ईश्वरप्रोक्तं काशीप्राप्तिसाधनोपदेशम्
- शिवगौरीसंवादे -
श्रीगौर्युवाच -
शिव सर्वज्ञ सर्वात्मन् किं काशीप्राप्तिसाधनम ।
एतत्सर्वं विशेषेण निरूपय कृपानिधे ॥ ९६॥
ईश्वरः
मयि भक्तिरविच्छिन्ना या मदभ्यर्चनोद्भवा ।
सा भक्तिरेव सुभगे काशीसम्प्राप्तिसाधनम् ॥ ९७॥
मदर्चनं च विविधं श्रुतिषु प्रतिपादितम् ।
तादृशेनार्चनेनैव मयि भक्तिः प्रजायते ॥ ९८॥
मद्भक्त इति विज्ञेयः स एव कमलानने ।
यो भस्मनिष्ठः सततं ममैवाराधने रतः ॥ ९९॥
काश्मीरादिषु लिङ्गेषु प्रविष्टं देवतोत्तमम् ।
मामेव योऽर्चयेन्नित्यं स मद्भक्त इति श्रुतः ॥ १००॥
हिमवत्पर्वतादीनि यानि स्थानानि शोभने ।
तेषु स्थानेषु शैवेन्द्रैर्मदर्थं तप्यते तपः ॥ १०१॥
तेषु तेषु तपस्तप्तं यैरनेकयुगावधि ।
तैरेव प्राप्यते काशी मत्स्वरूपा वरानने ॥ १०२॥
गिरिजे सुलभो नाहं परं त्वत्यन्तदुर्लभः ।
तथापि सुलभोऽत्यन्तं शैवधर्मरतात्मनाम् ॥ १०३॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं काशीप्राप्तिसाधनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ९६-१०३॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 96-103 ..
Notes:
Upon being requested by Gaurī गौरी about the means of attaining Kāśī काशी, Śiva शिव delivers the Upadeśa उपदेश that Devotion to Him and following His Ways is the easiest means of attaining Kāśī काशी - which indeed, is an embodiment of Himself.
Encoded and proofread by Ruma Dewan