स्कन्दप्रोक्ता साम्बशिवमहिमा

स्कन्दप्रोक्ता साम्बशिवमहिमा

यथा श्रेष्ठो मनुष्येषु ब्राह्मणो ब्रह्मवित्तमः । तथा देवेषु सर्वेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ ११५॥ विद्यामध्ये यथा श्रेष्ठा वेदविद्या प्रकीर्तिता । तथा देवेषु सर्वेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ ११७॥ गौरुत्तमा कामदोग्ध्री यथा सर्वचतुष्पदाम् । तथा देवेषु सर्वेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ ११८॥ लोहमध्ये यथा श्रेष्ठं काञ्चनं सर्वकामदम् । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ ११९॥ ऐरावतो यथा श्रेष्ठो गजेष्वमितविक्रमः । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२०॥ हयेपूच्चैःश्रवाः श्रेष्ठो यथाऽमितपराक्रमः । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२१॥ यथा सर्वमृगश्रेष्ठः सिह्मोऽलङ्घ्यपराक्रमः । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२२॥ कैलासः सर्वलोकेषु यथा श्रेष्ठो नगोत्तमः । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२३॥ पुष्यरागो ग्रथा श्रेष्ठो रत्नेषु त्रिविधेष्वपि । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२४॥ समुद्रेषु यथा श्रेष्ठः क्षीराब्धिरमितप्रभः । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२५॥ सिद्धानां कपिलः श्रेष्ठो यथा सिद्धाश्रयस्तथा । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२६॥ यथा चित्ररथः श्रेष्ठो गन्धर्वेषु बलोन्नतः । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२७॥ यथाऽगस्त्यो मुनिश्रैष्ठः सर्वदा शिवचिन्तकः । तथा सर्वेषु देवेषु श्रेष्ठः साम्बः शिवः प्रभुः ॥ १२८॥ शिवान्नस्त्यधिको देवः सत्यं सत्यं न संशयः । सत्यं सत्यं पुनः सत्यमुद्वृत्य भुजमुच्यते ॥ १२९॥ न शिवेन समो देवः सत्यं सत्यं न संशयः । सत्यं सत्यं पुनः सत्यमुद्वृत्य भुजमुच्यते ॥ १३०॥ शङ्करस्य प्रसादेन ज्ञानं भवति धीमताम् । शङ्करस्य प्रसादेन मोक्षो भवति धीमताम् ॥ १३१॥ शङ्करः सर्वभावेन शरण्यः शरणार्थिनाम् । सेव्यः पूज्य सदा साम्बः समेषामप्रमादतः ॥ १३२॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्ता साम्बशिवमहिमा पूर्णा ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १४ । ११५-१३२॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 14 . 115-132 .. Encoded and proofread by Ruma Dewan
% Text title            : Skandaprokta Sambashivamahima
% File name             : sAmbashivamahimAskandaproktA.itx
% itxtitle              : sAmbashivamahimA skandaproktA (shivarahasyAntargatA)
% engtitle              : sAmbashivamahimA skandaproktA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 14 | 115-132||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org