विष्णुप्रोक्तं शिवाराधनोपदेशम्

विष्णुप्रोक्तं शिवाराधनोपदेशम्

शिवाराधनसंसक्तो दावानलगतोऽपि सन् । दुःखं सर्वात्मना ब्रह्मन्न प्राप्नोति न संशयः ॥ ६॥ अस्माभिः शिवपूजायां यत्नः कार्योऽतिभक्तितः । शङ्कराभ्यर्चनादेव सर्वाः सिध्यन्ति सिद्धयः ॥ ७॥ तथाच शङ्करस्यैव पूजां कुर्मो निरन्तरम् । स्मर्तव्यः शङ्करो नित्यं शं करोतीति शङ्करः ॥ ८॥ शं नामानल्पमव्यक्तं सुखं निर्वचनातिगम् । सततं यस्य जिहाने शङ्करेत्यस्ति नाम सः ॥ ९॥ दुःखभाङ्न भवत्येव सत्यं सत्यं न संशयः । त्रिपुण्ड्रधारणं कृत्वा महादेवमनुस्मरन् ॥ १०॥ यो याति यत्र तत्रैव महादेवोऽधितिष्ठति । महादेव महादेव महादेवेति वादिनम् ॥ ११॥ वत्सं गौरिव गौरीशो धावन्तमनुधावति । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १२॥ सुधियो मुक्तिकान्तायाः पाणिग्रहणडिण्डिमः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १३॥ अपमृत्युहरो तूनं कालमृत्युहरोऽपि सः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १४॥ जन्ममृत्युजराव्याधिभयनिर्हरणक्षमः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १५॥ संसारसर्पदष्टातां दिव्यौषधिरसोऽव्ययः । महादेवेति वाग्वल्ली चतुरक्षरपल्लवा ॥ १६॥ भक्तिसिक्ता भवत्येका चतुर्वर्गफलप्रदा । महादेवेति विमलो नामकल्पतरुर्विधे ॥ १७॥ यो यं कामयते कामं तं तं पूरयति क्षणात् । कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥ १८॥ सद्यः प्रलयमायान्ति महादेवेति कीर्तनात् । महादेवेति नामेदं यः श‍ृणोति वदिष्यति ॥ १९॥ न तस्य नरकावासः सत्यं सत्यं न संशयः ॥ २०.१॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं महादेवाराधनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १६ । ६-२०।१॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 16 . 6-20.1 .. Notes: Viṣṇu विष्णु delivers the Upadeśa उपदेश to Deva-s देवाः telling them that He Himself worships Śiva शिव. Viṣṇu विष्णु explains to them the meaning and derivation of the name Śaṅkara शङ्कर and tells them about the merits of His Caturākṣara चतुराक्षर name Mahhādeva महादेव. Encoded and proofread by Ruma Dewan
% Text title            : Vishnuproktam Shivaradhanopadesham
% File name             : shivArAdhanopadeshamviShNuproktaM.itx
% itxtitle              : shivArAdhanopadesham viShNuproktaM (shivarahasyAntargatam)
% engtitle              : shivArAdhanopadesham viShNuproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 16 | 6-20.1||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org