यमप्रोक्तं महादेवार्चनमहिमवर्णनम्

यमप्रोक्तं महादेवार्चनमहिमवर्णनम्

श्रीयम उवाच - महादेवार्चने प्रीतिर्यस्य तिष्ठत्यचञ्चला । तस्यापि मुक्तिः भालाक्षपूजकस्य तु किं पुनः ॥ १७५॥ प्राप्यते सर्वथा मुक्तिः शिवपूजकपूजकैः । मुक्तिर्न लभ्यते कि तैः साक्षाच्छङ्करपूजकैः ॥ १७६॥ शिवलिङ्गार्चनं कृत्वा शिवलिङ्गस्य सन्निधौ । येन त्यक्ता तनुस्तेन मुक्तिः प्राप्यैव सर्वथा ॥ १७७॥ भस्मधारणमात्रेण मुक्तिः सम्प्राप्यते नरैः । ततः कथं न सम्प्राप्या मुक्तिः शङ्करपूजया ॥ १७८॥ शिवपूजनरुद्राक्षभस्मधारणतत्परः । कीकटोऽपि तनुं त्यक्त्वा शिवरूपं प्रयान्ति हि ॥ १७९॥ शिवपूजनमाहात्म्यं शिवो वेत्त्येव नापरः । तदन्यैस्तत्कथं ज्ञेयं तत्त्वतोऽस्माभिरीदृशैः ॥ १८०॥ रत्नतत्त्वं विजान्ति सम्यग्रत्नपरीक्षकाः । तथा शिवार्चनस्यापि माहात्म्यं वेत्ति शङ्करः ॥ १८१॥ अतः परं हि तं वक्ष्ये श‍ृण्वन्त्वत्यन्तयत्नतः । कर्तव्यमपि चक्ष्येऽहमप्रमादेन सादरम् ॥ १८२॥ त्रिपुण्ड्रमात्रं यद्भाले भासते भस्मना कृतम् । तान्दृष्ट्वा प्रियमेधा स प्रार्चतार्ध्यादिसाधनैः ॥ १८३ ॥ त्रिपुण्ड्ररुद्राक्षधरः शिवपूजापरायणः । शिव एवेति विज्ञयो भवद्भिः सर्वथा भटाः ॥ १८४॥ भासते भालमनिशं यस्य केवलभस्मना । तत्तु भालाक्षभालेऽपि लिख्यते नैव संशयः ॥ १८५॥ भस्मरेखात्रयं शुद्धं तद्भालाक्षाक्षरत्रयम् । भालपट्टे भस्मरेखास्वरूपैस्त्रिभिरक्षरैः ॥ १८६॥ भालाक्षता भाविनीति भालाक्षाक्षरलेखनम् । अतः केवलभस्माङ्गाः शिवपूजापरायणाः ॥ १८७॥ शिवाकारा इति ज्ञेयाः सत्यं सत्यं न संशयः । भस्मोद्धूलितसर्वाङ्गान्दृष्ट्वा सोत्साहमन्वहम् ॥ १८८॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । रुद्राक्षमालाभरणान्भस्मधारणपूर्वकम् ॥ १८९॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । शिवलिङ्गार्चनासक्तान् भस्मधारणपूर्वकम् ॥ १९०॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । शिवप्रदक्षिणासक्तान् भस्मधारणपूर्वकम् ॥ १९१॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । धूपदान् शङ्करस्थाने भस्मधारणपूर्वकम् ॥ १९२॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । दीपदान् शङ्करस्थाने भस्मधारणपूर्वकम् ॥ १९३॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । शिवाग्रे नर्तनासक्तान्भस्मधारणपूर्वकम् ॥ १९७॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । सोमवारव्रतपरान् भस्मधारणपूर्वकम् ॥ १९५॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । प्रदोषपूजनासक्तान्भस्मधारणपूर्वकम् ॥ १९६॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । रुद्राभिषेकसंसक्तान्भस्मधारणपूर्वकम् ॥ १९७॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । शिवभक्तार्चनपरान्भस्मोद्धूलनपूर्वकम् ॥ १९८॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । बिल्वपत्रार्चनपरान् भस्मोद्धूलनपूर्वकम् ॥ १९९॥ पूजयन्त्यतियत्नेन भ्रमालस्यविवर्जिताः । बिल्वरोपणसंसक्तान् भस्मोद्धूलनपूर्वकम् ॥ २००॥ ॥ इति शिवरहस्यान्तर्गते यमप्रोक्तं महादेवार्चनमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १७ । १७५-२०१॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 17 . 175-201 .. Notes: Yama यम outlines the merits of worshiping Mahādeva Śiva महादेव शिव by several ways; and highlights the importance of application of Bhasma भस्म in the process. Encoded and proofread by Ruma Dewan
% Text title            : Yamaproktam Mahadevarchanamahimavarnanam
% File name             : mahAdevArchanamahimavarNanamyamaproktaM.itx
% itxtitle              : mahAdevArchanamahimavarNanam yamaproktaM (shivarahasyAntargatam)
% engtitle              : mahAdevArchanamahimavarNanam yamaproktaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 17 | 175-201||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org