शिवप्रोक्तं शिवभक्तिर्फलोपदेशम् २
- शिवपार्तवतीसंवादे -
श्री सदाशिव उवाच -
मयि यस्यं समुद्भूता भक्तिरव्यभिचारिणी ।
स दुःखसागरं तीर्त्वा मयि संविशति प्रिये ॥ ५७४॥
यस्य भक्तिरविच्छिन्ना मयि जाताऽनपायिनी ।
तस्याहं सुलभो देवि दुर्लभोऽपि न संशयः ॥ ५७५॥
यो मां यत्नैर्महादेवं भजन्ति श्रद्धयान्विताः ।
भावये तानहं देवि हृदये मणिवत्सदा ॥ ५७६॥
स्वतन्त्रोऽपि महादेवः सोऽहं भक्तैर्वशीकृतः ।
अवश्योऽप्यहमीशानो मद्भक्तवशगोऽस्म्यहम् ॥ ५७७॥
मां न जानन्ति सहसा शैवमार्गबहिर्गताः ।
शैवमार्गरता एवं जानन्ति भुवि मां शिवे ॥ ५७८॥
वेदैरपि न विज्ञातं यत्तत्त्वं मम शाश्वतम् ।
तद्विज्ञातमुमे शैवैर्ममानुग्रहभाजनैः ॥ ५७९॥
मामनन्यसमं नित्यं देवदेवं पिनाकिनम् ।
विज्ञाय शैवाः सन्ततं पूजयन्ति मुमुक्षवः ॥ ५८०॥
त्यक्ताहाराः पूजयन्ति केचिच्छैवाः सदापि माम् ।
उपोष्यान्वहमासायमतः सम्पूज्य मां प्रभुम् ॥ ५८१॥
भोजयित्वा च मद्भक्तान्योऽश्नाति स मम प्रियः ।
नित्यं नक्तव्रतं देवि यः करिष्यति यत्नतः ॥ ५८२॥
स भूयो गर्भदुःखानि न प्राप्नोत्येव सर्वदा ।
नित्यं नक्तव्रतं देवि सुलभं भुक्तिमुक्तिदम् ॥ ५८३॥
तद्विधानं च वक्ष्यामि सावधानमनाः शृणु ।
प्रातरादिषु कालेषु स्नात्वोद्धूल्य यथाविधि ॥ ५८४॥
त्रिपुण्डुधारणं कार्यं तथा रुद्राक्षधारणम् ।
ततो मृन्मयलिङ्गानामष्टोत्तरशतं क्रमात् ॥ ५८५॥
प्रातरादिषु कालेषु पूजनीयं प्रयत्नतः ।
पूजा तिलाक्षतैः कार्या बिल्वपत्रैश्च कोमलैः ॥ ५८६॥
करवीरादिपुष्पैश्च तत्तत्कालसमुद्भवैः ।
दीपमाला कल्पनीया कृष्णगोघृतवर्धिता ॥ ५८७॥
प्रतिकालं च सा माला कर्तव्या शतसङ्ख्यया ।
प्रतिकालं पलशतं कृष्णगोघृतमुत्तमम् ॥ ५८८॥
धूपश्चागरुसारेण कल्पनीयो विशेषतः ।
गोक्षीरपाचितैरन्नैरपूपैर्लड्डुकैरपि ॥ ५८९॥
मधुक्षीराज्यसंयुक्तैर्नैवेद्यैरपि कल्पयेत् ।
ताम्बूलं कल्पयित्वाऽथ पुनर्धूपं प्रकल्पयेत् ॥ ५९०॥
ततो नीरजनं देयं शतदीपविराजितम् ।
षट्सहस्रं प्रजप्तव्यः शैवः पञ्चाक्षरो मनुः ॥ ५९१॥
रुद्राध्यायजपः कार्यो मौनेन विधिपूर्वकम् ।
ततः प्रदक्षिणा कार्याः यत्नादष्टोत्तरं शतम् ॥ ५९२॥
आसायमेवं सम्पूज्य मामनाद्यन्तमव्ययम् ।
सायङ्काले ततः कार्यं तथैव मम पूजनम् ॥ ५९३॥
ततः परं प्रयत्नेन गोघृतैस्तिलसंयुतैः ।
होमः कार्यो बिल्वपत्रैः सहस्रत्रयमादरात् ॥ ५९४॥
भोजनीयास्ततो यत्नान्मद्भक्ताः पायसादिभिः ।
सुवर्णदक्षिणा देया मद्भक्तेभ्यस्ततःपरम् ॥ ५९५॥
एवं कृत्वा विधानेन स्वकृतं कर्म सादरम् ।
निवेदनीयं पूजान्ते मह्यं श्रद्धापुरःसरम् ॥ ५९६॥
स महापापराशिभ्यो मुक्तो भवति सर्वथा ।
एवं नक्तव्रतं देवि यः करिष्यति यत्नतः ॥ ५९७॥
स वंशकोटिसम्युक्तो मत्स्वरूपं प्रयास्यति ।
नक्तव्रतं प्रयत्नेन क्रियते येन सर्वदा ॥ ५९८॥
तेन व्रतानि सर्वाणि चीर्णान्येव वरानने ॥ ५९९॥
स निराशीति विज्ञेयो यो नक्ताशी सदा भवेत् ।
सर्वेषां तपसां श्रेष्ठं मतं नक्ताशनं शिवे ॥ ६००॥
नक्ताशनरता धीरा भस्मनिष्ठा जितेन्द्रियाः ।
गर्भवासादिदुःखेभ्यो निवर्तन्ते न संशयः ॥ ६०१॥
गर्भवासादिदुर्लङ्घ्यमहानरकभीरवः ।
कुर्वन्ति सावधानेन नक्तव्रतमिदं शिवे ॥ ६०२॥
पूजा मम प्रियतरा नक्तव्रतरतैः कृता ।
नक्तव्रतरता यस्मान्मम प्रियतमाः प्रिये ॥ ६०३॥
यस्य नक्तव्रते श्रद्धा तथा भस्मानुलेपने ।
तथा लिङ्गार्चने श्रद्धा स जीवन्मुक्त उच्यते ॥ ६०४॥
यस्य प्रीतिर्मयि श्रद्धा विश्वासोऽपि मदर्चने ।
स ममातिप्रियतमो स ममात्मा वरानने ।
मयि प्रीतिर्न सहसा जायते वस्तुतो नृणाम् ॥ ६०५॥
यदि प्रीतिर्मयि भवेत्तदा मुक्तिरदूरतः ।
मुक्तिदोऽहं महादेवो न मत्तोऽन्योऽस्ति मुक्तिदः ॥ ६०६॥
यतोऽहं सर्वदेवानामधिपो मुक्तिनायकः ।
मद्भक्ता एव मुच्यन्ते घोरसंसारसागरात् ॥ ६०७॥
नान्यभक्ता विमुच्यन्ते संसारात्सत्यमुच्यते ।
शिवे मद्भक्तभक्तानां यो भक्तः सोऽपि मुच्यते ॥ ६०८॥
मयि सद्भक्तिमान् श्रेष्ठो मुच्यते नेदमद्भुतम् । ६०९.१।
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवभक्तिर्फलोपदेशं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ५७४-६०९।१॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 574-609.1 ..
Notes:
Śiva शिव describes to Parvatī पार्वती, the merits of having Devotion and the mode of conducting Worship unto Him - especially during nighttime; and that He bestows the fruit of Liberation from cycles of rebirth. He explains that Devotion to Him arises due to His Grace alone, i.e. Sivānugraha शिवानुग्रह; and He being Muktināyaka मुक्तिनायक, confers Jīvanmukti जीवन्मुक्ति on ardent devotees.
Encoded and proofread by Ruma Dewan