स्कन्दप्रोक्तं सोमरुद्रार्चनमहत्त्वम्
उमया सहितो देवः सोम इत्यभिधीयते ।
उमा ज्ञानमयी शक्तिः सैव विद्येति गीयते ॥ १३५॥
विद्याः सर्वा उमारूपा विद्यानामीश्वरः शिवः ।
विष्णुब्रह्मादिदेवानां प्रभुः साम्बः सदाशिवः ॥ १३६॥
रुद्रपिण्डसमुत्पन्ना ब्राह्मणा रुद्रदेवताः ।
ततः कार्यं द्विजैनित्यं श्रीरुद्रस्यैव पूजनम् ॥ १३७॥
देवाश्च ब्राह्मणोत्पन्नाः शिवान्या ब्राह्मणाः सुराः ।
ततो देवैश्च कर्तव्यं रुद्रस्यैव हि पूजनम् ॥ १३८॥
विश्वाधिको ऋषी रुद्रो महान्यद्यपि स स्वयम् ।
तथापि नित्योऽजन्यत्वाद्भावज्ञानात्मकः स्वयम् ॥ १३९॥
स्वाधिकः पूज्यते लोके पूजा च स्वाधिके मता ।
स्वतोऽधमे च तुल्ये वा पूजा नैव विधीयते ॥ १४०॥
न शिवादधिको यस्माद्विश्वाधिक इति श्रुतः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १४१॥
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ।
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ॥ १४२॥
उतामृतत्त्वस्येशान्नो यदन्नेनातिरोहति ।
एतावानस्य महिमा अतोज्यायांश्च पुरुषः ॥ १४३॥
पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि ।
त्रिपादूर्ध्व उदैत्पुरुषो देवदेवोत्तोमोत्तमः ॥ १४४॥
पुरुषो वैरुद्र (इत्येव) श्रुतिरेषा यतो मता ।
यो रुद्रोऽग्नावप्सु रुद्रो यो रुद्रस्त्वोषधीष्वपि ॥ १४५॥
यो विश्वा भुवनान्येको विवेश स परात्परः ।
विश्वं भूतं च भुवनं चित्रं च बहुधा तु यत् ॥ १४६॥
तज्जातं जायमानं च रुद्राद्रुद्रात्मकं विदुः ।
ऋचो यजूंषि सामानि रुद्रादेव हि जज्ञिरे ॥ १४७॥
छन्दांसि जज्ञिरे रुद्राज्जज्ञिरे विविधाः प्रजाः ।
सोमो मत्तानां जनिता सोमो हि जनिता दिवः ॥ १४८॥
सशैलायाः पृथिव्याश्च जनिता सोम एव हि ।
अग्नेश्च जनिता सोमो नान्यस्य जनिता ध्रुवम् ॥ १४९॥
सूर्याणां जनिता सोमो द्वादशानामपि प्रभुः ।
चन्द्रस्य जनिता सोमः कलानां जनिता तथा ॥ १५०॥
रुद्रस्य जनिता सोमो यमस्य वरुणस्य च ।
विष्णोश्च जनिता सोमो ब्रह्मणः पवनस्य च ॥ १५१॥
नदीनां जनितां सोमः समुद्राणामपि प्रभुः ।
मनसो जनिता सोमः स्कन्दंस्य गणपस्य च ॥ १५२॥
आकाशस्यापि जनिता चौषधीनामपामपि ।
ब्रह्मणो रुद्रमभ्यर्च्यमनभ्यर्च्य तु यो भ्रमात् ॥ १५३॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं सोमरुद्रार्चनमहत्त्वं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १४ । १३५-१५३॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 14 . 135-153 ..
Encoded and proofread by Ruma Dewan