ब्रह्माप्रोक्तं शिवार्चनोपदेशम् २
न भयं शिवभक्तानामभयप्रदमीश्वरम् ।
यतोऽर्चयन्ति सततमप्रमत्ताः शिवार्चका ॥ ९३॥
उदेतु भानुरप्येष पश्चिमायां दिशीश्वरि ।
तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९४॥
भवन्तु सागराः सर्व उद्वेलाः क्षोभहेतवः ।
तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९५॥
कम्पमेत्वनिशं भूमिः सशैलवनकानना ।
तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९६॥
अमायामुदयं यातु चन्द्रः सर्वकलायुतः ।
तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९७॥
प्रकाशन्तां तु नक्षत्रा अपि नित्यमहर्निशम् ।
तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९८॥
धूसराः सन्तु सर्वास्ता दिशः प्रतिदिशस्तथा ।
तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९९॥
पतन्त्वशनिसङ्घाश्च बहवः सततं भुवि ।
तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ १००॥
देवाः किं बहुनोक्तेन सर्वथा शाङ्करैर्जनः ।
पदे पदेऽपि कल्याणं प्राप्तव्यं नात्र संशयः ॥ १०१॥
शङ्करासक्तचित्तानां शङ्करः करुणाकरः ।
ददाति मङ्गलं नित्यं मङ्गलापतिरीश्वरः ॥ १०२॥
ध्यातो ददाति गौरीशः मङ्गलं मङ्गलाश्रयः ।
मङ्गलापतिसंसक्तचित्तानां नास्त्यमङ्गलम् ॥ १०३॥
अत एव मुनिश्रेष्ठाः शिवतत्त्वविशारदाः ।
अनेकजन्मभिर्येन तप्तं घोरतरं तपः ॥ १०४॥
तेनैव शङ्करे भक्तिः क्रियतेऽनन्यचेतसा ।
अनन्यभाङ्महादेवं योऽर्चयिष्यति सर्वदा ॥ १०५॥
स एव धन्यः पुण्यात्मा तस्याप्राप्यं न किञ्चन ।
जयेति शङ्करादन्यं केचिन्मायाविमोहिताः ॥ १०६॥
वदन्ति तेषां भद्राणि नैव कल्पशतैरपि ।
अप्रमेयमनाद्यन्तं नित्यं शङ्करमीश्वरम् ॥ १०७॥
अनाराध्य जडाः केचिदर्चयन्त्यन्यदैवतम् ।
ईश्वरत्वेन सम्भाव्यानीश्वरं ये भजन्ति ते ॥ १०८॥
स्वेष्टं न प्राप्नुवन्त्येव लभन्तेऽनिष्टमप्यहो ।
शिव एव शिवप्राप्त्यै ध्येयो नित्यं मनीषिभिः ॥ १०९॥
ईश्वरः सर्वभूतानां शिवो हि श्रुतिभिः श्रुतः ।
अतः सर्वात्मना नित्यं भजनीयो महेश्वरः ॥ ११०॥
यः शङ्करं विहायान्यं सुरमर्चयितुं यतेत् ।
सम्मुखस्थां सुधां त्यक्त्वाक्षाराम्भः पातुमिच्छति ॥ १११॥
यस्प्रास्त्यनन्यगा भक्तिर्महादेवे महेश्वरे ।
स एव कृतकृत्यश्च स एव सुभगोत्तमः ॥ ११२॥
यस्यास्त्यनन्यगा भक्तिर्महादेवे सुरोत्तमे ।
तस्य तज्जन्मविगमे मुक्तिरेव न संशयः ॥ ११३॥
शिवे परमकल्याणनिदाने परमेश्वरे ।
धन्या एव हि कुर्वन्ति भक्तिं मुक्तिप्रदायिनीम् ॥ ११४॥
यं यं सदाशिवो नित्यमनुगृह्णाति वै सुराः ।
तस्यैव शङ्करे श्रद्धा भक्तिश्चापि भवेद्ध्रुवम् ॥ ११५॥
यः शङ्करं समालोक्य नाभिनन्दति सत्वरम् ।
स दग्धचित्तो मोहेन ज्ञेयः पापकुलाश्रयः ॥ ११६॥
पूजितः प्रणतः स्पृष्टश्चिन्तितः संस्तुतः शिवः ।
ददाति सौख्यमतुलं मुक्तिमप्यनरोत्तमः ॥ ११७॥
स भाग्यवान्स पुण्यात्मा स धन्यो धन्यपूजितः ।
तस्यैव पितरौ धन्यौ तस्यैव कुलमुत्तमम् ॥ ११८॥
येन साम्बो महादेवः पूज्यते सर्वदा मुदा ।
सर्वोत्तमं महादेवं विदित्वा योऽर्चयिष्यति ॥ ११९॥
॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शिवार्चनोपदेशं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १५ । ९३-११९॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 15 . 93-119 ..
Notes:
Upon being approached by distressed Deva-s देवाः, Brahmā ब्रह्मा gives Upadeśa उपदेश to them worshipping Śiva शिव.
Encoded and proofread by Ruma Dewan