ब्रह्माप्रोक्तं साम्बमहादेवलिङ्गनिरूपणम्

ब्रह्माप्रोक्तं साम्बमहादेवलिङ्गनिरूपणम्

तत्राप्यत्युत्तमं स्थानं सर्वदेवस्तुतं सदा । शिवागारमिति ज्ञेयं तत्तु सर्वोत्तमोत्तमम् ॥ १५३॥ तत्र साम्बो महादेवः सर्वदेवोत्तमोत्तमः । सर्ववेदस्तुतो नित्यं लिङ्गाकारेण तिष्ठति ॥ १५४॥ यस्य भासा विभातीदं भुवनं सचराचरम् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १५५॥ विभाति यस्य भासैव सहस्रकिरणो रविः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १५६॥ येनैव भास्यते चन्द्रः पूर्णः सर्वकलाश्रयः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १५७॥ येनैव भान्ति नभसि तारकाः सप्रभा अपि । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १५८॥ यो निष्कलो निर्गुणश्च निराकरो निरञ्जनः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १५९॥ यः शान्तो निष्क्रियो नित्यो निरवद्यो निरामयः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६०॥ यः सर्वरूपः सर्वात्मा यः सर्वान्तरगः सदा । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६१॥ यः प्रविश्यान्तरं सुप्तं प्रचोदयति मानसम् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६२॥ यः प्रविश्यान्तरं वाचं प्रचोदयति सर्वगः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६३॥ यः प्रविश्यान्तरं जिह्वां प्रचोदयति सर्वगः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६४॥ यः प्रविश्यान्तरं नित्यमिन्द्रियाणी प्रचोदयेत् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६५॥ यद्भीत्या वाति पवन यद्भीत्योदेति भानुमान् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६६॥ यद्धीत्या ज्वलते वह्विरिन्द्रश्च कुलिशायुधः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६७॥ यत्प्रसादेन वैकुण्ठं प्राप पूर्वं जनार्दनः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६८॥ यत्प्रसादेन लोकानां पालकोऽभूज्जनार्दनः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १६९॥ यत्प्रसादान्महालक्ष्मी प्राप पूर्वं जनार्दनः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १७०॥ यत्प्रसादेन दीनोऽपि जायते धनिनां वरः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १७१॥ यत्प्रसादेन मोक्षोऽपि सुलभः सर्वजन्मनाम् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १७२॥ न यस्मादधिको देवः सुरासुरनमस्कृतः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १७३॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १७४॥ यस्य स्मरणमात्रेण जन्तुर्मुच्येत बन्धनात् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ १७५॥ तलिङ्गपूजर्यानन्तफलं सम्प्राप्यते जनैः । तल्लिङ्गपूजापुण्यस्य नेयत्ता सत्यमुच्यते ॥ १७६॥ तलिङ्गं वीक्षितं येन स्पृष्टमभ्यार्चितं मुदा । तस्य पापानि सर्वाणि सत्यं नश्यन्ति मूलतः ॥ १७७॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं साम्बमहादेवलिङ्गनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १५ । १५३-१७७॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 15 . 153-177 .. Notes: While delivering the Upadeśa उपदेश to Deva-s देवाः, Brahmā ब्रह्मा tells them about a certain Abode of Śiva शिव, where He - the Sāmba Mahādeva साम्ब महादेव, who indeed is beyond all forms, yet permeating them all - resides in the form of Śivaliñga शिवलिङ्ग. He concludes by mentioning the merits of worshiping that Śivaliñga शिवलिङ्ग of Sāmba Mahādeva साम्ब महादेव. Encoded and proofread by Ruma Dewan
% Text title            : Brahmaproktam Sambamahadevalinganirupanam
% File name             : sAmbamahAdevalinganirUpaNambrahmAproktaM.itx
% itxtitle              : sAmbamahAdevalinganirUpaNam brahmAproktaM (shivarahasyAntargatam)
% engtitle              : sAmbamahAdevalinganirUpaNam brahmAproktaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 15 | 153-177||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org