शैवप्रोक्तः शिवस्तवः

शैवप्रोक्तः शिवस्तवः

सर्वोपनिषदामीशः परमात्मा सदाशिवः । य एको भगवानीश ईशानीभिः समीशते ॥ १७१॥ सर्वांल्लोकानीशते य ईशानीभिः समीयते । उद्भवे सम्भवे चैव एक एव शिवः प्रभुः ॥ १७२॥ य एवं विदुरीशानमसृतास्ते भवन्ति हि । एक एव हि रुद्रोऽयं न द्वितीयोऽयमीश्वरः ॥ १७३॥ पाति हन्ति पुनः सृष्ट्वा पाति हन्ति पुनः पुनः । विश्वतश्चक्षुरीशानो विश्वतोऽन्तर्मुखः शिवः ॥ १७४॥ विश्वतोबाहुरनधो विश्वतस्पान्महेश्वरः । द्यावाभूमी जनयन्नेक एव सदाशिवः ॥ १७५॥ स बाहुभ्यां सम्पतत्रैर्धमत्येव पुनः पुनः । प्रभवश्चोद्भवश्चासीद्रुद्रो विश्वाधिको ऋषिः ॥ १७६॥ ब्रह्मविष्ण्वीशदेवानां यः स एव सदाशिवः । हिरण्यगर्भमेवादौ जनयामास शङ्करः ॥ १७७॥ विष्णुं च जनयामास तस्माद्विष्णोः परः शिवः । ततश्चेन्द्रमुखान्देवाञ्जनयामास शङ्करः ॥ १७८॥ ततो भूमिं ततो वायुं ततो गगनमीश्वरः । ततो नानाविधाञ्जीवान्ससर्जोमामहेश्वरः ॥ १७९॥ ततः समुद्रान्सरितो गिरीनप्योषधीन्परः । य एव निष्कलः शान्तो निरवद्यो निरञ्जनः ॥ १८०॥ स एवोमासमेतः सन्सृजत्यवति हन्ति च । ततः परं ब्रह्म वरं बृहन्तं साम्बमेव हि ॥ १८१॥ यथा निकायं भूतेषु गूढं सर्वेषु सर्वदा । एक एव हि रुद्रोऽयं विश्वस्य परिवेष्टिता ॥ १८२॥ ज्ञात्वा तमीशममृता भवन्त्येव सदाशिवम् । महान्तमेतं पुरुषं परस्तात्तमसः परम् ॥ १८३॥ आदित्यवर्णं वेदाश्च न जानन्त्येव शङ्करम् । शिवमेव विदित्वाति मृत्युर्नैति तमात्मवान् ॥ १८४॥ न विद्यतेऽयनाय स्याच्चान्यः प्रन्थाः शिवं विना । तस्मात्परं नास्ति परं शिवात्सर्वोत्तमोत्तमः ॥ १८५॥ नास्ति कश्चिच्छिवाज्ज्यायानणीयोऽतस्तमर्चयेत् । तेन पूर्णमिदं सर्वं पुरुषेण शिवेन हि ॥ १८६॥ ततो यदुत्तरतरं तदरूपमनामयम् । य एनं विदुरीशानममृतास्ते भवन्ति हि ॥ १८७॥ दुःखमेवाभियान्त्यत्ये शिवध्यानपराङ्मुखाः । सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ १८८॥ सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः । महान्प्रभुर्वै पुरुषः सत्त्वस्यैकः प्रवर्तकः ॥ १८९॥ सुनिर्मलमिदं शान्तमीशानो ज्योतिरव्ययः । अन्तरात्माङ्गुष्ठमात्रः पुरूषोऽयं सदाशिवः ॥ १९०॥ साम्बो जनानां हृदये सन्निविष्टो निरन्तरम् । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ १९१॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ १९२॥ सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् । नवद्वारे पुरे देहे हंसो लीलाययते बहिः ॥ १९३॥ वशी सर्वस्यभूतस्य स्थावरस्य चरस्य च ॥ १९४॥ अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श‍ृणोत्यकर्णः । स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९५॥ अणोरणीयान्महतोमहीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ १९६॥ वेदाहमेतमजरं पुराणं सर्वात्मना सर्वगतं विभुत्वात् । जन्मनिरोधं प्रवदन्ति यस्य यद्ब्रह्मवादिनो प्रवदन्ति नित्यम् ॥ १९७॥ एकवर्णः शक्तियोगादनेको बहुधा शिवः । वर्णाननेकानुमया ग्रहीताथो ददाति हि ॥ १९८॥ विचैति चान्ते विश्वात्मा विश्वमादौ स शङ्करः । संयुनक्तु स नो बुध्या शुभया देवतोत्तमः ॥ १९९॥ स्त्रीरूपः पुरुषाकारः सर्वाकारः सदाशिवः । कुमारात्मा कुमार्यात्मा सर्वात्मा विश्वतोमुखः ॥ २००॥ नीलो गौरश्च हरितो लोहिताक्षः सदाशिवः । निर्मलो नियतो यन्ता निरवद्यो निराकृतिः ॥ २०१॥ छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यश्च वेदा वदन्ति । तस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्ये मायया सन्निरुद्धाः ॥ २०२॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ २०३॥ यो वै योनिमधितिष्ठत्येको यस्मिन्निदं सं च विवैति सर्वम् । तमीशानं वरदं देवमीड्यं विचार्येमां शान्तिमत्यन्तमेति ॥ २०४॥ यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भं जनयामास जायमानं जायमानं च पश्यतः ॥ २०५॥ विष्णुं च जनयामास जायमानं च पश्यतः । इन्द्रं च जनयामास जायमानं च पश्यतः ॥ २०६॥ वह्निं च जनयामास जायमानं च पश्यतः । वरुणं च जनयामास जायमानं च पश्यतः ॥ २०७॥ यमं च जनयामास जायमानं च पश्यतः । लोकांश्च जनयामास जायमानांश्च पश्यतः ॥ २०८॥ ईदृशः सर्वगोप्ता स शोभनया बुद्धया शङ्करः संयुनक्तु । यो देवानामधिपो यस्मिन्देवा अधिश्रिताः । स एवसर्वदेवेशः शङ्करः परमा गतिः ॥ २०९॥ यस्मिन्सदाशिवो देवाः द्विपदश्च चतुष्पदः । तस्मै देवाय हविषा शङ्करायामितात्मने ॥ २१०॥ सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारं तमनेकरूपम् । विश्वस्येशं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ २११॥ स एव कालो भुवमस्य गोप्ता विश्वाधिकः सर्वभूतेषु गूढः । यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तं विज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ २१२॥ श‍ृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैवं परिवेष्टितारं ईशं ज्ञात्वा मुच्यते सर्वपाशैः ॥ २१३॥ य एव देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसाभिक्लृप्तो य एवं विदुरमृतास्ते भवन्ति ॥ २१४॥ यदा समस्तं न दिवा न रात्रिर्नसन्न चासन् शिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृतां पुराणी ॥ २१५॥ न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च नैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एवं विदुरमृतास्ते भवन्ति ॥ २१६॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा भान्ति विद्युतः कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ २१७॥ एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले सन्निविष्टः । तमेवं विदित्वा अतिमृत्युमेति नान्यो हेतुर्विद्यतेऽयनाय ॥ २१८॥ नातः परं वेद्यमचिन्त्यरूपं शिवाच्च साम्बादद्वयादवैमि । शिवात्मकं यच्च समस्तमेतच्छिवान्न किञ्चिद्व्यतिरिक्तमस्ति ॥ २१९॥ अविज्ञाय महादेवमचिन्त्यविभवं शिवम् । अमरा अपि मुह्यन्ति किमन्ये मनुजाधमाः ॥ २२०॥ अवमान्य तमेवेशं निरयं यान्ति दुर्जनाः । सम्मानयित्वा तं देवं प्रयान्ति परमं पदम् ॥ २२१॥ ॥ इति शिवरहस्यान्तर्गते शैवप्रोक्तः शिवस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १४ । १७१-२२१॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 14 . 171-221 .. Encoded and proofread by Ruma Dewan
% Text title            : Shaivaproktam Shiva Stava
% File name             : shivastavaHshaivaproktaH.itx
% itxtitle              : shivastavaH shaivaproktaH (shivarahasyAntargataH)
% engtitle              : shivastavaH shaivaproktaH
% Category              : shiva, shivarahasya, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 14 | 171-221||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org