शतर्चनकृता शिवस्तुतिः
(शिवरहस्यान्तर्गते)
शतर्चन उवाच -
श्रीमन्महेशविभवे वृषभध्वजाय
ध्वस्तान्धकाय मकरध्वजदाहकाय ।
दम्भापहाय गरुडध्वजपूजिताय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४८९॥
पाशापहाय पशुपाशविमोचकाय
पञ्चाननाय परमाद्भुतविक्रमाय ।
पाराय पालितसुरासुरमानवाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९०॥
मायापहाय मकरन्दरसापहाय
मानप्रदाय मधुराय महेश्वराय ।
मानातिगाय मदमोहविवर्जिताय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९१॥
मुक्तिप्रदाय मुनिमानसमन्दिराय
मुक्ताकलापकलितामलकुन्तलाय ।
मुग्धाननाय मुदिताय मुकुन्दगाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९२॥
सर्वोत्तमाय सकलाय समाश्रयाय
सर्गस्थितिप्रलयकारणकारणाय ।
सत्यप्रियाय सरसाय समङ्गलाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९३॥
भद्राय भव्यविभवाय भवौषधाय
भस्मप्रभासमभिभावितभूषणाय ।
अर्केन्दुवह्निनयनाय गणप्रियाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९४॥
भव्याय भव्यभगनेत्रविदारकाय
भाग्यास्पदाय भवतापविनाशकाय ।
भक्ताभिवाञ्छितविचित्रफलप्रदाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९५॥
भोगीन्द्रेभोगिमणिराजितकन्धराय
भोगस्फुरन्मरकतोज्जवलकुण्डलाय ।
भोगानुयोगविकसन्मकुटप्रभाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९६॥
भूताधिपाय भुजगाधिपकङ्कणाय
भूतप्रियाय भुवनस्थितिकारणाय ।
भूभूधरप्रभृतिभूतगणोदराय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९७॥
दिव्याय दिव्यचरिताय दिगम्बराय
दिव्याम्बराय दितिजानलशामकाय ।
दीनार्तिहाय दिननाथनिषेविताय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९८॥
सोमाय सोमरुचिरञ्जितशेखराय
सोमाग्निभानुविततामललोचनाय ।
सोपेन्द्रचन्द्रविधिवन्दितपादुकाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ४९९॥
कालान्तकाय कमनीयजटाधराय
कालाय कालविजयाय कलाधराय ।
कल्याणदाय कनकाचलकार्मुकाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५००॥
पुण्याय पुण्यहृदयाय पुरातनाय
पूताय पूतजनचिन्तितसत्क्रियाय ।
पुण्यप्रियाय पुरकाननपावकाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०१॥
विश्वाधिकाय विधिविष्णुविधारकाय
वित्ताधिपाय विबुधाबुधसर्जकाय ।
विस्तारदाय विजयाय विशोधकाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०२॥
नित्याय नित्यनिरवद्यगुणोज्ज्वलाय
नीतिप्रदाय नियताय निवृत्तिदाय ।
नीहारशैलनिलयाय नियामकाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०३॥
निर्धर्मकाय निगमागमनिश्चिताय
निर्णीतवस्तुनिचयाय निरामयाय ।
निर्धूतपातकहिताय निरञ्जनाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०४॥
मृत्युञ्जयाय मृतिकालविवर्जिताय
मृद्धेमरत्नरजताकरवृद्धिकाय ।
मृल्लिङ्गपूजकमनोरथपूरकाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०५॥
गानप्रियाय गतिर्नृत्तविशारदाय
गाथामयाय गजकृत्तिवरच्छदाय ।
गम्यागमाय गगनाङ्गणनर्तकाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०६॥
दान्ताय दाननिपुणाय दयामयाय
दारिद्र्यदुःखविपिनैकदवानलाय ।
दानाय दानरहिताय दवप्रियाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०७॥
यज्ञाय यज्ञपुरुषाय यशोमयाय
यज्ञादिकर्मफलदाय यतिप्रियाय ।
यज्ञप्रियाय यजनादियताश्रयाय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०८॥
श्रीविष्णुनेत्रकमलार्चितपादुकाय
श्रीसेविताद्रितनयातनुसंयुताय ।
श्रीभूरुहारुणनवच्छदपूजिताय
भालेक्षणाय भगवन्सततं नमस्ते ॥ ५०९॥
- -
कश्यप उवाच -
इति स्तुत्वा महादेवं तं प्रणम्य शतर्चनः ।
भूयो रुद्रेण तुष्टाव सूक्तैरन्यैश्च शाम्भवैः ॥ ५१०॥
ततः शिवप्रसादेन जीवन्मुक्तः शतर्चनः ।
पुनः कर्तुं समारेभे तपो घोरतरं मुने ॥ ५११॥
॥ इति शिवरहस्यान्तर्गते शतर्चनकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ४८९-५११॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 489-511 ..
Notes:
Śatarcana शतर्चन eulogizes Śiva शिव, as a result of which Śiva शिव renders him Jīvanamukta जीवनमुक्त.
The Śatarcanakṛtā Śivastutyāntargate ŚivaNāmāvaliḥ शतर्चनकृता शिवस्तुत्यान्तर्गते शिवनामावलिः that has been derived from this Stuti स्तुतिः can be referred to from the link given below.
Encoded and proofread by Ruma Dewan