ब्रह्माप्रोक्तं काशीप्राप्तिसाधनोपदेशम्
ब्रह्मोवाच -
काशी श्रीमन्महादेवप्रसादेन भविष्यति ॥ ४७०॥
महादेवप्रसादार्थं पूजयस्व महेश्वरम् ।
पुण्येऽस्मिन्कार्तिके मासि सोमवारेषु शङ्करम् ॥ ४७१॥
उपोष्याभ्यर्थय प्रीत्या निशि यामचतुष्टये ।
अस्य कार्तिकमासस्य चत्वारः सोमवासराः ॥ ४७२॥
पुण्येष्वेतेषु सर्वेषु निशि पूजय शङ्करम् ।
शिवस्योमासमेतस्य वासरः सोमवासरः ॥ ४७३॥
तस्मिन्नर्भ्यर्चिते शम्भौ प्रसीदति महेश्वरः ।
अद्यैव याहि केदारं तत्रोर्जे मासि सादरम् ॥ ४७४॥
पूजयित्वा महादेवं काशी प्राप्स्यसि सर्वथा ।
केदारान्यशिवस्थानेष्वर्चितोऽस्ति त्वया शिवः ॥ ४७५॥
केदारेऽस्मिन्पुण्यमासि पूजयस्व सदाशिवम् ।
बिल्वपल्लवधुत्तूरद्रोणनीलोत्पलादिभिः ॥ ४७६॥
पूजयित्वा शिवं धूपैर्दीपाद्यैश्च प्रसादय ।
मयोपेन्द्रेण चन्द्रेण सूर्याद्यैरमरैरपि ॥ ४७७॥
विशेषेणार्चितः साम्बः कार्तिके मासि सादरम् ।
अम्बाप्युपोष्य विश्वेशं कार्तिके मासि भक्तितः ॥ ४७८॥
अर्चयिष्यन्ति हेरम्बस्कन्दाद्याश्चार्चयन्ति तम् ।
ऊर्जशुक्लचतुर्दश्यां काश्यां विश्वेश्वरं प्रभुम् ॥ ४७९॥
समर्चयितुमिन्द्राद्यैर्गम्यतेऽस्माभिरादरात् ।
त्वयापि तष्टिने काशी सम्प्राप्या पुण्ययोगतः ॥ ४८०॥
अतस्तदर्थं शीघ्र एण प्रसन्नं कुरु शङ्करम् ।
इत्येतद्वचनं श्रुत्वा तन्नत्वाहमिहागतः ॥ ४८१॥
अत्रोर्जेमासि गौरीशः पूजितश्च मया तदा ।
ततः शिवप्रसादेन काशी पापापनोदिनी ॥ ४८२॥
भुक्तिमुक्तिप्रदा पुण्या मया प्राप्ता शिवात्मिका ।
ततो विश्वेश्वरो दृष्टः संसारभयनाशकः ॥ ४८३॥
पूजितश्च मया भक्तया विश्वेशो भक्तवत्सलः ।
बहुकालं स्थितं काश्यां ततोऽत्र तु कदाचन ॥ ४८४॥
॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं काशीप्राप्तिसाधनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ४७०-४८४॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 470-484 ..
Notes:
Brahmā ब्रह्मा tells Devarṣi Nārada देवर्षि नारद that one can attain Kāśī काशी only with the Grace of Mahādeva महादेव; and highlights the importance of worshiping Śiva शिव in the month of Kārtika कार्तिकमास, especially during the four Mondays of the month कार्तिक सोमवार in order to acquire that Grace. Kāśī Viśveshvara काशी विश्वेश्वर is especially worshiped on Ūrja/Kārtika Śukla Caturdaśī ऊर्ज/कार्तिक शुक्ल चतुर्दशी.
Encoded and proofread by Ruma Dewan