ओङ्कारप्रोक्तं मुक्तिसाधनार्थं शिवार्चनोपदेशम् २
ॐकार उवाच -
भजध्वं पार्वतीनाथं मनोवाक्कायकर्मभिः ।
मनसा कर्मणा वाचा शिवं यो भजते सदा ॥ ६१०॥
तं तारयति गौरीशो घोरसंसारसागरात् ।
महेशार्चनमेवैकं भुक्तिमुक्तिप्रदं स्मृतम् ॥ ६११॥
तदेव घोरसंसारमहासागरतारकम् ।
श्रीमहेश महेशेति महेशेति त्रिरुच्चरन् ॥ ६१२॥
सद्यो महाघसङ्घेभ्यो मुच्यते नात्र संशयः ।
महेशेति परं नाम भुक्तिमुक्तिप्रदं स्मृतम् ॥ ६१३॥
ततस्तदेव सततं स्मर्तव्यं मुक्तिकाङ्क्षिभिः ।
मुक्तिकान्ताऽऽकर्षकोऽसौ शिवमन्त्रः श्रुतिश्रुतः ॥ ६१४॥
गोपनीयोऽपि मोक्षार्थं वेदान्तैः प्रकटीकृतः ।
अतो महेश्वरं साम्बं सावधानेन सन्ततम् ॥ ६१५॥
भजध्वं भवसन्तापविच्छित्त्यर्थं मुदा सुराः ।
शिवान्यो न गतिर्यस्माद्भवतां मुक्तिकाङ्क्षिणाम् ॥ ६१६॥
ततो भजध्वं मुक्त्यर्थं शिवमेव सदा मुदा ।
मोक्षार्थी यः शिवादन्यमाराधयितुमिच्छति ॥ ६१७॥
स उन्मत्त इति ज्ञेयो वेदमार्गबहिष्कृतः ।
तृप्त्यर्थं कण्टकग्रासी यथा तृप्तिं न विन्दति ॥ ६१८॥
शिवेतरस्ततस्तद्वन्न मुक्तिमभिविन्दति ।
शिवेतरार्चने श्रद्धा यस्य सञ्जायते भ्रमात् ॥ ६१९॥
तज्जन्म गतमेवात्र वृथा कण्टकजन्मवत् ।
न वरं तादृशं जन्म यत्प्राप्य भुवि मानवः ॥ ६२०॥
शिवेतरार्चने श्रद्धां कुरुते मोहसंयुतः ।
जन्म तादृग्वरं देवा यादृशं प्राप्य मानवः ॥ ६२१॥
महेशाराधने श्रद्धां कुरुते भुक्तिमुक्तिदम् ।
गर्भधारणजं दुःखं तन्मातुःसफलं भवेत् ॥ ६२२॥
यद्गर्भान्निर्गतः पुत्रः शिवभक्तिरतो भवेत् ।
तदेव कुलमुत्कृष्टं धन्ययित्यभिमन्महे ॥ ६२३॥
यस्मिन्कुले समुत्पन्नः शिवपूजारतो भवेत् ।
तदेव कुलमुत्कृष्टं धन्यमित्यभिमन्महे ॥ ६२४॥
किमर्थं बहुनोक्तेन शिवभक्तिर्मुमुक्षुभिः ।
नित्यमव्यभिचारेण कर्तव्या सत्यमुच्यते ॥ ६२५॥
- -
कश्यप उवाच ।
इत्योङ्कारवचः श्रुत्वा विष्णुब्रह्मादयः सुराः ।
शिवार्चनरताः सन्तस्तपस्तेपुर्दुरासदम् ॥ ६२६॥
पश्येमाञ्छाङ्करान्धन्यान्न्महेशाराधनोत्सुकान् ।
एतेषां शङ्करादन्यः पूज्यो नास्त्येव सर्वदा ॥ ६२७॥
शिवान्यं नार्चयन्त्येते स्वप्नेऽपि शिवतत्पराः ।
न ते नमन्ति मोहेनाप्यशिवं संशितव्रताः ॥ ६२८॥
नमन्ति चन्द्ररेखाङ्कं त्रिशूलाङ्कं महेश्वरम् ।
बिल्वपत्रादिभिः सम्यक्पूजयन्ति नमन्ति च ॥ ६२९॥
शिवलिङ्गं पूजयन्ति प्रणमन्ति स्तुवन्ति च ।
पश्यन्ति च प्रयत्नेव शिवलिङ्गं समर्चितम् ॥ ६३०॥
एते निर्व्याजभक्त्यैवं जन्मना शिवपूजकाः ।
शीघ्र मुक्ता भविष्यन्ति महेशानुग्रहान्मुने ॥ ६३१॥
पूजय त्वं महादेवं श्रद्धया परया मुने ।
महादेवप्रसादेन शीघ्र मुक्तो भविष्यसि ॥ ६३२॥
॥ इति शिवरहस्यान्तर्गते ओङ्कारप्रोक्तं मुक्तिसाधनार्थं शिवार्चनोपदेशं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ६१०-६३२॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 610-632 ..
Notes:
Oṃkāra ओंकार delivers the upadeśa उपदेश to Brahmā ब्रह्मा, Viṣṇu विष्णु et al Deva-s देवाः, about Cultivating Worship of Śiva शिव i.e. Śivārcana शिवार्चन as the means to Experiencing the World as well as Liberation from it - viz. Bhukti भुक्ति and Muktiमुक्ति).
Ṛṣi Kaśyapa ऋषि कश्यप narrates that hearing so from Oṃkāra ओंकार, the Brahmā ब्रह्मा, Viṣṇu विष्णु et al Deva-s देवाः ardently engaged themselves in i.e. Śivārcana शिवार्चन.
Encoded and proofread by Ruma Dewan