गिरितनयाऽऽत्मभवो मां भरितदयापाङ्गगोचरीकुर्यात् । ११।
अभिमतफलदो देवैरभिनुतमहिमा ममास्तु स कुमारः ।
यस्य शिखी जिष्णुर्भजति प्रकृतित्वमपि च पत्रत्वम् ॥ १२॥
स जयति विचित्रचरित्रः शाक्तीकाग्रेसरो महावीरः ।
शंसन्ति यं महान्तः पुत्रं च पतिं च देववाहिन्याः ॥ १३॥
अमरनिरामयकन्दं समरपराभृतशक्ररिपुवृन्दम् ।
भ्रमरमिवाध्यरविन्दं श्रमरहितं कुरुत चेतसि स्कन्दम् ॥ १४॥
काञ्चन कौतुकलहरीं क्रौञ्चनगच्छेदिनीं पनीपद्ये ।
काञ्चनमणिगणविलसत्काञ्चिकया लाञ्छितामलदुकूलाम् ॥ १५॥
अवलोकयेऽन्तरनिशं शिवलोकस्यैकमुज्ज्वलाभरणम् ।
नवलोहितप्रकाशं भवलोपविधाननिपुणमग्निभुवम् ॥ १६॥
हरतु रिपूनस्माकं शरवणजो भवतु चेष्टसङ्घटकः ।
हरतु हिमाचलतनयानिरतिशयप्रेमरत्नसम्पुटकः । १७।
अरुणं निरवधिकरुणं शरणागतरक्षणे सजागरणम् ।
शरणं भजामि तरुणं हरिणाङ्काभरणहार्दपरिणामम् ॥ १८॥
ललिते वल्लीमिलिते लीयेमहि महसि बाहुलेयाख्ये ।
एकं यदपादानीचक्रे प्रकृतीस्तु षडपि जनिकर्तृ । १९॥
अरविन्दवैरिवदनं कुरुविन्दमदापहाररदनम् ।
शरदिन्दीवरनयनं स्मर वृन्दारकविरोधिनिर्मथनम् ॥ २०।
हस्ते यस्य सदाऽऽस्ते शक्तिर्या काचिदप्रतिमशक्तिः ।
भूभृद्भेदनचुञ्चुस्तं चुम्बतु मानसं चिराय मम । २१।
रमणीयाननषट्कं रभसविदीर्णासुरोत्करपृषत्कम् ।
भजतानतभरणोत्कं भगवन्तं कार्तिकेयमपकलकम् ॥ २२॥
ईशानात्मजमीडे क्लेशानन्तं नयेत्स मम सर्वान् ।
बन्धूकाभः सायंसन्ध्यासमयो यथातपोद्गारान् ॥ २३॥
मन्मथमथनतनूजे मन्मनसो रतिरनारतं भवतु ।
उन्मदखलजनभयदे सन्मतिराजीविनीदिनाधीशे ॥ २४॥
सहसा निहतसपत्ना महसां निधयो महामहानन्दाः ।
इह साम्राज्यमखण्डं गुह सानतयो जनाःप्रपद्यन्ते ॥ २५॥
अङ्गानम गाङ्गयं भङ्गाकटभङ्गदायकाङ्गाभम् ।
भृङ्गाभिरामकेशं शृङ्गाराद्वैतचारुमुखचन्द्रम् ॥ २६॥
कलये कपालिपुत्रं करुणापात्रं कलापिवरपत्रम् ।
कलिमलदारुलवित्रं कमलसुनेत्रं कलाधरसुवक्त्रम् ॥ २७॥
अस्मि निलीये तस्मिन् सुस्मितमुखसारसे सुराभयदे ।
असुरसमूहासुरसप्रसृमरतर्षप्रचण्डभुजभुजगे ॥ २८॥
लोकोत्तरमवलोके लोहितरुचि मनसि किमपि तद्धाम ।
शोकोत्तरलोऽपि जनो यत्स्मृतिमात्रेण भवति निर्वृतधीः ॥ २९॥
अनुपमसुषमशरीरं भजत कुमारं भवस्य सुकुमारम् ।
दनुजविनाशविहारं जलधिगभीरं जगद्धितविचारम् । ३०।
हतविमतावितलेखे निटिलतटश्रीनिरस्तशशिलेखे ।
मम रतिरस्तु विशाखे शमलतमस्समुदयाहिममयूखे । ३१।
रे मानस विसृजेमां सीमां शोकस्य तावदुद्दामाम् ।
कौमारं स्मर चरणं भूमानं भज सुखस्य चामानम् । ३२।
ईशात्पितुरतिशयितं पञ्चमुखात्षण्मुखं नमस्कुर्मः ।
योऽयमधःकुर्वाणो जयतितरां नीलकण्ठमुरगभुजम् ॥ ३३॥
महितदयाभरितमतिं विहितनतानन्दममितवीर्यनिधिम् ।
विमथितविमतसमूहं नमत महात्रिपुरसुन्दरीसूनुम् ॥ ३४॥
इति श्रीविद्यार्यास्तोत्रं सम्पूर्णम् ।
Entered by Sivakumar Thyagarajan
Proofread by Sivakumar Thyagarajan, PSA Easwaran