शिवप्रोक्तं वैदिकशिवभक्तलक्षणानुवर्णनम्

शिवप्रोक्तं वैदिकशिवभक्तलक्षणानुवर्णनम्

- शिवपार्तवतीसंवादे - श्री सदाशिव उवाच - मदर्चनं च विविधं सद्यः सर्वाघनाशकम् । नित्याग्निहोत्रं दर्शश्च चातुर्मास्यं तथैव च ॥ ५२६॥ मदर्पणधिया कुर्युर्ज्येष्ठयज्ञं तथैव च । ते वैदिक इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५२७॥ वेदान्तश्रवणं नित्यं मननं च विशेषतः । कुर्युस्ते सदा विप्र सद्भक्ता इति कीर्त्यते ॥ ५२८॥ मदर्चनाधिकारोऽपि मद्भक्तस्यैव वस्तुतः । मद्भक्ताश्रितएवेति विज्ञेयं सततं बुधैः ॥ ५२९॥ ये वेदमार्गनिरताः स्वप्नेऽप्यन्यपराङ्मुखाः । वेदैः सर्वैरहं वेद्यो वेदान्तैरपि शैलजे ॥ ५३०॥ मदन्यो वेदवेदान्तवेद्यो नास्त्येव सर्वदा । मम तत्त्वमविज्ञाय वेदबाह्या भवन्त्यतः ॥ ५३७॥ भजन्ति वेदबाह्यास्ते मदन्यममरभ्रमात् । मदन्यपूजासंसक्ता लब्ध्वा जन्मान्यनेकशः ॥ ५३२॥ प्राप्नुवन्त्यतिघोराणि नरकाणि पुनः पुनः । वैदिकास्तु सदाचारा वेदोक्ताचारतत्पराः ॥ ५३३॥ भजन्ति मां प्रयत्नेन वेदान्यविमुखाः सदा । ये मां विश्वाधिकं रुद्रं भजन्त्यन्यपराङ्मुखाः ॥ ५३४॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एवं हि । ये भस्मोद्धूतसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः ॥ ५३५॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि । ये रुदाक्षलसत्कण्ठा रुद्राक्षकृतकङ्कणाः ॥ ५३६॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि । ये मल्लिङ्गार्चनासक्ता बिल्वपत्रादिभिः सदा ॥ ५३७॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि । ये मन्निरीक्षणासक्ताः सन्त्यक्तान्येक्षणाशयाः ॥ ५३८॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि । ये मत्पादोदपा नित्यमन्यतीर्थम्पराङ्मुखाः ॥ ५३९॥ ये मन्नैवेद्यपुष्टाङ्गा मद्घ्राताऽऽघ्राणनप्रियाः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४०॥ ये मद्भक्तार्चनसंसक्ता मद्भक्तान्यपराङ्मुखाः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४१॥ ये मत्क्षेत्रकृतावासास्त्यक्तान्यक्षेत्रसंश्रयाः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४२॥ ये नक्तभोजिनो नित्यं सर्वदा सोमवासरे । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४३॥ ये नित्य(कृष्णचतुर्दश्यां)कृष्णभूतायामुपोषणपराः सदा । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४४॥ ये महेश महादेव नीलकण्ठेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४५॥ ये शूलपाणे खट्वाङ्गिन्कृत्तिवासेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४६॥ ये देवोत्तम देवेश वेदवेद्येति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४७॥ ये विष्णुपूज्य विश्वात्मन्विधिपूज्येति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४८॥ ये मृत्युञ्जयेश कामारे त्रिपुरघ्नेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५४९॥ ये विष्णुविधिचन्द्रेन्द्रविद्यादातेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५५०॥ ये सर्वज्ञाऽखिलाधार हर धीरेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ ५५१॥ एतादृशा महाशैवा रुद्रैकपरदैवताः । मद्भक्ता इति विज्ञेया वेदमार्गरताः सदा ॥ ५५२॥ शिवे सुराणां मर्त्यानां मद्भक्तिर्मदनुग्रहात् । भवत्यनन्यया भक्त्या मामेवाभ्युपयन्ति ते ॥ ५५३॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं वैदिकशिवभक्तलक्षणानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ५२६-५५३॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 526-553 .. Notes: Śiva शिव details to Gaurī गौरी about the significations of His Devotees who are engaged in His Worship is several ways that constitute The Way of The Veda-s, viz. Vaidika-mārga वैदिकमार्ग. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Vaidikashivabhaktalakshananuvarnanam
% File name             : vaidikashivabhaktalakShaNAnuvarNanam.itx
% itxtitle              : vaidikashivabhaktalakShaNAnuvarNanaM (shivarahasyAntargatam)
% engtitle              : vaidikashivabhaktalakShaNAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 526-553||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org