ब्रह्माप्रोक्तं काशी विश्वेश्वर शिवपूजोपदेशम्

ब्रह्माप्रोक्तं काशी विश्वेश्वर शिवपूजोपदेशम्

यत्र काश्यां महादेवो जन्तुमात्रस्य सादरम् । देहान्ते परमं मन्त्रं शैवं दातुमिहोद्यतः ॥ १७८॥ तत्र काश्यां महादेवो लीलारूपधरः शिवः । उमया सहितः प्रीत्या विचरत्यम्बिकापतिः ॥ १७९॥ यत्र काश्यां महादेवः स्वभक्तेभ्यो यथायथम् । ददाति नित्यं सर्वार्थान्सा कशी श्रुतिसम्मता ॥ १८०॥ पश्यन्तु पुण्यपुरुषं शिवपूजापरायणम् । एवमेतस्य सततं पूजनं क्रियते मया ॥ १८१॥ अयं धन्यतमो मर्त्यः काशीं प्राप्य महेश्वरम् । पूजयित्वा स्थितः प्रीत्या बिल्वपत्रादिसाधनैः ॥ १८२॥ चैत्रशुक्लाष्टमीं प्राप्य सोऽङ्गमुद्धूल्य भस्मना । कृत्वा विश्वेश्वरस्यार्चां जजापायं षडक्षरम् ॥ १८३॥ अन्नपूर्णां ततः सम्यक् सम्पूज्य तदनन्तरम् । अष्टोत्तरशतं चक्रे मौनेनायं प्रदक्षिणाम् ॥ १८४॥ नमस्कारांस्ततश्चक्रे शतमष्टोत्तरं मुदा । पुनः समर्चयामास देवीं त्रिभुवनेश्वरीम् ॥ १८५॥ ततः सायं पुनः प्रीत्या कृत्वा विश्वेश्वरार्चनम् । अन्नपूर्णालये प्रीत्या चक्रे जागरणं सुराः ॥ १८६॥ वाचयन् शङ्करस्यैव कथाः श्राव्या मनोहराः । उपवासं चकारायं निराहारेण सादरम् ॥ १८७॥ तस्यां रात्रौ महानासीत्सम्मर्दः सुरसत्तमाः । प्रदक्षिणनमस्काराः सम्मर्देऽपि कृता मुदा ॥ १८८॥ आवहन्तीति मन्त्रेण कृतो होमो मुनीश्वरैः । क्षीरेणाज्येन मधुना सर्वसम्पत्प्रवृद्धिदः ॥ १८९॥ अनेनापि कृतो होमः क्षीराज्यादिभिरादरात् । आवहन्तीति मन्त्रेण सर्वसम्पत्तिकाम्यया ॥ १९०॥ ततः प्रातः समुत्थाय विश्वेशार्चनपूर्वकम् । अन्नपूर्णामपि प्रीत्या पूजयामास सादरम् ॥ १९१॥ ततोऽयं भोजयामास शैवाञ्छैवसतीस्तथा । स्वयं च पारणां चक्रे शिवध्यानपुरःसरम् ॥ १९२॥ ईदृशोऽयं पुरा काश्यां स्थित्वापि तदनन्तरम् । चैत्रशुक्लाष्टमीं प्राप्य नार्चयामास शङ्करीम् ॥ १९३॥ देव्येनं प्रेरयामास गन्तुं देशान्तरं ततः । अथायं विप्रवर्योऽपि नर्मदां प्राप्य निर्मलाम् ॥ १९४॥ कृतस्नानस्ततो दिष्ट्या सर्पदष्टो मृतोऽभवत् । ततोऽयं भूपतिर्जातः सर्वभूचक्रपालकः ॥ १९५॥ सर्वसौभग्यसम्पन्नः पुत्रपौत्रसमन्वितः । ततो मृतोऽयं राजेन्द्रो विमानवरमाश्रितः ॥ १९६॥ गीतः स्तुतश्च गन्धर्वैर्मम लोकमुपागतः । मयाऽयं पूज्यते भक्त्या मत्सभासद्भिरव्ययम् ॥ १९७॥ सम्पूज्यते सुरा नित्यं सादरं भक्तिपूर्वकम् । कल्पाष्टकमुषित्वात्र ततो भूत्वाऽमराधिपः ॥ १९८॥ काशीं प्राप्य मुदा तत्र देहात्यागं करिष्यति । शिवयोः पूजनं पूर्वं कृतमेतेन यत्नतः ॥ १९९॥ यतस्ततः पुनः काशीं सम्प्राप्यायं शिवाज्ञया । सर्वसंसारविच्छित्यै काश्यां सन्त्यक्तजीवितः ॥ २००॥ मोक्ष महेशकृपया प्राप्नोत्येव न संशयः । एतादृशैर्द्विजवरैः पुरा काशीमुपाश्रितैः ॥ २०१॥ मुक्तिः प्राप्ता महेशस्य कृपया सत्यमुच्यते । कलौ तु मानुषं जन्म भवत्यत्यन्तदुर्लभम् ॥ २०२॥ तत्र चेन्मानुषं जन्म कर्तव्य शिवपूजनम् । मनुष्येष्वपि चेज्जन्म ब्राह्मण्यं ब्राह्मणाद्यद्यदि ॥ २०३॥ तदा त्ववश्यं कर्तव्यं श्रीशिवाभ्यर्चनं मुदा । अत्यन्तदुर्लभं जन्म कलौ प्राप्यापि मानुषम् ॥ २०४॥ यदि नाराध्यते शम्भुस्तस्य जन्म निरर्थकम् । शिवैकशरणो भूत्वा कलौ यदि वसेन्नरः ॥ २०५॥ तस्य मोक्षो भवत्येव नात्र कार्या विचारणा । यथा बिना सुवर्णेन दुर्लभे हेमकुण्डले ॥ २०६॥ तथा विना महादेवपूजां मोक्षोऽपि दुर्लभः । यथा विना भोजनेन तृप्तिरत्यन्तदुर्लभा ॥ २०७॥ तथा विना महादेवपूजां मोक्षोऽपि दुर्लभः । यथा चक्षुर्विना ज्ञानं चाक्षुषं त्वतिदुर्लभम् ॥ २०८॥ तथा विना महादेवपूजां मोक्षोऽपि दुर्लभः । यथा वृष्टिं विना सस्यवृद्धिरत्यन्तदुर्लभा ॥ २०९॥ तथा विना महादेवपूजां मोक्षोऽपि दुर्लभः । देवत्वमेव देवानां मोक्षस्य प्रतिबन्धकम् ॥ २१०॥ ततः कृतापि सा पूजा नाधुना मोक्षदायिनी । कदा देवत्वसम्बन्धनाशोऽस्माकं भविष्यति ॥ २११॥ कदा दास्यति गौरीशो मोक्षं विश्वेशपूजया । पुरा शङ्करमभ्यर्च्य ब्रह्मत्वं प्रार्थितं मया ॥ २१२॥ यद्दत्तं शङ्करेणेदं कदैतन्मे विनङ्क्ष्यति । पुरा शङ्करमभ्यर्च्य विष्णुनाप्यति यत्नतः ॥ २१३॥ विष्णुत्वं प्रार्थितं तेन तत्प्राप्तं शङ्कराज्ञया । एवं शङ्करमभ्यर्च्य देवैरन्यैश्च सादरम् ॥ २१४॥ महादेवप्रसादेन तत्तत्पदमुपार्जितम् । इदानीं मानुषं जन्म विष्णुः प्रार्थयते स्वयम् ॥ २१५॥ मयाऽपि प्रार्थ्यते नित्यं तत्कदा वा भविष्यति । इदानीं विष्णुरनिशं शिवपूजापरायणः ॥ २१६॥ शिवपूजां तनोत्येव मुक्तिकामोऽतियत्नतः । भवद्भिश्च महादेवः पूजनीयः सुराः सदा ॥ २१७॥ एवमाराधितो देवः कृपां किं न करिष्यति । भवदागमने हेतुर्ज्ञात एव मयाऽधुना ॥ २१८॥ तत्तपो भवतां दुःखं न करिष्यति सर्वथा । यामोऽद्य वैष्णवं धाम विष्णुः किं वा करिष्यति ॥ २१९॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं काशी विश्वेश्वर शिवपूजोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १५ । १७८-२१९॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 15 . 178-219 .. Notes: While delivering the Upadeśa उपदेश to Deva-s देवाः, Brahmā ब्रह्मा details to them about worshiping Śiva शिव at Kāśī काशी, especially at Viśveśvara Liñga विश्वेश्वर लिङ्ग. He reiterates severally about the merits of residing, worshiping Śiva शिव in various ways, and dying there; all this especially, with respect to attainment of Mukti मुक्ति. Encoded and proofread by Ruma Dewan
% Text title            : Brahmaproktam Kashi Vishveshvara Shivapujopadesham
% File name             : kAshIvishveshvarashivapUjopadeshambrahmAproktaM.itx
% itxtitle              : kAshIvishveshvarashivapUjopadesham brahmAproktaM (shivarahasyAntargatam)
% engtitle              : kAshIvishveshvarashivapUjopadesham brahmAproktaM
% Category              : shiva, shivarahasya, upadesha, advice, tIrthakShetra, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 15 | 178-219||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org