सदाशिवप्रोक्तं शिवपूजामहिमोपदेशम्
पार्वत्युवाच -
महेश देवदेवेश तव पूजनमन्वहम् ।
कथं कार्यं साधनानि कानि शम्भो तवार्चने ॥ १॥
श्रीशिव उवाच -
नन्दिकेशः पुरा देवि मामभ्यर्च्य प्रयत्नतः ।
पूजाविधानं पप्रच्छ ममैव परमात्मनः ॥ २॥
(नन्दिकेश उवाच)
गौरीवल्लभ देवेश सर्वज्ञ करुणानिधे ।
शिवपूजाविधानं मे निरूपय कृपानिधे ॥ ३॥
शिवस्य पूजनात्पूर्वं कि कर्तव्यं प्रयत्नतः ।
शिवपूजाविधानानि कानि पापहराणि च ॥ ४॥
कीदृशः शिवपूजायामधिकारी महेश्वर ।
कीदृशेन कृता पूजा तव प्रियकरा विभो ॥ ५॥
कथं ध्येयोऽसि भगवन्पूजनीयः कथं भवान् ।
कथं वा पूजितो मोक्षं प्रयच्छसि सदाशिव ॥ ६॥
सदाशिव उवाच -
साधु साधु गणश्रेष्ठ प्रश्नोऽयं शुभदस्तव ।
वक्ष्ये पूजाविधि सम्यक् शृणु सर्वार्थसाधनम् ॥ ७॥
मह्यं विधाय यां पूजां मद्भक्तो मत्परायणः ।
मुच्यते सर्वपापेभ्यः सेयं पूजा मयोच्यते ॥ ८॥
पूज्योऽहमेव देवेभ्यः सर्वेभ्यो देवपुङ्गवः ।
सर्वोत्कर्षेण पूज्योऽहं सर्वेभ्योऽप्युत्तमोत्तमः ॥ ९॥
देवाधिदेवं विश्वेशं महादेवं जगत्प्रभुम् ।
सर्वोत्कर्षेण सम्पूज्य मुच्यते सर्वकिल्बिषैः ॥ १०॥
यो नित्यं शिवपूजायां निरतः शिवतत्परः ।
स विष्णुमुख्यैरमरैः पूजनीयो न संशयः ॥ २२॥
शिवपूजापरं दृष्ट्वा देवा विष्णुपुरोगमाः ।
पूजनीयं प्रस्तुवन्ति प्रणमन्ति मुहुर्मुहुः ॥ २३॥
अयं धन्यतमो मर्त्यः शिवपूजापरायणः ।
भाग्यवानिति सर्वेऽपि मन्यन्ते त्रिदशाः सदा ॥ २४॥
यद्देहापगमे मोक्षो यस्य तस्यैव देहिनः ।
महादेवस्य पूजायां मतिर्भवति नान्यथा ॥ २५॥
सर्वोत्कर्षं शिवं मत्वा मामर्चयति यो नरः ।
तस्मै दास्यामि कैवल्यं नान्यस्मै सत्यमुच्यते ॥ २६॥
यस्यासाधारणी भक्तिर्मयि सर्वोत्तमे शिवे ।
स एव मुक्तिकान्तायाः कान्तो भवति नेतरः ॥ २७॥
सर्वदेवाधिदेवं मां शिवं योऽभ्यर्चयिष्यति ।
स देवोरगगन्धर्वयक्षपूज्यो भविष्यति ॥ २८॥
यो मत्पूजापरो मर्त्यस्तद्द्वारि सकलाः सुराः ।
कृताञ्जलिपुटा नित्यं स्थास्यन्त्येव न संशयः ॥ २९॥
अनन्यशरणो यस्तु शिवपूजापरायणः ।
न तस्य सम्पदो दूरे सत्यं सत्यं न संशयः ॥ ३०॥
तस्यैर्श्वयं तस्य विद्या यस्य भक्तिः सदाशिवे ।
तस्यैव मुक्तिरप्यन्ते सत्यं सत्यं न संशयः ॥ ३१॥
स एव सर्वभाग्यानामालयो भवति ध्रुवम् ।
शिवे किं बहुना यस्तु श्रद्धया शिवमर्चयेत् ॥ ३७॥
न तस्य नरकावासः स मे भक्तः स मे प्रियः ।
एकमेव महादेवं भक्तया योऽभ्यर्चयिष्यति ॥ ३८॥
स शाङ्कर इति ज्ञेयः स एव मम सम्मतः ।
एकोऽहं पूजितो नित्यं दास्यामि परमां गतिम् ॥ ३९॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
अनन्यशरणो यस्तु सर्वधर्मान्विहाय माम् ॥ ४०॥
अर्चयिष्यति पुण्यात्मा स एव मम सम्मतः ।
यः शङ्करैकशरणो यः शिवैकार्चनप्रियः ॥ ४१॥
स एव सर्वधर्माणामाश्रयो भवति ध्रुवम् ।
धर्मार्थकाममोक्षार्थं मामभ्यर्च्य सदाशिवम् ॥ ४२॥
धर्मार्थकाममोक्षाणामाश्रयो भवति ध्रुवम् ।
ऐहिकाऽऽमुष्मिकं वापि यो मत्तः काङ्क्षते फलम् ॥ ४३॥
स मामभ्यर्च्य विश्वेशं समवाप्नोति तत्फलम् ।
मामभ्यर्च्य महादेवं स्वशक्त्या मन्मनाः सदा ॥ ४४॥
कदाचिदपि दुःखानि न प्राप्नोत्येव मानवः ।
यो मदर्पितसत्कर्मा मदाराधनतत्परः ॥ ४५॥
स मद्भक्तस्ततस्तेन कृता पूजा मम प्रिया ।
परमेश्वरमाराध्यं सर्वैश्वर्यपतिं शिवम् ॥ ४६॥
पूजनीयोऽत एवाहं पूजनीयो नरैरपि ।
ब्रह्मोपेन्द्रप्रभृतयो देवाः सर्वे मुनीश्वराः ॥ ४९॥
मामर्चयन्ति मामेव शरणं प्राप्नुवन्ति च ।
सर्वेभ्य एव देवेभ्यो यतोऽस्मि सुमहानहम् ॥ ५०॥
तत एव महादेव वदन्ति निगमाश्च माम् ।
न मत्तोऽभ्यधिको देवः सर्वेभ्योऽपि महानहम् ॥ ५१॥
अत एव महादेवः प्रथितो निगमेष्वहम् ।
यं यमुद्दिश्य कर्माणि करिष्यन्ति फलेप्सवः ॥ ५२॥
तानि कर्माणि मय्येव प्रविशन्ति फलप्रदे ।
फलप्रदाता भगवान्कर्मणामहमेव हि ॥ ५३॥
तस्मान्मदन्यफलदः कर्मणां नास्ति सर्वथा ।
यं यं यं देवमुद्दिश्य नमस्काराः कृता नरैः ॥ ५४॥
ते सर्वेऽपि नमस्काराः प्रविशन्ति च मां प्रिये ।
यं यं देवं समुद्दिश्य या या पूजा कृता मुदा ॥ ५५॥
सा मयि प्रविशत्येव पूजा सर्वापि सर्वथा ।
राज्ञे साक्षाद्धनं दातुमशक्तो मनुजः सदा ॥ ५६॥
अधिकारिमुखादेव प्रवेशयति भूपतिम् ।
साक्षान्मत्पूजने यस्तु समर्थस्तेन सर्वदा ॥ ५७॥
ममैव पूजा कर्तव्या नान्यदेवस्य सर्वदा ।
द्रव्यदाने समर्थो यस्साक्षाद्राज्ञे नरस्तथा ॥ ५८॥
राज्ञे द्रव्यं ददात्येव साक्षान्मानपुरःसरम् ।
अतः साक्षाद्धनं दत्तं येन राज्ञे मनीषिणा ॥ ५९॥
तेन राजप्रसादोऽपि प्राप्यते सर्वसौख्यदः ।
यं साक्षाद्वेत्ति राजानं यस्तु राजप्रसादतः ॥ ६०॥
स राजान्यान्प्रधानांस्तु नाराधयति सर्वथा ।
एवमेव मदर्चायामधिकादरवान्नरः ॥ ६१॥
मदन्यं नार्चयेदेव मदन्यः फलदो न हि ।
किमन्याराधनेनापि मदन्योऽभीष्टदस्तु कः ॥ ६२॥
ततोऽहमेक एवार्यैः पूजनीयः प्रयत्नतः ।
शिवान्यः फलदोऽस्तीति प्रवदन्त्यशिवास्तु ये ॥ ६३॥
तादृशानशिवान्स्पृष्ट्वा सचेलः स्नानमाचरेत् ।
मदन्यः कर्मफलदः कथं भवितुमर्हति ॥ ६४॥
॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्तं शिवपूजामहिमोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १५ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 15 . vAvRRittashlokAH ..
Notes:
Upon being requested, Śiva शिव gives Upadeśa उपदेश to Pārvatī पार्वती about the merits of worshipping Him.
Encoded and proofread by Ruma Dewan