चित्रगुप्तप्रोक्तं मृत्युञ्जयमहिमाख्यानम्
चित्रगुप्तः उवाच -
सम्पूज्यः शाङ्करं लिङ्गं बिल्वपत्रादिभिर्मुदा ।
स्वर्गापवर्गदातारं शङ्करं योऽर्चयिष्यतिः ॥ २१७॥
स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् ।
अभीप्सितार्थदं नित्यं महेशं योऽर्चयिष्यतिः ॥ २१८॥
स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् ।
अनन्यशरणो नित्यं योऽर्चयिष्यति शङ्करम् ॥ २१९॥
स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् ।
मृत्युञ्जयं महारुद्रं योऽर्चयिष्यति शङ्करम् ॥ २२०॥
स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् ।
सर्वदेवोत्तमं साम्बं योऽर्चयिष्यति शङ्करम् ॥ २२१॥
स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् ।
मृत्युञ्जयं समभ्यर्च्य बिल्वपत्रादिसाधनैः ॥ २२२॥
कालमृत्युं तरन्त्येव किम्मुतर्ह्यपमृत्यवः ।
यत्पूजया पुरा विष्णुर्विष्णुत्वं प्राप दुर्लभम् ॥ २२३॥
यत्पूजया पुरा ब्रह्मा ब्रह्मत्वं प्राप दुर्लभम् ।
तदर्चनपरः कोऽपि न मृत्युवशमेष्यति ॥ २२४॥
यत्पूजया विमुक्तिश्चाप्ययत्नेनैव लभ्यते ।
यत्पूजया विनश्यन्ति भीकरा आपदः क्षणात् ॥ २२५॥
तदर्चनपरः कोऽपि न मृत्युवशमेष्यति ।
यः सर्वरूपः सर्वात्मा साक्षी सकलकर्मणाम् ॥ २२६॥
तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः ।
यः कालकालः कालात्मा कालरूपी सदाशिवः ॥ २२७॥
तदर्चनपरः कोऽपि न मृत्युवशमेष्यति ।
यस्त्रिणेत्रो विश्वकर्ता विश्वस्य परिपालकः ॥ २२८॥
तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः ।
यमर्चयन्ति योगीन्द्राः सर्वदा साम्बमीश्वरम् ॥ २२९॥
तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः ।
स एव सुखमाप्नोति स एवाखिलसम्पदः ॥ २३०॥
यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ।
तस्यैव जन्म सफलं जीवितं च सुजीवितम् ॥ २३१॥
तस्यैव जननी धन्या तस्यैव कुलमुत्तमम् ।
यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३२॥
तस्यैव जनको धन्यो धन्यस्तस्य पितामहः ।
यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३३॥
तस्यैवारोग्यमनिशं आयुर्वृद्धिः क्षणे क्षणे ।
यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३४॥
तस्यैव भाग्यमुत्कृष्टं तस्यैव सकलोत्सवाः ।
यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३५॥
तस्यैव विमलं ज्ञानं तस्यैव विमलं मनः ।
यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३६॥
तस्यैव विमलं शीलं तस्यैव विमलं यशः ।
यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३७॥
अधीतवेदो बालोऽपि मृत्युञ्जयमनामयम् ।
जपत्ययं मयामन्त्रं पूजयित्वा सदाशिवम् ॥ २३८॥
मृत्युञ्जयेन मन्त्रेण मृण्मयं लिङ्गमुत्तमम् ।
सम्यग्बिल्वतरोर्मूले पूजयत्यवलोकय ॥ २३९॥
यस्तु बिल्वतरोर्मूले शुद्धो मृत्युञ्जयं जपेत् ।
तस्य मृत्युभयं नास्ति सत्यं सत्यं मयोच्यते ॥ २४०॥
बिल्वमूले महादेवं लिङ्गरूपिणमास्तिकः ।
पूजयत्यतियत्नेन मृत्युपाशविमुक्तये ॥ २४१॥
सिध्यन्ति सम्पदस्तस्य बिल्वमूले शिवार्चनात् ।
यस्यास्त्यनन्यगा भक्तिर्महादेवे सुरोत्तमे ॥ २४२॥
शिवैकशरणो यस्तु पूजयिष्यति शङ्करम् ।
स एव भाग्यवाँल्लोके योग्यो मोक्षश्रियोऽपि च ॥ २४३॥
बिल्वमूले बिल्वपत्रैः क्षीरप्लुष्टैरकल्मषैः ।
हुत्वा शैवेन मनुना गोलक्षाधिपतिर्भवेत् ॥ २४४॥
बिल्वमूले बिल्वपत्रैर्घृतप्लुष्टैरखण्डितैः ।
हुत्वा शैवेन मनुना लभन्ते सम्पदोऽखिलाः ॥ २४५॥
पूतो यो बिल्ववृक्षाधः शैवं यदि मनुं जपेत् ।
तदा स गुरुसम्प्राप्तमन्त्रसिद्धिं च विन्दति ॥ २४६॥
अस्यापि जनकः शुद्धो महाशैवोत्तमो यतः ।
ततस्तदुपदिष्टश्च मन्त्रोऽस्य सफलो ध्रुवम् ॥ २४७॥
ज्वलज्ज्वलनसङ्काशं पश्य शैवोत्तमार्भकम् ।
उद्धूलनत्रिपूण्ड्राभ्यां रुद्राक्षैरपि भूषितम् ॥ २४८॥
रुद्राक्षकङ्कणः साम्बं लिङ्गरूपिणमद्वयम् ।
अभ्यर्चयति पश्यामुं बिल्वपत्रैरखण्डितैः ॥ २४९॥
आब्रह्मकल्पमेतस्य मृत्युर्नैव भविष्यति ।
सिद्धमृत्युञ्जयमनोरस्य स्यान्मरणं कथम् ॥ २५०॥
यस्य मृत्युञ्जयः सिद्धः स च मृत्युञ्जयः स्वयम् ।
तस्य दूरतरो मृत्युर्ध्यायतः किमुतापरे ॥ २५१॥
मृत्युञ्जयति यो देवः स तु मृत्युञ्जयः स्मृतः ।
स तु शङ्कर एव स्यादनन्यसहशो ध्रुवम् ॥ २५२॥
ये तु मृत्युञ्जयं नित्यं पूजयन्ति जपन्ति च ।
तेषां मृत्युभयं नास्तिं सत्यं सत्यं न संशयः ॥ २५३॥
अयं शिवैकशरणः श्रीमृत्युञ्जयजापकः ।
कथं मृत्युवशं गच्छेदतिमृत्युरयं ध्रुवम् ॥ २५४॥
बालोऽपि बलवानेष मृत्युञ्जयजपार्चनात् ।
अतो धिक्करणं चास्य मया कर्तुं न शक्यते ॥ २५५॥
मृत्युञ्जयमुपाश्रित्य यो धिक्कर्तुं न शक्यते ।
स किं शासयितुं शक्यो मृत्युञ्जयपरायणः ॥ २५६॥
यं मृत्युञ्जयमाश्रित्य स्थितोऽन्यैः पूज्यते सदा ।
स किं स्प्रष्टुं त्वया शक्यो मृत्युञ्जयपदानुगः ॥ २५७॥
॥ इति शिवरहस्यान्तर्गते चित्रगुप्तप्रोक्तं मृत्युञ्जयमहिमाख्यानं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १६ । १८१।२-१९९॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 16 . 181.2-199 ..
Encoded and proofread by Ruma Dewan