शिवप्रोक्तं शिवपूजाफलानुग्रहवर्णनम्

शिवप्रोक्तं शिवपूजाफलानुग्रहवर्णनम्

(शिवगौरीसंवादे) श्रीशिव उवाच - ततोऽर्च्यस्य महेशस्य पूजा कार्या ममैव हि । मदर्चनपरो नित्यं यस्त्रिकालं भविष्यति ॥ ६७॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । भस्मोद्धूलनसंसक्तो यस्त्रिकालं भविष्यति ॥ ६८॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । त्रिपुण्ड्रधारणासक्तो यस्त्रिकालं भविष्यति ॥ ६९॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पञ्चाक्षरजपासक्तो यस्त्रिकालं भविष्यति ॥ ७०॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मदेकशरणो नित्यं यो मामभ्यर्चयिष्यति ॥ ७१॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मत्कथाश्रवणासक्तो मन्मना यो भविष्यति ॥ ७२॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मद्भक्तया सन्ततं युक्तो यो मद्याजी भविष्यति ॥ ७३॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मामेव सततं ध्यात्वा यस्तु हृष्टो भविष्यति ॥ ७४॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । रुद्राध्यायेन सततं यो मां संस्नापयिष्यति ॥ ७५॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । बिल्वपत्रैस्त्रिशाखैर्मां यो नित्यं पूजयिष्यति ॥ ७६॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । अर्चयिष्यति यो नित्यमखण्डैः शालित्तण्डुलैः ॥ ७७॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यस्तु नित्यं तिलैः कृष्णैः श्वेतैर्वा पूजयिष्यति ॥ ७८॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यवैर्यः सततं भक्तया पूजयिष्यति मामजम् ॥ ७९॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । गोधूमैर्वैणकर्माषैर्यो मामभ्यर्चयिष्यति ॥ ८०॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । असितैर्वा सितैर्वा मां सिद्धार्थैर्योऽर्चयिष्यति ॥ ८१॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नीवारतण्डुलैः साग्रैर्योमामभ्यर्चयिष्यति ॥ ८२॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । श्यामाङ्कतण्डुलैनित्यं यो मामभ्यर्चयिष्यति ॥ ८३॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । विविधैमल्लिकापुष्पैर्यो मामभ्यर्चयिष्यति ॥ ८४॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । प्रियङ्गुतण्डुलैनित्यं यो मामभ्यर्चयिष्यति ॥ ८५॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । रत्नैर्मुक्ताफलैर्यो मां शिवमभ्यर्चयिष्यति ॥ ८६॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नित्यं सुवर्णपुष्पैर्मा योऽर्चयिष्यति भक्तितः ॥ ८७॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नित्यं चम्पकपुष्पैर्मां योऽर्चयिष्यति सादरम् ॥ ८८॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नित्यं कुशेशयैर्यो मां शिवमभ्यर्चयिष्यति ॥ ८९॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कमलैरमलैर्भक्त्या यो मामभ्यर्चयिष्यति ॥ ९०॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नीलोत्पलैः पुण्डरीकैर्यो मामभ्यर्चयिष्यति ॥ ९१॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कल्हारैः परया भक्तया यो मामभ्यर्चयिष्यति ॥ ९२॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पुन्नागैः सततं भक्तया यो मामभ्यर्चयिष्यति ॥ ९३॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । शतपत्रैरनर्घ्यैर्मा योऽर्चयिष्यति सादरम् ॥ ९४॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कदम्बपुष्पैरमलैर्यो मामभ्यर्चयिष्यति ॥ ९५॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नागचम्पकपुष्पैर्मां योऽर्चयिष्यति सादरम् ॥ ९६॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । सितासितैः पारिजातैः यो मामभ्यर्चयिष्यति ॥ ९७॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । अर्चयिष्यति मां यस्तु करवीरैः सितासितैः ॥ ९८॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । धुत्तूरकुसुमैः शुद्धैर्योऽर्चयिष्यति मां विभुम् ॥ ९९॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । विविधैरर्कपुष्पैर्मां योऽर्चयिष्यति भक्तितः ॥ १००॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । द्रोणपुष्पैः शमीपुष्पैर्योऽर्चयिष्यति सादरम् ॥ १०१॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यस्तु दाडिमपुष्पैर्मां साम्बमभ्यर्चयिष्यति ॥ १०२॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नित्यमर्जुनपुष्पैर्मां योऽर्चयिष्यति सादरम् ॥ १०३॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यस्तु कन्दलपुष्पैर्मामर्चयिष्यति सादरम् ॥ १०४॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यो विष्णुक्रान्तकुसुमैर्नित्यमभ्यर्चयिष्यति ॥ १०५॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यो नित्यं बृहतीपुष्पैर्मामीशं पूजयिष्यति ॥ १०६॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । जम्बूपुष्पैराम्रपुष्पैर्यो मामभ्यर्चयिष्यति ॥ १०७॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यस्तु वेतसपुष्पैर्मां सादरं पूजयिष्यति ॥ १०८॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कुशपुष्पैः काशपुष्पैर्यो मामभ्यर्चयिष्यति ॥ १०९॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । बन्धूकपुष्पैरमलैर्यो मामभ्यर्चयिष्यति ॥ ११०॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पलाशपुष्पैरमलैर्योऽर्चयिष्यति सादरम् ॥ १११॥ तमुर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यो लोध्रपुष्पैरमलैरर्चयिष्यति मामजम् ॥ ११२॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । जम्ब्वाम्रतुलसीपत्रैर्योऽर्चयिष्यति सादरम् ॥ ११३॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नारिकेलफलैर्यस्तु मामर्चयति सादरम् ॥ ११४॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पूजयिष्यति यो भक्त्या नित्यं दमनकेन माम् ॥ ११५॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पूजयिष्यति मां यस्तु जम्ब्वाम्रबदरीफलैः ॥ ११६॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यो मां द्राक्षाफलैरीशम्मर्चयिष्यति सादरम् ॥ ११७॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पूजयिष्यति यो भक्त्या मां पक्वैः कदलीफलैः ॥ ११८॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पक्वैश्च दाडिमैः शुद्धैर्योऽर्चयिष्यति सादरम् ॥ ११९॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । दूर्वाऽपामार्गदर्भैर्मां भक्त्या योऽभ्यर्चयिष्यति ॥ १२०॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । भृङ्गराजशमीपत्रैर्यो मामभ्यर्चयिष्यति ॥ १२१॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मदालये दीपमालां यस्तु नित्यं करिष्यति ॥ १२२॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कर्पूरदीपदो यस्तु मह्यं भक्तया भविष्यति ॥ १२३॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । साज्यगुग्गुलुधूपेन यो मां सन्धूपयिष्यति ॥ १२४॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यः साज्यागरुधूपेन नित्यं मां पयिष्यति ॥ १२५॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवपूजाफलानुग्रहवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १७ । ६७-१२५॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 17 . 67-125 .. Notes: Śiva शिव further details to Pārvatī पार्वती about the means and procedures of conducting Śiva Pūjā शिव पूजा with various articles that can be offered to Him. He tells Her that He wishes to lead the worshipper higher as a result of the same. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Shivapujaphalanugrahavarnanam
% File name             : shivapUjAphalAnugrahavarNanamshivaproktaM.itx
% itxtitle              : shivapUjAphalAnugrahavarNanam shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivapUjAphalAnugrahavarNanam shivaproktaM
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 17 | 67-125||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org