श्रीसुब्रह्मण्यस्तवः
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ कृत्तिकेशाय विद्महे । गाङ्गेयाय च धीमहि ।
तन्नः स्कन्दः प्रचोदयात् ॥
शैलजाभवपुत्राय विघ्नेश्वरानुजाय च ।
ज्ञानस्कन्दाय कन्दाय सुब्रह्मण्याय ते नमः ॥ १॥
षडाक्षरसुमन्त्राय षट्शत्रुपटदारिणे ।
षड्जाधारसुरागातिचारुगीताय ते नमः ॥ २॥
षडाचलनिवासाय षण्मुखाय सुखाय च ।
प्रणवार्थस्वरूपाय पितृबोधाय ते नमः ॥ ३॥
कृत्तिकाशुभताराय कृतिरत्नस्तुताय च ।
श्रीदीक्षितगुरुस्वामिकीर्तिताय नमो नमः ॥ ४॥
नारायणस्वसीयाय दिव्यलावण्यतेजसे ।
श्रीवल्लीदेवसेनासुकलत्राय नमो नमः ॥ ५॥
शिखिवाहनसौम्याय श्रीमद्गुरुगुहाय च ।
अज्ञानध्वान्तसूर्याय स्वामिनाथाय ते नमः ॥ ६॥
गुणातीतस्वरूपाय ज्ञानसत्फलदाय च ।
गुह्याकाराय साराय गुरवे ब्रह्मणे नमः ॥ ७॥
तामसासुरहाराय सत्त्वसत्यप्रकाशिने ।
आयुरारोग्यकाराय कुमाराय नमो नमः ॥ ८॥
त्यागराजगुरुस्वामिसत्कीर्तननुताय च ।
पुष्पवल्लीसुपालाय नादलोलाय ते नमः ॥ ९॥
मङ्गलं श्लोकनाथाय सोमस्कन्दाय मङ्गलम् ।
मङ्गलं ज्ञानदेवाय सुब्रह्मण्याय मङ्गलम् ॥ १०॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः
श्रीसुब्रह्मण्यस्तवः गुरौ समर्पितः ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan