शिवप्रोक्तं शिवभक्तिर्फलोपदेशम् १
शिवे सुराणां मर्त्यानां मद्भक्तिर्मदनुग्रहात् ।
भवत्यनन्यया भक्त्या मामेवाभ्युपयन्ति ते ॥ ५५३॥
यो मामव्याजभक्त्यैव विज्ञायाभ्यर्चयिष्यति ।
तमहं सर्वदुःखेभ्यो मोचयामि शिवे ध्रुवम ॥ ५५४॥
मल्लिङ्गभक्तिरेवैका संसारार्णवतारिणी ।
नास्ति मद्भक्तिसदृशं संसारार्णवतारकम् ॥ ५५५॥
मद्भक्तियुक्तो मामीशं सर्वदेवगणाधिपम् ।
यः पूजयति यत्नेन स मोक्षमधिगच्छति ॥ ५५६॥
तिष्ठन्नासन्नटन्शम्भुं यः सदा मां स्मरिष्यति ।
स निर्दग्धमहापापो मामुपैष्यत्यसंशयम् ॥ ५५७॥
पुण्यक्षेत्रेषु सर्वेषु पुण्यर्क्षेष्वपि सादरम् ।
क्षीराद्यैः स्नापयेद्यो मां स मोक्षमधिगच्छति ॥ ५५८॥
भस्मना स्नापयेद्यो मां शोधितेन शिवे शिवम् ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५५९॥
स्वार्जितैर्बिल्वपत्रैर्मां यः पूजयति भक्तितः ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६०॥
रुद्राध्यायरतो भूत्वा यो मामन्नैः प्रतर्पयेत् ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६१॥
यो मां गोघृतसंयुक्तैर्दीपैः सन्दीपयेन्मुदा ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६२॥
यो मां प्रदक्षिणैर्नित्यं प्रणामैश्चापि तोषयेत् ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६३॥
यो भस्मधूलितो नित्यं रुद्राध्यायं जपेन्मुदा ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६४॥
यो भस्मधूलितो नित्यं शैवं पञ्चाक्षरं जपेत् ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६५॥
यः प्रीणयेत्स्तोत्रपाठैर्नृत्यैश्च करतालनैः ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६६॥
यो वाचयेन्मत्प्रशंसां सानुमोदं मदालये ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६७॥
यो मद्भक्तमतिप्रीत्या भोजयेत्पायसादिभिः ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६८॥
यो मद्भक्ताय च वस्त्राणि दत्वा सम्प्रीणयेन्मुदा ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६९॥
यो मद्भक्ताय च रत्नानि दद्यात्स्वर्णं च सादरम् ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५७०॥
यो मद्भक्ताय रुद्राक्षान्दद्यात्प्रीतिपुरःसरम् ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५७१॥
मद्भक्ताय च यो दद्याद्रत्नलिङ्गानि सादरम् ।
स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५७२॥
एवं मत्कर्मनिरता ममैवानुग्रहाच्छिवे ।
मां प्राप्नुवन्ति ज्वलने हवीषीव न संशयः ॥ ५७३॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवभक्तिर्फलोपदेशं १ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ५५३-५७३॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 553-573 ..
Notes:
Śiva शिव describes to Parvatī पार्वती, the merits of having Devotion and conducting Worship unto Him - especially that the one who does the same, becomes One with Him and becomes like Him. Some Śloka-s in this context are given on this webpage.
Encoded and proofread by Ruma Dewan