स्कन्दप्रोक्ता शिवमहिमा
देवतासार्वभौमोऽयं शङ्करः सर्वकामदः ।
धर्मार्थकाममोक्षाणां दान्ता साम्बः शिवः स्वयम् ॥ १०७॥
सर्वदेवेष्टदः पुत्रो धीमानमितविक्रमः ।
शिवान्यदेवताभक्त्या प्राप्यः किमीदृशः सुतः ॥ १०८॥
शङ्करो विष्णुतपसा सन्तुष्टो विष्णवे मुदा ।
ददौ वैकुण्ठममलमतो देवोत्तमः शिवः ॥ १०९॥
ब्रह्मणस्तपसा तुष्टस्तस्मै शम्भुः कृपावशात् ।
ब्रह्मलोकं ददौ पूर्वमतो देवोत्तमः शिवः ॥ ११०॥
इन्द्रायेन्द्रस्य तपसा सन्तुष्टः शङ्करो मुदा ।
स्वर्गलोकं ददौ पूर्वमतो देवोत्तमः शिवः ॥ १११॥
पुराग्नितपसा प्रीतः शङ्करस्त्वग्नये मुदा ।
अग्निलोकं ददौ पूर्वमतो देवोत्तमः शिवः ॥ ११२॥
अन्येभ्योऽपि च देवेभ्यः प्रीतस्तत्तपसा शिवः ।
लोकानिष्टान्ददौ पूर्वमतो देवोत्तमः शिवः ॥ ११३॥
देवाः सर्वे महादेवं स्तुवन्ति विविधं मुदा ।
तदन्यं न स्तुवन्त्येवमतो देवोत्तमः शिवः ॥ ११४॥
मोक्षप्रदाता सर्वेभ्यः स्वभक्तेभ्यो महेश्वरः ।
मोक्षः प्राप्तो महाशैवैरतो देवोत्तमः शिवः ॥ ११५॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्ता शिवमहिमा पूर्णा ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १४ । १०७-११५॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 14 . 107-115 ..
Encoded and proofread by Ruma Dewan