ब्रह्माप्रोक्तं जम्बूद्वीपे शिवक्षेत्रवर्णनम्

ब्रह्माप्रोक्तं जम्बूद्वीपे शिवक्षेत्रवर्णनम्

कलिं प्राप्य महादेवं योऽर्चयिष्यति सर्वदा । न तस्मादधिको धन्यः सत्यं सत्यं न संशयः ॥ १३४॥ यावत्पुण्यं कृतयुगे शिवस्याभ्यर्चनाद्भवेत् । ततः शतगुणं पुण्यं त्रेतायां शिवपूजनात् ॥ १३५॥ त्रेतायां पूजनाच्छम्भोर्यावत्पुण्यमवाप्यते । ततोऽयुतगुणं पुण्यं द्वापरे शिवपूजनात् ॥ १३६॥ द्वापरे शिवपूजातो यावत्पुण्यमवाप्यते । ततः कोटिगुणं पुण्यं कलौ शङ्करपूजय ॥ १३७॥ कलावपि महाद्वीपो जम्बूद्वीप इति श्रुतः । तत्र शङ्करमभ्यर्च्य दुःखं नाप्नोति मानवः ॥ १३८॥ श्वेतद्वीपादिषु श्रद्धाभक्त्या च शिवपूजया । यत्पुण्यं तच्छतगुणं जम्बूद्वीपे शिवार्चनात् ॥ १३९॥ जम्बूद्वीपे च सन्त्येव शिवक्षेत्राणि भूरिशः । तेषु शङ्करमाराध्य लभ्यते सुकृतं बहु ॥ १४०॥ जम्बूद्वीपे शिवक्षेत्रे कुम्भघोणाभिधं महत् । तस्मिन् क्षेत्रे जन्ममान्त्राज्जन्म न प्राप्यते पुनः ॥ १४१॥ तत्र शङ्करमभ्यर्च्य यावत्पुण्यमवाप्यते । ततः शतगुणं पुण्यं शिवार्चायां चिदम्बरे ॥ १४२॥ चिदम्बरे शिवार्चातो यावत्पुण्यमवाप्यते । ततः शतगुणं पुण्यं श्रीमद्वृद्धाचलेश्वरे ॥ १४३॥ वृद्धाचले शिवार्चातो यावत्पुण्यमवाप्यते । ततः शतगुणं पुण्यं शिवार्चातोऽनलेश्वरे ॥ १४४॥ ततोऽप्यत्युत्तमं क्षेत्रमरुणाचलनामकम् । ततोऽयुतगुणं पुण्यं तत्र शङ्करपूजया ॥ १४५॥ ततोऽप्यत्त्युत्तमं क्षेत्रं काञ्चीक्षेत्रं शिवात्मकम् । ततोस्युतगुणं पुण्यं तत्र शङ्करपूजया ॥ १४६॥ ततो दक्षिणकैलासः शिवप्रियकरो वरः । ततोऽयुतगुणं पुण्यं तत्र शङ्करपूजया ॥ १४७॥ ततः पुण्यतरं क्षेत्रं श्रीशैलक्षेत्रमुत्तमम् । ततोऽयुतगुणं पुण्यं तत्र शङ्करपूजया ॥ १४८॥ ततः श्रेष्ठतरं क्षेत्रं काशीक्षेत्रं शिवात्मकम् । ततः कोटिगुणं पुण्यं तत्र शङ्करपूजया ॥ १४९॥ ततः श्रेष्ठतरं क्षेत्रं श्रीमदन्तर्गृहाभिधम् । ततः कोटिगुणं पुण्यं प्राप्यं शङ्करपूजया ॥ १५०॥ तत्राप्यत्युत्तमं क्षेत्रं ज्ञानवापीतटं वरम् । ततः कोटिगुणं पुण्यं प्राप्यं शङ्करपूजया ॥ १५१॥ तत्राप्यत्युत्तमं ज्ञेयं विलासस्थानमैश्वरम् । ततः कोटिगुणं पुण्यं प्राप्यं शङ्करपूजया ॥ १५२॥ तत्राप्यत्युत्तमं स्थानं सर्वदेवस्तुतं सदा । शिवागारमिति ज्ञेयं तत्तु सर्वोत्तमोत्तमम् ॥ १५३॥ तत्र साम्बो महादेवः सर्वदेवोत्तमोत्तमः । सर्ववेदस्तुतो नित्यं लिङ्गाकारेण तिष्ठति ॥ १५४॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं जम्बूद्वीपे शिवक्षेत्रवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १५ । १२७-१५४॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 15 . 127-154 .. Notes: While delivering the Upadeśa उपदेश to Deva-s देवाः, Brahmā ब्रह्मा tells them about the merits of worshiping Śiva शिव especially during KaliYuga कलियुग in comparison with the other three Yuga-s युगाः (Kṛta कृत, Tretā त्रेता and Dvāpara द्वापर). He further enumerates select Śivakśetra शिवक्षेत्र of KaliYuga कलियुग that are manifest in the Jambūdvīpa जम्बूद्वीप, and the merits of worshiping Śiva शिव there. These Śivakśetra शिवक्षेत्र include: Kumbhaghoṇam कुम्भघोणम् (Kumbhakoṇam कुम्भकोणम्), Cidambaram चिदम्बरम्, Vṛddhācaleśvaram वृद्धाचलेश्वरम्, Aruṇācalam अरुणाचलम्, Kāñcī काञ्ची, Dakṣiṇa Kailāsa दक्षिण कैलास, Śrīśailam श्रीशैलम्, Kāśī काशी, Śrīmadantargṛham श्रीमदन्तर्गृहम्, Jñānavāpitaṭam ज्ञानवापितटम्, Vilāsasthānamaiśvaram विलासस्थानमैश्वरम्, Śivāgāram शिवागारम्. Encoded and proofread by Ruma Dewan
% Text title            : Brahmaproktam Jambudvipe Shivakshetravarnanam
% File name             : jambUdvIpeshivakShetravarNanambrahmAproktaM.itx
% itxtitle              : shivakShetravarNanam brahmAproktaM jambUdvIpe (shivarahasyAntargatam)
% engtitle              : shivakShetravarNanam brahmAproktaM jambUdvIpe 
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 15 | 127-154||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org