ब्रह्माप्रोक्तं शिवार्चनोपदेशम् १

ब्रह्माप्रोक्तं शिवार्चनोपदेशम् १

कुर्वन्तु देवदेवस्य महादेवस्य शूलिनः । स्मरणं पूजनं भक्तया भयनिर्णोदनाय वः ॥ ७१॥ शङ्करार्चनशीलानां शिवैकरतचेतसाम् । भयलेशोऽपि नास्त्येव भयदोऽपि स भीतिहा ॥ ७२॥ गौरीकान्तो यदा चित्ते शङ्करः परिवर्तते । तदा भयानि यान्त्येव दूरतः शिवशासनात् ॥ ७३॥ लाभः प्रतिपदं तेषां तेषां प्रतिपदं जयः । येषां चेतसि कुन्देदुधवलः पार्वतीपतिः ॥ ७४॥ तेषां पुत्राश्च पौत्राश्च वेदशास्त्रविशारदाः । येषां चेतसि कुन्देन्दुधवलः पार्वतीपतिः ॥ ७५॥ तेषामारोग्यमैश्वर्यं तेषामौदार्यमुत्कटम् । येषां चेतसि कुन्देदुधवलः पार्वतीपतिः ॥ ७६॥ सम्पदोऽनुदिनं तेषां तेषां कल्याणमन्वहम् । येषां चेतसि कुन्देदुधवलः पार्वतीपतिः ॥ ७७॥ तेषां भाग्यानि पुण्यानि तेषां श्रेयांसि चान्वहम् । येषां चेतसि कुन्देदुधवलः पार्वतीपतिः ॥ ७८॥ तेषां द्वारि मदोन्मत्तमातङ्गोत्तमकोटयः । येषां चेतसि कुन्देदुधवलः पार्वतीपतिः ॥ ७९॥ तेषां गृहेषु कुण्डोध्न्यो गावः क्षीरामृताशयाः । येषां चेतसि कुन्देदुधवलः पार्वतीपतिः ॥ ८०॥ तेषां करस्थितः स्वर्गो नानायज्ञफलः शिवः । येषां चेतसि कुन्देदुधवलः पार्वतीपतिः ॥ ८१॥ तेषां हस्तगतो मोक्षः पुनरावृत्तिवर्जितः । येषां चेतसि कुन्देदुधवलः पार्वतीपतिः ॥ ८२॥ भाग्यं शङ्करभक्तानाममेयममलं ध्रुवम । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ८३॥ धन्याः शङ्करपादाब्जध्यानमात्रपरा नराः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ८४॥ धन्यास्ते शिवलिङ्गार्चासक्तान्तःकरणा नराः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ८५॥ धन्यास्ते शिवपूजार्थमुपात्तद्रविणा नराः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ८६॥ धन्यास्ते मन्त्रपूताश्च भस्मभाला नरोत्तमाः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ८७॥ धन्यास्ते कण्ठसंसक्तरुद्राक्षाभरणा नराः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ८८॥ धन्यास्ते शिवनामैकजीवनाः शिवपूजकाः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ८९॥ धन्यास्ते शिवनामाङ्ककथाश्रवणतत्पराः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ९०॥ धन्यास्ते शिवनामाङ्कगानासक्तात्मचेतसः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ९१॥ धन्यास्ते शिवभक्तेभ्यो दत्तवित्ता नरोत्तमाः । येषां वयमपीन्द्राद्याः सेवका नात्र संशयः ॥ ९२॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शिवार्चनोपदेशं १ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १५ । ७१-९२॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 15 . 71-92 .. Notes: Upon being approached by distressed Deva-s देवाः, Brahmā ब्रह्मा gives Upadeśa उपदेश to them about worshipping Pārvatipati Śiva पार्वतिपति शिव. Encoded and proofread by Ruma Dewan
% Text title            : Brahmaproktam Shivarchanopadesham 1
% File name             : shivArchanopadesham1brahmAproktaM.itx
% itxtitle              : shivArchanopadesham 1 brahmAproktaM (shivarahasyAntargatam)
% engtitle              : shivArchanopadesham 1 brahmAproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 15 | 71-92||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org